54043: संख्यैकवचनाच्च वीप्सायाम्¶
Padacheda: सङ्ख्या-एकवचनात् | S | 5 | 1 |
च | S | 0 | 0 |
वीप्सायाम् | S | 7 | 1 |
Sutrartha¶
सङ्ख्यावाचिशब्दः उत एकार्थवाचिशब्दः (= परिमाणवाचिशब्दः) यत्र पौनःपुन्यस्य निर्देशार्थम् कारकरूपेण प्रयुज्यते, तत्र तस्मात् स्वार्थे विकल्पेन शस्-प्रत्ययः भवति ।
यत्र कश्चन सङ्ख्यावाची शब्दः (यथा - द्वौ, त्रि, चतुर् - आदयः) उत परिमाणवाची शब्दः (यथा - काषार्पणम्, पादम् - आदयः) वाक्ये कारकरूपेण तथा च वीप्साम् (repetition / पौनःपुन्यम्) दर्शयितुम् प्रयुज्यते तत्र तस्मात् स्वार्थे शस्-प्रत्ययः भवति । कानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् - [अ] सङ्ख्यावाचकाः शब्दाः - 1. ‘द्वौ द्वौ गृह्णाति’ - अस्मिन् वाक्ये ‘द्वौ’ इति शब्दः वीप्सायाम् प्रयुक्तः अस्ति (Takes two repeatedly - इति आशयः) । तथा च, अयम् शब्दः अत्र कर्मकारकरूपेण प्रयुक्तः अस्ति । अस्यां स्थितौ वर्तमानसूत्रेण ‘द्वि’ शब्दात् ‘शस्’ इति प्रत्ययं कृत्वा ‘द्विशः ददाति’ इत्यपि प्रयोगः भवितुमर्हति । ‘द्वौ द्वौ ददाति’ इत्येव = द्विशः ददाति । 2. ‘पञ्चभ्यः पञ्चभ्यः स्वीकरोति’ (Accepts from five people again and again) - अत्रापि ‘पञ्चन्’ शब्दः वीप्सायाम् तथा अपादानकारके प्रयुक्तः अस्ति । अतः अत्र शस्-प्रत्ययं प्रयुज्य ‘पञ्चशः स्वीकरोति’ इति अपि प्रयोगः भवति । ‘पञ्चभिः पञ्चभिः स्वीकरोति’ इत्येव = पञ्चशः स्वीकरोति । [आ] एकार्थवाचकाः शब्दाः (= परिमाणवाचकाः शब्दाः) 1. ‘कार्षापणम् कार्षापणम् ददाति’ (gives one-one coin) - अत्र ‘कार्षापण’ (a gold coin) इति परिमाणवाची शब्दः वीप्सायाम् तथा च कर्मकारके प्रयुक्तः अस्ति । अतः अत्र वर्तमानसूत्रेण शस्-प्रत्ययः विधीयते- ‘कार्षापणम् कार्षापणम् ददाति’ इत्येव = कार्षापणशः ददाति । 2. ‘पादे पादे लिखति’ (writes on one one quarter) - अत्रापि पाद (a coin of quarter value) इति परिमाणवाची शब्दः वीप्सायाम्, तथा स अधिकरणे प्रयुक्तः अस्ति । अतः अत्र स्वार्थे शस्-प्रत्ययः भवितुमर्हति । ‘पादे पादे लिखति’ इत्येव = पादशः लिखति । यदि वीप्सा नास्ति (if there is no repetition), अथवा यदि कारकम् नास्ति, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवतीति स्मर्तव्यम् । यथा - 1. ‘पञ्चभ्यः स्वीकरोति’ - अत्र वीप्सा न विद्यते । अतः अत्र शस्-प्रत्ययः न भवति । 2. ‘पञ्चानाम् पञ्चानाम् पठनम्’ - अत्र कारकम् न विद्यते, केवलम् सम्बन्धः विधीयते । अतः अत्रापि शस्-प्रत्ययः न भवति । 3. ‘काषार्पणम् ददाति - अत्र वीप्सा न विद्यते । अतः अत्र शस्-प्रत्ययः न भवति । 4. पादस्य पादस्य च गणना - अत्र कारकम् न विद्यते, केवलम् सम्बन्धः विधीयते । अतः अत्रापि शस्-प्रत्ययः न भवति । विशेषः - 1. अस्मिन् सूत्रे ‘एकवचनात्’ इति निर्दिश्यते । अयम् शब्दः अत्र व्यावहारिके अर्थे (= singular अस्मिन् अर्थे) नैव प्रयुक्तः अस्ति, अपितु ‘एकोऽर्थ उच्यते येन’ इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । किम् नाम एकार्थः ? यदि कस्यचन वस्तुनः द्वौ उत अधिकाः आवृत्तयः भिन्नाः सत्यः अपि समानमेव अर्थम् वदन्ति, तर्हि तत्र ‘एकार्थः’ अस्तीति उच्यते ; तादृशस्य च वस्तुनः अत्र ग्रहणम् कृतमस्ति । When two or more copies of an object are always treated equivalent irrespective of their shape, size etc, we refer to it as एकार्थ. It is this meaning that is imparted here by the word एकवचन. For example, two gold coins of 1 unit are always considered equivalent, even if they differ a little in shape, size, polishing etc. Hence, a gold coin is considered एकार्थ in this context. In brief, एकार्थ is said to exist when multiple copies of an object are treated equivalent to each other for all practical purposes. In general, all परिमाणवाची words fall in this category, and that is why the सूत्रार्थ has mentioned ‘एकवचन’ as equivalent to ‘परिमाणवाचिशब्दाः’ । 2. यदि ‘एकार्थः’ न विद्यते, तर्हि वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - ‘घटं घटं मिमेति’ - अत्र यद्यपि वीप्सा तथा कारकत्वम् - द्वावपि विद्येते, तथाप्यत्र एकार्थः न प्रतीयते । Two pots are not considered equivalent in a general usage, because people can choose one amongst the two using certain distinguishing characteristics. । अतः अत्र वर्तमानसूत्रेण प्रत्ययविधानम् नैव भवति । 3. शस्-प्रत्यये सकारस्य प्रयोजनाभावात् इत्संज्ञा न भवति । 4. अनेन सूत्रेण निर्मिताः शस्-प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । 5. क्रमशः, भागशः, गणशः - आदयः प्रसिद्धाः शब्दाः अनेनैव सूत्रेण सिद्ध्यन्ति ।
Vasu English Summary¶
The affix शस् comes optionally after crude forms denoting numbers and words denoting units of a coin in the singular number when a distributive sense is to be expressed (and the word is a कारक).
Vasu English Translation¶
The affix शस् comes optionally after crude forms denoting numbers and words denoting units of a coin in the singular number when a distributive sense is to be expressed (and the word is a कारक). Thus द्वौ द्वौ मोदकौ ददाति = द्विशो मोदकौ ददाति “He gives two sweet-meats to each”. So also त्रिशः ॥ Similarly after words in the singular number as, कार्षापणशो ददाति “he gives a Karshapana coin to each”. So also माषशः, पादशः ॥ That by which the sense of unit is expressed is called eka-vachana. The words karshapana &c denote quantity, but their function in the sentence is to denote one-ness i. e. one to each, though in fact many are given.
Why de we say “after Numerals and units of coin”? Observe घटं घटं ददाति “he gives a pot to each”. Why do we say “when a distributive sense is meant”? Observe द्वौ ददाति “He gives two”. कार्षापणम् ददाति “he gives a karshapana”.
This rule of course applies when the word is in relation with a verb viz. when it is a karaka, and not when it is in the genitive case governing another noun. As द्वयोर्द्वयोः स्वामी “Lord of two each”. कार्षापणस्य कार्षापाणस्य स्वामी “Possessor of a karshapanas each”. In fact the work “karakat” of the last sutra is understood here also. This sutra is exception to (8.1.4).
Kashika¶
संख्यावाचिभ्यः प्रातिपदिकेभ्य एकवचनात् च वीप्सायां द्योत्यायां शस् प्रत्ययो भवत्यन्यतरस्याम्। द्वौद्वौ मोदकौ ददाति द्विशः। त्रिशः। एकवचनात् खल्वपि — कार्षापणंकार्षापणं ददाति कार्षापणशः। माषशः। पादशो ददाति। एकोऽर्थ उच्यते येन तदेकवचनम्। कार्षापणादयश्च परिमाणशब्दा वृत्तावेकार्था एव भवन्ति। संख्यैकवचनादिति किम्? घटंघटं ददाति। वीप्सायामिति किम्? द्वौ ददाति। कार्षापणं ददाति। कारकादित्येव — द्वयोर्द्वयोः स्वामी। कार्षापणस्यकार्षापणस्य स्वामी॥
Siddhanta Kaumudi¶
द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः स्वामी ॥
Balamanorama¶
संख्यैकवचनाच्च वीप्सायाम् - प्रतियोगे । विहितेति ।प्रतिः प्रतिनिधिप्रतिदानयो॑रिति प्रते कर्मप्रवचनीयत्वे तद्योगेप्रतिनिधिप्रतिदाने च यस्मा॑दिति पञ्चमी विहितेत्यर्थः । प्रद्यचुम्नः कृष्णतः प्रतीति । कृष्णस्य प्रतिनिधिरित्यर्थः । आद्यादिभ्य इति । अयं सार्वविभक्तिकस्तसिः । अपादाने चाऽहोयरुहोः ।अहीयरूहो॑रिति छेदः । ‘हीयते’ इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्यहीये॑त्यनुकरणम् । हीयरुहोः संबन्धि यन्न भवति तन्मिन्नपादाने इत्यर्थः । अतिग्रहा व्यथने अतिक्रम्य ग्रह इति । लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः । चारित्रेणेति । चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः । फलितमाह — अन्यानतिक्रम्य वर्तत इति ।व्यथ भयसंचलनयो॑रिति चलनार्थाल्ल्युटि व्यथनशब्दः । तदाह — अव्यथनमचलनमिति । क्षेपे इति । ‘उदाह्यियते’ इति शेषः । क्षेपो निन्दा । हीयमानपापयोगाच्च । हीयमानेति । हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः । ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह — क्षेपस्याऽविवक्षायामिति । तत्त्वकथने इत्यर्थः । षष्टआ व्याश्रये ष । नानापक्षसमाश्रयणे इति । सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत् । पक्षः — स्वीयत्वेन परिग्रहः । देवा अर्जुनतोऽभवन्निति । अर्जुनस्य पक्षे आसन्नित्यर्थः । रोगाच्चा । रोगस्य प्रतीकारः — चिकित्सा । प्रवाहिकात इति । विषूचिकाप्रतीकारमित्यर्थः ।
Tattvabodhini¶
संख्यैकवचनाच्च वीप्सायाम् - परिमाणशब्दा इति । तथा चैकवचनग्रहणेन एकोऽर्थ उच्यते येनेत्यर्थकेन वृत्तावेकार्थतानियताः परिमाणशब्दा एव गृह्रन्त इति भावः । माषं माषमिति । माषदातेत्युक्ते माषमात्रस्य हिरण्यादेर्दातेति प्रतीयते, न तु माषाणामिति प्रतीतिरिति भवत्ययं वृत्तावेकार्थतानियमः । एवं प्रस्थादिरपि । घटादयस्तु नैवम् । घटदातेत्युक्ते तु घटानां दातेत्यर्थस्यापि प्रतीयमानत्वात् । अतएव च प्रत्युदाहरति -घटं घटमिति । घटादयो हि जातिशब्दा नैकार्था भवन्तिस जातियोगस्यैकानेकसाधारणत्वात्, किं त्वभेदैकत्वसङ्ख्यामुपाददते । एतच्च सर्वं जयादित्यमतानुसारेणोक्तम् । वामनमते जातिशब्देभ्योऽपि बवत्येव । तथा चजश्शसो ॑रिति सूत्रे तेनोक्तम्, -जसा सहचरितस्य शसो ग्रहणादिह न भवति -॒कुण्डशो ददाति वनशः प्रविशती॑ति, तस्यायमाशयः -जातिशब्दोऽपि यद्यर्थप्रकरणादिना वृत्तावेकार्थो भवति, तदा भवत्येव ततोऽपि शसिति । अथ कथम्एकैकशः पितृसंयुक्ता॑निति द्विर्वचनशसोः सह प्रयोद इति चेत् ।छन्दोवदृषयः कुर्वन्ती॑ति हरदत्तः । अतएवसुपः॑इति सूत्रेएकैकश॑इति प्राचो ग्रन्थः प्रामादिक॑इत्यवोचामेति मनोरमायां स्थितम् । वस्तुतस्तु एकैकमेव एकैकशः । स्वार्थे शस्, न तु वीप्सायाम्,एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे॑ति भाष्यादितितान्येकवचने॑त्यादिसूत्रे वक्ष्यामः । द्वौ ददातीति । कथं तर्हि -॒अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहरुआशः समेतानां परिषत्तवं न विद्यते॑इति । न ह्यत्र वीप्सास्ति, नापि कारकत्वमिति चेत् । अत्राहुः सहरुआं सहरुआं ये समेतास्तेषामपि परिषत्त्वं नेत्यर्थः । तथा च समवायक्रियां प्रति कर्तृत्वं, वीप्सा चस्त्येवेति । एतेनएकश एकवचनादिसंज्ञानि स्यु॑रिति व्याख्यातम् । एकशब्दार्थस्याऽस्तिक्रियां प्रति कर्तृत्वात् । कृष्णतः प्रतीति ।प्रतिः प्रतिनिधिप्रतिदानयो॑रिति कर्मप्रवचनीयसंज्ञायांप्रतिनिधिप्रतिदाने च यस्मा॑दिति पञ्चमी ।आद्यादिभ्य उपसङ्ख्यानम् । आद्यादिभ्य इति ।स्यादित उदात्तमद्र्धह्रस्व॑मित्येतदत्र लिङ्गम् ।
Padamanjari¶
‘नित्यवीप्सयोः’ इति द्विर्वचने प्राप्ते तदपवादः सस्विधीयते। कथं तहि ठेकैकशः पितृसंयुक्ताम्ऽ इति शस्द्विर्वचनयोः सहप्रयोगः? छन्दोवदृषयः कुर्वन्ति। यद्यत्र पारिभाषिकस्यैकवचनस्य ग्रहणं स्यात्-सर्वेभ्यो ब्राह्मणेभ्यो घट्ंअघट्ंअ ददातीत्यत्रापी स्यात्; घटशब्दस्यैकवचनान्तत्वादित्यालोच्यान्वर्थस्यैकवचनस्यात्र ग्रहणमित्याह - एकोऽर्थ उच्यते येनेति। नन्वेवमपि स दोषस्तदवस्थ एव, एकवचनान्कतस्यैकार्थत्वात्? इत्यत आह-कार्षापणादयश्चेति। अनेन वृत्तिस्थैकार्थताऽऽश्रीयते, न वाक्यगतेति दर्शयति। वृतौ न घटादयो जातिशब्दा अनेकार्था भवन्ति, जातियोगस्यैकानेकसाधारणत्वात्; किन्त्वभेदैकत्वसंख्यामुपाददते; कार्षापणादयस्तु परिभाणवचना अक्तपरिमाणमर्थमाचक्षाणा इत्येकशेषबलात् अक्षाः, पादाः, माषा इतिवदेकजात्यन्वयरहितानेकार्थप्रतीतिः। वृतौ तु विभक्त्यैकशेषयोरभावात्स एव केवलोऽक्तपरिमाणोर्थोऽवतिष्ठते। अतः कार्षापणादय एवोदाहरणमिति जयादित्यो मन्यते। वामनस्तु’जश्शसोः शिः’ इत्यत्रोदाहरिष्यति -‘जसा सहचरितस्य शसो ग्रहणादिह न भवति-कुण्डशो ददाति, वनशः प्रविशति’ इति। स मन्यते-जातिशब्दोऽपि यदा अर्थप्रकरणादिना वृतावेकार्थीभवति, भवत्येव तदा ततोऽपि शसिति - द्वयोर्द्वयोः स्वामीति। कथं तर्हि - अव्रतानामविद्यानां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्वं ॥ इति ? कथं च न स्याद्? वीप्साया अभावाद्, अकारकत्वाद्, अनेकवचनत्वाच्च, अयं ह्यत्रार्थः- एवम्भूतानां ब्राह्माणां सहस्रस्यापि परिषत्वं न विद्यत इति? नायमत्रार्थो यथा त्वमात्थ, कि तहि ? सहस्रं सहस्रं ये समेतास्तेपामप्येवम्भूतानां परिषत्वं नास्तीति, तत्र समवायक्रियायां कर्तृत्वाद्वीप्सायाश्चाभावाच्छस् भवति ॥
Nyaas¶
प्रतियोगे। विहितेति। प्रतिः प्रतिनिधिप्रतिदानयो`रिति प्रते कर्मप्रवचनीयत्वे तद्योगे `प्रतिनिधिप्रतिदाने च यस्मा`दिति पञ्चमी विहितेत्यर्थः। प्रद्यचुम्नः कृष्णतः प्रतीति। कृष्णस्य प्रतिनिधिरित्यर्थः। आद्यादिभ्य इति। अयं सार्वविभक्तिकस्तसिः। अपादाने चाऽहोयरुहोः। `अहीयरूहो`रिति छेदः। `हीयते इत्यादौ कर्मणि लकारे यगन्तस्य एकदेशस्य हीये`त्यनुकरणम्। हीयरुहोः संबन्धि यन्न भवति तन्मिन्नपादाने इत्यर्थः। अतिग्रहा व्यथने अतिक्रम्य ग्रह इति। लोकवृत्तमतिक्रम्य तद्विलक्षणतया प्रतीयमानत्वमित्यर्थः। चारित्रेणेति। चरित्रमेव चारित्रम्, तेन हेतुना इतरविलक्षणत्वेन दृश्यते इत्यर्थः। फलितमाह - अन्यानतिक्रम्य वर्तत इति। `व्यथ भयसंचलनयो`रिति चलनार्थाल्ल्युटि व्यथनशब्दः। तदाह - अव्यथनमचलनमिति। क्षेपे इति। `उदाह्यियते इति शेषः। क्षेपो निन्दा। हीयमानपापयोगाच्च। हीयमानेति। हीयमानयुक्तात् पापयुक्ताच्चेत्यर्थः। ननु पूर्वसूत्रे क्षेपग्रहणादेव सिद्धे किमर्थमिदमित्यत आह - क्षेपस्याऽविवक्षायामिति। तत्त्वकथने इत्यर्थः। षष्टआ व्याश्रये ष। नानापक्षसमाश्रयणे इति। सर्वसाधारण्यं विहाय एकपक्षाश्रय इति यावत्। पक्षः - स्वीयत्वेन परिग्रहः। देवा अर्जुनतोऽभवन्निति। अर्जुनस्य पक्षे आसन्नित्यर्थः। रोगाच्चा। रोगस्य प्रतीकारः - चिकित्सा। प्रवाहिकात इति। विषूचिकाप्रतीकारमित्यर्थः।
Prakriyasarvasvam¶
सङ्ख्याशब्दादेकार्थाच्च कारकाद् वीप्सायां शस् वा स्यात् द्वौ द्वावित्याद्यर्थे द्विशः, त्रिशः, कतिशः, गणशः, तावच्छः । प्रस्थादयः स्वत एकार्थाः । प्रस्थं प्रस्थं ददाति प्रस्थशः, पणशः, पादशः ॥
Sutra Prayogas¶
गणशः (रघुवंशम्): संख्यैकवचनाच्च वीप्सायाम् इति शस्प्रत्ययः।
अनेक-शो (भट्टिकाव्यम्): सङ्घचैकवचनाच्च इति शस्।