53052: एकादाकिनिच्चासहाये¶
Padacheda: एकात् | S | 5 | 1 |
आकिनिच् | S | 1 | 1 |
च | S | 0 | 0 |
असहाये | S | 7 | 1 |
Sutrartha¶
‘असहाय’ अस्य विशेषणरूपेण प्रयुक्तः यः ‘एक’ शब्दः, तस्मात् स्वार्थे आकिनिच् प्रत्ययः तथा कन्-प्रत्ययः भवति । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते ।
‘असहायः’ (without a company / alone / helpless) अस्य विशेषणरूपेण प्रयुक्तः यः ‘एक’शब्दः, तस्मात् स्वार्थे ‘आकिनिच्’ तथा ‘कन्’ एतौ प्रत्ययौ भवतः । पक्षे द्वयोः अपि प्रत्यययोः लुक् अपि विधीयते । यथा - 1. असहायः एकः = एक + आकिनिच् → एक + आकिन् [प्रत्ययस्थस्य चकारस्य इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः तस्यापि लोपः भवति ।] → एक् + आकिन् [यस्येति च (6.4.148) इति अकारलोपः] → एकाकिन् 2. असहायः एकः = एक + कन् → एकक 3. असहायः एकः = एक + X (प्रत्ययलुक्) → एक अनेन प्रकारेण ‘असहायः एकः’ अस्मिन् अर्थे ‘एकाकिन्’, ‘एककः’ तथा ‘एकः’ एते शब्दाः प्रयुज्यन्ते । विशेषः - अस्मिन् सूत्रे प्रयुक्तः ‘एक’ शब्दः सङ्ख्यायाः अर्थे न प्रयुज्यते, अपितु ‘असहायः कश्चन’ इत्यस्मिन् अर्थे प्रयुज्यते । अतः ‘एकाकिन्’ शब्दस्य त्रिषु अपि वचनेषु रूपाणि भवितुमर्हन्ति - एकाकी, एकाकिनौ, एकाकिनः । यथा, शिशुपालवधे प्रयोगः दृश्यते - ‘एकाकिनोऽपि परितः पौरुषेयवृताविव’ । अत्र ‘त्रयः जनाः एकाकिनः आसन्’ इति अर्थः अस्ति ।
Vasu English Summary¶
After the word एक comes also the affix आकिनिच् (आकिन्) (the word retaining its denotation) when the sense is ‘without a companion’.
Vasu English Translation¶
After the word एक comes also the affix आकिनिच् (आकिन्) (the word retaining its denotation) when the sense is ‘without a companion’. By the word च, the affix कन् and the elision लुक् also take effect: the elision being of कन् or आकिनिच् ॥ Thus एकाकिन् (nom. एकाकी), एककः or एकः ॥ By using असहाय, it is indicated that the word एक here is not a numeral meaning ‘one’, but a noun meaning ‘alone’. एकोऽन्यार्थे प्रधाने च, प्रथमे, केवले तथा ॥ साधारणे, समानेऽल्पे, संख्यायां च प्रयुज्यते ॥ So that this word will have dual एकाकिनौ, and the plural एकाकिनः ॥
Bhashya¶
एकादाकिनिच्चासहाये (2210) (आकिनिचोऽधिकरणम्) (5830 पूर्वपक्षिण उपसंख्यानवार्तिकम्॥ 1 ॥) - एकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानम् - (भाष्यम्) एकादाकिनिचि द्विबह्वर्थे प्रत्ययो विधेयः। एकाकिनौ। एकाकिन इति। किं पुनः कारणं न सिध्यति? एकशब्दोऽयं संख्यापदम्, संख्यायाश्च संख्येयमर्थः॥ (5831 समाधानवार्तिकम्॥ 2 ॥) - सिद्धं तु संख्यादेशवचनात् - (भाष्यम्) सिद्धमेतत्। कथम्? द्विबह्वर्थायाः संख्याया एकशब्द आदेशो वक्तव्यः॥ (5832 प्रकारान्तरेण समाधानवार्तिकम्॥ 3 ॥) - असहायस्य वा - (भाष्यम्) असहायस्य वा एकशब्द आदेशो वक्तव्यः। असहायः-एकाकी। असहायौ-एकाकिनौ। असहायाः-एकाकिनः। सिद्ध्यति। सूत्रं तर्हि भिद्यते॥ (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु। ननु चोक्तमेकादाकिनिचि द्विबह्वर्थे प्रत्ययविधानमिति। नैष दोषः। अयमेकशब्दोऽस्त्येव संख्यापदम्। तद्यथा - एकः, द्वौ, बहव इति। अस्त्यन्यार्थे वर्तते। तद्यथा - सधमादो द्युम्न एकास्ताः। अन्या इत्यर्थः। अस्त्यसहायवाची। तद्यथा - एकाग्नयः, एकहलानि, एकाकिभिः क्षुद्रैर्जितमिति। तद्योऽसहायवाची तस्यैष प्रयोगः॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्॥
Kashika¶
एकशब्दादसहायवाचिनः स्वार्थ आकिनिच् प्रत्ययो भवति, चकारात् कन्लुकौ च। आकिनिचः कनो वा लुग् विज्ञायते। स च विधानसामर्थ्यात् पक्षे भवति। एकाकी, एककः, एकः। असहायग्रहणं संख्याशब्दनिरासार्थम्। तदुपादाने हि द्विबह्वोर्न स्यात्। एकाकिनौ, एकाकिनः॥
Siddhanta Kaumudi¶
चात्कन्लुकौ । एकः । एकाकी । एककः ॥
Balamanorama¶
एकादाकिनिच्चासहाये - एकादाकिनिच्चा । असहायवाचकादेकशब्दात्स्वार्थे आकिनिच्यप्रत्ययः स्यादित्यर्थः ।
Tattvabodhini¶
एकादाकिनिच्चासहाये - एकाधाकिनिच्चा । असहायवाचिन एकशब्दादाकिनिच् स्यात् । कुन्लुकाविति । आकिनिचः कनो वा पक्षे लुक् । तयोरेवानेन सूत्रेण विधानात् । असहायग्रहणं सङ्ख्याशब्दनिरासार्थम्, अन्यथा प्रसद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्यात् । इष्टापत्तौ तु द्वित्वे बहुत्वे च न स्यादेकाकिनौ एकाकिन इति । न हि द्वयोर्बहुषु वा एकत्वसंख्याऽस्ति । असहायत्वं तु परस्परातिरक्तसहायाऽभावेन द्वयोर्बहूनामपि भवति । इह अकिनिजेवायं वक्तव्यः, सवर्णदजीर्घेण सिद्धमिष्टम् ।यस्येति चे॑ति लोपश्चाऽकारोच्चारणसामर्थ्यान्न भवतीत्यादि हरदत्तग्रन्थे स्थितम् ।
Padamanjari¶
आकिनिचः कनो वेति। तयोरेवानेन सूत्रेण विधानात्। एकधेत्यादौ तु सूत्रान्तरविहितस्य लुग् न भवति; असन्निधानात्। संख्याशब्दनिरासार्थमिति। अन्यथा प्रसिद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्वात्। अस्तु, को दोषः ? तत्राह - तदुपादाने हीति। द्विबह्वोरिति। द्वित्वे बहुत्वे चेत्यर्थः। न हि द्वयोर्बहुषु वा एकत्वसंख्यास्ति। असहायत्वं तु परस्परव्यतिरिक्तसहायाभावेन बहूनामपि भवति। इह अकिनिजेवायं वक्तव्यः, सवर्णदीर्घत्वेसिद्धमिष्टम्, यस्येतिलोपश्चाकारोच्चारणसामर्थ्यान्न भविष्यति ? न चावग्रहनिवृत्यर्थोऽकारः, नहि लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥
Nyaas¶
आकिनिचः कनो वा लुग्विज्ञायते इति। प्रत्यासत्तेः। न तु प्रकारणान्तरविहितस्य; विप्रकर्षात्। स च इत्यादि यदि नित्यः स्यात्? तद्विधानमनर्थकं स्यात्। तस्माद्विधानसामर्थ्यात्? पक्षे भवति। किं पुनः कारणमसहायग्रहणं संख्याशब्दनिरासार्थं क्रियते? इत्याह - तदुपादाने हि इत्यादि। असत्यसहायग्रहणे संख्यावाचिनोऽप्येकशब्दस्य ग्रहणं स्यात्। तस्मिस्तु सति द्विबह्नोर्न स्यात्। न हि द्वयोर्बहुषु वा चैकत्वसंख्या विद्यते। असहायता तु शतस्यापि भवति; तुल्यजातीयान्यस्याभावात् - शतमसहायमिति। तेना सहायार्थस्य ग्रहणे द्विबह्वोरपि प्रत्ययः सिध्यति। अथ कस्मादाकिनिज्वधीयते, न अकनिजित्येवोच्येत, अत्रापि सवर्णदीर्घत्वेनेष्टं सिध्यत्येव? न सिध्यति; अतो गुणे (6.1.97) पररूपत्वम्, यस्येति (6.4.148) लोपश्च प्राप्नोति। अकारोच्चारणसामर्थ्यान्न भविष्यति? नैतदस्ति; अस्ति ह्रकारोच्चारणस्य प्रयोजनम्। किम्? भसंज्ञायामन्यः पदसंज्ञानिबन्धनोऽवग्रहो मा भूदिति। तस्मादाकिनिजेव विषेयः॥
Prakriyasarvasvam¶
असहायार्थादेकादाकिनिच् । चात् कन्, कनश्च वा लुक् स्यात् । एकाकी, एककः, एकः ।।
Sutra Prayogas¶
एकाकिनो (शिशुपालवधम्): एकादाकिनिच्चासहाये इत्याकिनिच्प्रत्ययः।
एकाकिनी (भट्टिकाव्यम्): एकादा किनिच्चासहाये इति आकिनिच् प्रत्ययः।