Sutras 41 - 60¶
- 53041: विभाषावरस्य
- 53042: संख्याया विधार्थे धा
- 53043: अधिकरणविचाले च
- 53044: एकाद्धो ध्यमुञन्यतरस्याम्
- 53045: द्वित्र्योश्च धमुञ्
- 53046: एधाच्च
- 53047: याप्ये पाशप्
- 53048: पूरणाद्भागे तीयादन्
- 53049: प्रागेकादशभ्योऽच्छन्दसि
- 53050: षष्ठाष्टमाभ्यां ञ च
- 53051: मानपश्वङ्गयोः कन्लुकौ च
- 53052: एकादाकिनिच्चासहाये
- 53053: भूतपूर्वे चरट्
- 53054: षष्ठ्या रूप्य च
- 53055: अतिशायने तमबिष्ठनौ
- 53056: तिङश्च
- 53057: द्विवचनविभज्योपपदे तरबीयसुनौ
- 53058: अजादी गुणवचनादेव
- 53059: तुश्छन्दसि
- 53060: प्रशस्यस्य श्रः