54049: रोगाच्चापनयने

Padacheda: रोगात् | S | 5 | 1 |

च | S | 0 | 0 |

अपनयने | S | 7 | 1 |

Sutrartha

षष्ठीविभक्तौ विद्यमानात् रोगवाचकशब्दात् अपनयनस्य सन्दर्भे तसि-प्रत्ययः भवति ।

‘अपनयन’ इत्युक्ते ‘उपचारः / चिकित्सा / प्रतिकारः / नाशनम् / दूरीकरणम्’ ।षष्ठ्यन्तात् रोगवाचकशब्दात् ‘अस्य अपनयनम्’ इत्यस्मिन् विषये वर्तमानसूत्रेण तसि-प्रत्ययः भवति । यथा - 1. प्रवाहिकायाः ( diarrhoea) अपनयनम् इत्येव = प्रवाहिकायाः + तसि [वर्तमानसूत्रेण तसि-प्रत्ययः] → प्रवाहिकायाः + तस् [इकारः उच्चारणार्थः, तस्य लोपः भवति] → प्रवाहिका + ङस् + तस् [अलौकिकविग्रहः] → प्रवाहिका + तस् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः (2.4.71) इति ङस्-प्रत्ययस्य लोपः] → प्रवाहिकातः [सकारस्य ससजुषो रुँः (8.2.66) इति रुँत्वम् । खरवसानयोर्विसर्जनीयः (8.3.15) इति विसर्गः] ‘प्रवाहिकातः कुरु’ इत्युक्ते ‘प्रवाहिकायाः अपनयनम् कुरु’ इति । ‘प्रवाहिकातः’ इति शब्दः ‘प्रवाहिकायाः अपनयनम्’ इत्येतम् सम्पूर्णमर्थम् दर्शयति । अतः ‘प्रवाहिकातः’ इति उच्यते चेत् पुनः ‘अपनयनम्’ इति न वक्तव्यम् । एवमेव - 2. कासस्य (diarrhoea इत्येव) अपनयनम् = कासतः । 3. छर्दिकायाः (vomiting) अपनयनम् = छर्दिकातः । एतादृशाः शब्दाः सिद्ध्यन्ति । ज्ञातव्यम् - 1. ‘तसि’प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 2. एतत् सूत्रम् समर्थानां प्रथमात् वा (4.1.82) अस्मिन् अधिकारे उक्तायाम् महाविभाषायां पाठितमस्ति । अतः अनेन सूत्रेण उक्तः ‘तसि’ प्रत्ययः विकल्पेनैव भवति । इत्युक्ते, पक्षे ‘प्रवाहिकायाः अपनयनम्’ एतादृशाः प्रयोगाः अपि विधीयन्ते । 3. ‘तसि’-प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, सकारस्य इत्संज्ञानिषेधार्थम् च स्थापितः अस्ति । प्रक्रियायाः प्रारम्भे एव तस्य लोपः भवति ।

Vasu English Summary

The affix तसि comes optionally after a word denoting a disease ending in the Genitive 6th-Case when the healing of the same is denoted.

Vasu English Translation

The affix तसि comes optionally after a word denoting a disease ending in the Genitive 6th-Case when the healing of the same is denoted. The word रोग means ‘disease’, and अपनयन means ‘healing’, ‘curing’. Thus प्रवाहिकायाः प्रतीकारं कुरु = प्रवाहिकातः कुरु; so also छर्दिकातः कुरु ॥

Why do we say ‘when healing is meant’? Observe प्रवाहिकायाः प्रकोपनं कुरु ॥

Kashika

रोगो व्याधिः, तद्वाचिनः शब्दाद् या षष्ठी विभक्तिः, तदन्ताद् वा तसिः प्रत्ययो भवत्यपनयने गम्यमाने। अपनयनं प्रतीकारः, चिकित्सेत्यर्थः। प्रवाहिकातः कुरु। कासतः कुरु। छर्दिकातः कुरु। प्रतीकारमस्याः कुर्वित्यर्थः। अपनयन इति किम् ? प्रवाहिकायाः प्रकोपनं कुरु॥

Siddhanta Kaumudi

रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति ॥

Tattvabodhini

रोगाच्चापनयने - प्रवाहिकात इति ।प्रच्छर्दिकातः कुर्वि॑त्याद्यप्युदाहरणम् । प्रवाहिका -विषूचिका । प्रच्छर्दिका तु -वमनव्याधिः ।

Padamanjari

प्रवाहिकात इति। प्रवाहिफाशब्दात्प्रतीकारापेक्षया षष्ठी, तदन्तात्त्सिः, प्रतीकारशब्दस्य तु पूर्ववदप्रयोगः॥

Nyaas

प्रवाहिकातः इति। प्रवाहिकाशब्दात्? प्रतीकारापेक्षया षष्ठी, ततस्तसिः॥

Prakriyasarvasvam

त्यागे द्योत्ये रोगेभ्यः षष्ठ्यास्तसिः । ज्वरतः करोति भिषक् । ज्वरस्य प्रतीकारं करोतीत्यर्थः ॥