53049: प्रागेकादशभ्योऽच्छन्दसि¶
Padacheda: प्राक् | S | 0 | 0 |
एकादशभ्यः | S | 5 | 3 |
अच्छन्दसि | S | 7 | 1 |
Sutrartha¶
‘एकादश’ इत्यस्मात् पूर्वम् विद्यमानाः ये पूरणप्रत्ययान्तशब्दाः, ते लौकिकसंस्कृते यदि ‘भाग’ इत्यस्य विशेषणरूपेण प्रयुज्यन्ते, तर्हि तेभ्यः स्वार्थे अन्-प्रत्ययः विधीयते ।
‘एकादश’ इति पूरणप्रत्ययान्तशब्दः अस्मिन् सूत्रे निर्दिष्टः अस्ति । एकादशानाम् पूरणम् = एकादशन् + डट् → एकादश । अस्मात् पूर्वम् ये पूरणप्रत्ययान्तशब्दाः विद्यते, ते यदि ‘भाग’ इत्यस्य विशेषणरूपेण विधीयन्ते, तर्हि तेभ्यः ‘अन्’ इति प्रत्ययः स्वार्थे विधीयते । यथा - 1. चतुर्थः भागः = चतुर्थ + अन् → चतुर्थ् + अन् [यस्येति च (6.4.148) इति अकारलोपः] → चतुर्थ । 2. पञ्चमः भागः = पञ्चम + अन् → पञ्चम । 3. षष्ठः भागः = षष्ठ + अन् → षष्ठ । 4. सप्तमः भागः = सप्तम + अन् → सप्तम । 5. अष्टमः भागः = अष्टम + अन् → अष्टम । 6. नवमः भागः = नवम + अन् → नवम । 7. दशमः भागः = दशम + अन् → दशम । ‘एकादश’ इत्यस्मात् अग्रे तु अस्य सूत्रस्य प्रयोगः न भवति । ज्ञातव्यम् - 1. वस्तुतः अत्र ‘अन्’ प्रत्ययस्य प्रयोगेण पुनः ‘चतुर्थ’, ‘पञ्चम’ एतादृशाः शब्दाः एव सिद्ध्यन्ति । अत्र प्रत्ययविधानमपि स्वार्थे कृतमस्ति, अतः अत्र ‘चतुर्थ’ / ‘पञ्चम’ इत्यस्मिन्नेव अर्थे पुनः ‘चतुर्थ’ / ‘पञ्चम’ एतादृशाः शब्दाः सिद्ध्यन्ति अतः अस्य सूत्रस्य प्रयोजनम् किम् - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - ‘स्वरार्थम् वचनम्’ । इत्युक्ते, पूरणप्रत्ययान्तशब्दाः तथा अन्-प्रत्ययान्तशब्दाः - एतेषु स्वरे अन्तरम् विद्यते । पूरणप्रत्ययान्तशब्देषु प्रत्ययस्य आदिस्वरः आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तस्वरम् प्राप्नोति । अन्-प्रत्ययान्तशब्दानाम् विषये तु समुदायस्य प्रथमः स्वरः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन उदात्तस्वरम् प्राप्नोति । 2. पूर्वसूत्रात् ‘पूरणात्’ इत्यस्य अनुवृत्तिः अस्मिन् सूत्रे आवश्यकी अस्ति, यतः ‘एकादश’ इति सङ्ख्यावाची शब्दः अपि अस्ति, परन्तु तस्य विषये अस्य सूत्रस्य प्रसक्तिः न वर्तते । इत्युक्ते, ‘प्राक् एकादशात्’ इत्यस्य अर्थः ‘प्राक् एकादशात् विद्यमानाः पूरणप्रत्ययान्तशब्दाः’ इति अस्ति, न हि ‘प्राक् एकादशात् विद्यमानाः सङ्ख्यावाचकशब्दाः’ - इति स्पष्टीकरणार्थमत्र ‘पूरणात्’ इति स्वीकृतमस्ति । 3. एतादृशः स्वरभेदः वेदेषु कृतः न लभ्यते, अतः पाणिनिना अस्मिन् सूत्रे ‘अच्छन्दसि’ इति निर्दिष्टमस्ति । 4. ‘द्वितीय’ तथा ‘तृतीय’ एताभ्याम् शब्दाभ्याम् पूरणाद्भागे तीयादन् (5.3.48) इत्यनेन पूर्वसूत्रेण एव ‘अन्’ प्रत्ययः भवति, अतः तस्य उदाहरणानि अत्र दत्तानि न सन्ति । 5. ‘षष्ठ’ तथा ‘अष्टम’ एताभ्याम् शब्दाभ्यामग्रिमसूत्रेण ‘ञ’ प्रत्ययः अपि विधीयते, येन ‘षाष्ठ’ तथा ‘आष्टम’ एते रूपे भवतः । 6. वस्तुतः ‘प्रागेकादशेभ्यः’ इति उच्यते चेत् तत्र ‘द्वितीय’ तथा ‘तृतीय’ एतयोः अपि ग्रहणं भवत्येव । तथापि ‘द्वितीय’ तथा ‘तृतीय’ शब्दयोः पूरणाद्भागे तीयादन् (5.3.48) इत्यत्र विशिष्टः निर्देशः कृतः अस्ति । अस्य स्पष्टीकरणार्थम् बालमनोरमाकारः वदति - *नचानेनैव सिद्धत्वात्पूर्वसूत्रं किमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात् * । इत्युक्ते, पूर्वसूत्रेण सिद्धौ ‘द्वितीय’ तथा ‘तृतीय’ एतौ अन्-प्रत्ययान्तशब्दौ वेदेषु अपि दृश्यन्ते, अतः तेषाम् निर्देशः भिन्नरूपेण कृतः अस्ति ।
Vasu English Summary¶
After an ordinal numeral up to 11 exclusive, comes the affix अन् , the word retaining its denotation when a ‘part’ is meant, but not so in the छन्दस् (Vedas).
Vasu English Translation¶
After an ordinal numeral up to 11 exclusive, comes the affix अन् , the word retaining its denotation when a ‘part’ is meant, but not so in the छन्दस् (Vedas). This is for accent also. Thus च꣡तुर्थः, प꣡ञ्चमः, स꣡प्तमः, न꣡वमः, द꣡शमः ॥ Why do we say प्रागेकादशः ‘before eleven’? Observe एकादशः꣡, द्वादशः꣡ no change of accent (6.1.223). Why do we say ‘not in the Chhandas’? Observe, पञ्चममिन्द्रियस्यापाक्रामत (पञ्चम꣡ has acute on the final being formed by डट् preceded by मट् (5.2.48), (5.2.49).
Kashika¶
पूरणाद् भाग इत्येव। प्रागेकादशभ्यः संख्याशब्देभ्यः पूरणप्रत्ययान्तेभ्यो भागे वर्तमानेभ्यः स्वार्थेऽन् प्रत्ययो भवति अच्छन्दसि विषये। स्वरार्थं वचनम्। पञ्चमः। सप्तमः। नवमः। दशमः। प्रागेकादशभ्य इति किम् ? एकादशः। द्वादशः। अच्छन्दसीति किम् ? त॑स्य॒ पञ्च॒म॑मि॒न्द्रि॒य॑स्या॑पा॒क्राम॒त् (मै० सं० १.९.४)॥
Siddhanta Kaumudi¶
पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । अष्टमः ॥
Balamanorama¶
प्रागेकादशभ्योऽच्छन्दसि - प्रागेकदशभ्यः । शेषपूरणेन सूत्रं व्याचष्टे-पूरणप्रत्ययान्ताद्भागेऽनिति । द्वितीयतृतीयशब्दाभ्यां पूर्वसूत्रेण सिद्धत्वाच्चतुर्थादिदशमशब्दपर्यन्तविषयकमिदमित्यभिप्रेत्योदाहरति — चतुर्थ इति । नचानेनैव सिद्धत्वात्पूर्वसूत्रं किकिमर्थमिति शङ्क्यं, तस्य छन्दस्यापि प्रवृत्त्यर्थत्वात् ।
Padamanjari¶
प्रागीकादशभ्यः संख्याशब्देभ्य इति। एकादशशब्दात्प्राञ्चो ये संक्याशब्दास्तेभ्य इत्यर्थः, एकादशभ्यः प्राचीनेषु संख्येयेषु ये संख्याशब्दास्तेभ्य इती वा ॥
Prakriyasarvasvam¶
एकादशभ्यः प्राच्यात् पूरणाद् भागेऽर्थे लोक एवान् । पञ्चमः, सप्तमो भागः ॥