53058: अजादी गुणवचनादेव

Padacheda: अजादी | S | 1 | 2 |

गुणवचनात् | S | 5 | 1 |

एव | S | 0 | 0 |

Sutrartha

‘अतिशय’ अस्मिन् सन्दर्भे विहितौ ‘इष्ठन्’ तथा ‘ईयसुन्’ एतौ अजादिप्रत्ययौ केवलम् गुणवाचिभ्यः शब्देभ्यः एव विधीयन्ते ।

अतिशायने तमबिष्ठनौ (5.3.55) तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) एतयोः सूत्रयोः ‘अतिशय’ अस्मिन् सन्दर्भे ‘तमप्’, ‘इष्ठन्’, ‘तरप्’, ‘इयसुन्’ एतौ प्रत्ययौ विधीयेते । एतयोः द्वौ प्रत्ययौ (= इष्ठन्, ईयसुँन्) अजादी स्तः । एतयोः प्रयोगः वर्तमानसूत्रेण नियम्यते । केवलम् गुणवाचिनः ये शब्दाः (= words indicating a quality), तेभ्यः एव एतयोः प्रत्यययोः प्रयोगः भवति । (तरप्-तमप् प्रत्ययौ तु गुणवाचिभ्यः शब्देभ्यः अपि विधीयन्ते, अगुणवाचिभ्यः शब्देभ्यः चापि विधीयन्ते इति स्मर्तव्यम्) । यथा - ‘शुक्ल’, ‘कृष्ण’, ‘लघु’, ‘गुरु’ एतादृशेभ्यः गुणवाचकेभ्यः शब्देभ्यः ‘इष्ठन्’ तथा ‘ईयसुँन्’ प्रत्ययौ विधीयेते - 1. एते सर्वे शुक्लाः, अयम् एतेषामतिशयेन शुक्लः, अतः अयम् शुक्लिष्ठः शुक्लतमः वा । 2. एतौ द्वावपि कृष्णौ, अयम् एतयोः अतिशयेन कृष्णः, अतः अयम् कृष्णियान् कृष्णतरः वा । 3. एते सर्वे गुरवः, अयम् एतेषामतिशयेन गुरुः, अतः अयम् गरिष्ठः गुरुतमः वा। 4. एतौ द्वावपि लघू, अयम् एयोः अतिशयेन लघुः, अतः अयम् लघियान् लघुतरः वा । परन्तु ये शब्दाः गुणवाचिनः न सन्ति, तेभ्यः एतयोः प्रत्यययोः प्रयोगः न भवति, अतः तेभ्यः केवलम् ‘तरप्’ तथा ‘तमप्’ एतौ प्रत्ययौ एव भवतः । यथा - 1. एते सर्वे पाचकाः । अयम् एतेषामतिशयेन पाचकः, अतः अयम् पाचकतमः । 2. एतौ द्वौ लेखकौ । अयम् एतयोः अतिशयेन लेखकः, अतः अयम् लेखकतरः । विशेषः - 1. अस्मिन् सूत्रे प्रयुक्तः ‘एव’ इति शब्दः ‘गुणवचनात्’ इत्यनेन सह अन्वेतव्यः, न हि ‘अजादी’ इत्यनेन सह । इत्युक्ते, ‘अजादिः प्रत्ययः गुणवचनात् एव भवति, अन्येभ्यः शब्देभ्यः न’ इति अस्य सूत्रस्य आशयः अस्ति, न हि ‘अजादिः एव गुणवचनेभ्यः भवति, अन्यः न’ इति । अतः गुणवाचिभ्यः शब्देभ्यः तु चत्वारः अपि प्रत्ययाः विधीयन्ते । 2. तिङश्च (5.3.56) तथा च द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) एताभ्यां सूत्राभ्याम् तिङन्तेभ्यः ‘तमप्’ तथा ‘तरप्’ एतौ प्रत्ययौ एव भवतः । यद्यपि एताभ्यां सूत्राभ्याम् ‘ईयसुँन्’ तथा ‘ईष्ठन्’ एतयोः अपि विधानं क्रियते, तथापि तिङन्तशब्दाः ‘गुणवाचकाः’ न सन्ति, अतः तेभ्यः एतौ अजादीप्रत्ययौ नैव विधीयेते । 3. केचन अगुणवाचिनः शब्दाः अपि विधानसामर्थ्यात् ‘ईयसुँन्’ तथा ‘इष्ठन्’ एतौ अजादी प्रत्ययौ स्वीकुरुतः ।एतेषां विषये तुश्छन्दसि (5.3.59) इत्यस्मात् विन्मतोर्लुक् (5.3.65) एतेषु सूत्रेषु अधिकमुक्तमस्ति ।

Vasu English Summary

The two affixes beginning with a vowel i.e. ईयस् and इष्ठ are added only after words denoting attributes.

Vasu English Translation

The two affixes beginning with a vowel i.e. ईयस् and इष्ठ are added only after words denoting attributes. The affixes इष्ठन् and ईयसुन् are restricted in their scope by this sutra i. e. they come only after adjectives or adverbs, in expressing comparative and superlative degrees. Thus लघीयान् , लघिष्टः, पटीयान्, पटिष्टः; but not after words like पाचक &c. There we have पाचकतरः, पाचकतमः ॥ The word एव ‘only’ restricts the scope of the affixes, and not of the primitives. Thus पटुतरः, पटुतमः are also valid forms.

Bhashya

अजादी गुणवचनादेव (2216) (नियमाधिकरणम्) (एवकारप्रयोजनभाष्यम्) एवकारः किमर्थः? नियमार्थः। नेतदस्ति प्रयोजनम्, सिद्धे विधिरारभ्यमाणोऽन्तरेणैवकारं नियमार्थो भविष्यति॥ इष्टतोऽवधारणार्थस्तर्हि। यथैवं विज्ञायेत - अजादी गुणवचनादेवेति। मैवं विज्ञायि - अजादी एव गुणवचनादिति। किं च स्यात्? न व्यञ्ञ्जनादी गुणवचनात्स्याताम्॥

Kashika

इष्ठन्नीयसुनावजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते — गुणवचनादेव भवतस्तौ, नान्यस्मादिति। पटीयान्। लघीयान्। पटिष्ठः। लघिष्ठः। इह न भवतः — पाचकतरः, पाचकतम इति। एवकार इष्टतोऽवधारणार्थः, प्रत्ययनियमोऽयं न प्रकृतिनियम इति। पटुतरः। पटुतमः॥

Siddhanta Kaumudi

इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥

Balamanorama

अजादी गुणवचनादेव - अजादी । तरप्तमुपौ इष्ठन्नीयसुनौ चेति चत्वारः प्रत्यया अनुक्रान्ताः । तेषां मध्ये यौ अजादी इष्ठन्नीयसुनौ तावित्यर्थः । तदाह — इष्ठन्नीयसुनाविति । पाचकतरः, पाचकतम इति । क्रियाशब्दत्वादाभ्यामिष्ठन्नीसुनौ नेति भावः ।गुणवचनादजादी एवे॑ति विपरीतनियमव्यावृत्त्यर्थ एवकारः । तेन पटुतरः पटुतम इत्यादि सिद्धम् ।

Tattvabodhini

अजादी गुणवचनादेव - अजादी गुणवचनादेव । इष्टतोऽवधारणार्थ एवकारः । तेन प्रत्यय नियमोऽयम् । एवकाराऽभावे तुगुणवचनादजादिप्रत्ययावेवे॑ति प्रकृतिनियमोऽपि सम्भाव्येत । तथा च पटुतरः, पटुतम इत्यादि न सिध्येत् ।

Padamanjari

एवकारः किमर्थः ? नियमो यथा विज्ञायेत; अन्यथा प्रकर्थेऽजाद्योर्विधानादप्रकर्षे विधिः स्यात्। ठतिशायनेऽ इत्यनुवर्तिष्यते, तत्रैव पुनर्वचनं नियमार्थं भविष्यति,नार्थ एवकारेण? तत्राह - एवकार इष्टतोऽडवधारणार्थ इति। असति ह्यस्मिन्विपरीतोऽपि नियमः सम्भाव्यते - अजादी एव गुणवचनादिति। तत्र को दोषः ? गुणवचनाद् व्यञ्जनादी न स्याताम्; तस्याजाद्योर्नियतत्वात्। यत एवकारस्ततोऽन्यत्रावधारणमिति। अजाद्योश्चानियतत्वादगुणवचनादपि तयोः प्रसङ्गः। इदमतिबहु क्रियते - अजादी गुणवचनादेवेति, एवं तु वक्तव्यम् - अतिशायने तमप्, गुणवचनादिष्ठन्, द्विवचनविभज्योपपद इयसुन्, गुणवचनादित्येव, ततस्तरप् च, गुमवटचनादिति निवृतम्? सापम्;’प्रशस्यस्य श्रः’ इत्येवमाद्यर्थं तु ठजादीऽ इत्युक्तम्। एवं तर्हि’प्रशस्यस्य श्रो’ जाद्योःऽ इत्येवास्तु, एवमपि ह्यएवकारो न वक्तव्यो भवति? त्वत्पक्षेऽपि’तरप् च’ इति चकारः क्रियते, ततुल्यं भवति ॥

Nyaas

पाचकतरः इति। कर्तृशक्तिमतो द्रव्यस्याभिधानाद्द्रव्यवचनोऽयं पाचकशब्दः। अथैवकारः किमर्थः, यावता सिद्धे विधिरारभ्यमाणो विनापि तेन नियमार्थो भवतिइत्याह-एवकारः इत्यादि। असति ह्रेवकारे विपरीतमवषारणं विज्ञायते - अजादी एव गुणवचनादिति, ततश्च यत एवकारस्ततोऽन्यत्रावधारणमिति प्रकृतिनियमः स्यात्। एवं च गुणवचनस्याजाद्योनियतत्वात्? ततस्तरबादिर्नं स्यात्। एवकारे तु प्रकृत्यनन्तरमुच्चार्यमाणे सति प्रत्ययार्थनियमोऽयं भवति न प्रकृतिनियम इति पटुतरः, पटुतम इति सिद्धं भवति। एतयोरपि सिद्ध्यर्थं गुणवचनादिष्ठन्नीयसुनौ इति सूत्रं न कृतम्। तदा विध्यर्थत्वादेतौ तरप्तमपोरपवादत्वाद्बाधकाविति तयोरभावे पटुतरः, पटुतम इति न सिध्येत्॥

Prakriyasarvasvam

इष्ठनीयसुनौ गुणवचनाल्लघुमृद्वादेरेव स्तः । तेन पाचकतरः पाचकतम इत्यत्र न । ‘ह्रस्वात्तादौ’ (८-३-१०१) इति षत्वम् । सर्पिष्टमं, सर्पिष्टरम् । ‘तिङन्तस्य षत्वं नेति वाच्यम्’ (वा०) । भिन्द्युस्तमाम् । ‘पुंसश्च न’ । पुंस्तरः । किमेदित्यादिनामुः । किन्तमां नूप आह किन्तराम् । जिज्ञासितबहुविशेषतया प्रष्टव्यस्य प्रकर्षादेव प्रश्नः । एत् । प्राह्णेतमाम् । घकाले विकल्पादलुक्येदन्तत्वम् । लुकि तु प्राह्णतमे गतः । अव्ययात् उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तरस्तरुः । प्राह्णेतमामित्यत्र तु प्राह्णेशब्दस्य विभक्त्यर्थप्रधानत्वेनासत्त्वार्थत्वान्न द्रव्यप्रकर्षः । ‘तसिलादिषु’ (६-३-३५) इति पुंवत्त्वात् प्रियतमा, प्रियतरा ।।