53040: अस्ताति च

Padacheda: अस्ताति | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha

‘पूर्व’, ‘अधर’, ‘अवर’ शब्दानामस्ताति-प्रत्यये परे यथासङ्ख्यम् ‘पुर्’, ‘अध्’, ‘अव्’ आदेशाः भवन्ति ।

‘दिशा’, ‘देश’, तथा ‘काल’ इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्ययः विधीयते । अस्मिन्नवे ‘अस्ताति’ प्रत्यये परे ‘पूर्व’, ‘अधर’, ‘अवर’ इत्येतेषामङ्गस्य यथासङ्ख्यम् ‘पुर्’, ‘अध्’, ‘अव्’ एते आदेशाः भवन्ति । यथा - 1. पूर्वस्याम् दिशि / पूर्वस्मिन् देशे / पूर्वस्मिन् काले / पूर्वस्याः दिशः / पूर्वस्मात् देशात् / पूर्वस्मात् कालात् / पूर्वा दिक् / पूर्वः देशः / पूर्वः कालः पूर्वस्याम् / पूर्वस्मिन् / पूर्वस्याः / पूर्वस्मात् / पूर्वा / पूर्वः + असि = पूर्व + अस्ताति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → पुर् + अस्तात् [ ‘पूर्व’ इत्यस्य ‘पुर्’ इति आदेशः] → पुरस्तात् 2. अधरस्याम् दिशि / अधरस्मिन् देशे / अधरस्मिन् काले / अधरस्याः दिशः / अधरस्मात् देशात् / अधरस्मात् कालात् / अधरा दिक् / अधरः देशः / अधरः कालः → अधर + अस्ताति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अध् + अस्तात् [‘अधर’ इत्यस्य ‘अध्’ आदेशः] → अधस्तात् 3. अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अवरः देशः / अवरः कालः → अवर + अस्ताति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अव् + अस्तात् [‘अवर’ इत्यस्य ‘अव्’ आदेशः] → अवस्तात् अनेन सूत्रेण निर्मितानाम् ‘पुरस्तात्’, ‘अधस्तात्’, ‘अवस्तात्’ एतेषां शब्दानां तद्धितश्चासर्वविभक्तिः (1.1.38) अव्ययसंज्ञा भवति । ज्ञातव्यम् - 1. ‘अवर’शब्दस्य विषये वर्तमानसूत्रेण नित्यम् ‘अव्’ आदेशे प्राप्ते अग्रिमसूत्रेण विभाषावरस्य (5.3.41) इत्यनेन अयम् ‘अव्’ आदेशः विकल्पेन भवति । अतः ‘अवरस्तात्’ अयं शब्दः अपि सिद्ध्यति । 2. दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन ‘पूर्व’, ‘अधर’ तथा ‘अपर’ शब्दानाम् सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्यये प्राप्ते, तं बाधित्वा पूर्वाधरावराणामसि पुरधवश्चैषाम् (5.3.39) इत्यनेन ‘असि’ प्रत्यये विधीयते । परन्तु वर्तमानसूत्रेण ‘अस्ताति’ प्रत्यये परे एव एतेषामादेशाः उक्ताः सन्ति । एतत् विधानमस्यैव ज्ञापकम्, यत् एतेभ्यः शब्देभ्यः ‘असि’ प्रत्ययेन सह ‘अस्ताति’प्रत्ययः अपि भवितुमर्हति ।

Vasu English Summary

The same substitution takes place when the affix अस्ताति follows.

Vasu English Translation

The same substitution takes place when the affix अस्ताति follows. That is पुर् for पूर्व, अध् for अधर and अव् for अवर ॥ This sutra indicates by implication that the affix अस्ताति (5.3.27) is not debarred by अस् after these words. Thus पुरस्तात् or अधस्तात् or अवस्तात् वसति or आगतः or रमणीयम् ॥

Kashika

सप्तम्यन्तमेतत्। अस्तातिप्रत्यये परतः पूर्वादीनां यथासंख्यं पुरादय आदेशा भवन्ति। इदमेवादेशविधानं ज्ञापकम् — अस्तातिरेभ्यो भवति, असिप्रत्ययेन न बाध्यत इति। पुरस्ताद् वसति। पुरस्तादागतः। पुरस्ताद् रमणीयम्। अधस्ताद् वसति। अधस्तादागतः। अधस्ताद् रमणीयम्॥

Siddhanta Kaumudi

अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥

Balamanorama

अस्ताति च - अस्ताति च ।अस्ताती॑ति लुप्तसप्तमीकम्, अस्तातीति तकारान्तात्सप्तम्येकवचनं वा ।पूर्वाधरावराणा॑मिति ‘पुरधव’ इति चानुवर्तते । तदाह — अस्ताताविति । यद्यपि सूत्रक्रमेपूर्वाधरे॑तिअस्ताति चे॑ति सूत्रमुपन्यसनीयम् । तत्रानुवृत्तिप्रदर्शनायपूर्वाधरे॑त्यपि सूत्रमिहैवोपन्यस्तम् । पुर इति । पूर्वाशब्दादसिप्रत्ययः प्रकृतेः ‘पुर्’ आदेशः । पुरस्तादिति । पूर्वाशब्दादस्तातिप्रत्ययः, प्रकृतेः ‘पुर्’ आदेशः । अधः, अधस्तादिति । अधरशब्दादसिप्रत्यये अस्तातिप्रत्यये च प्रकृतेः ‘अध्’ आदेशे रूपम् । अव इति । अवरशब्दादसिप्रत्ययेप्रकृतेः ‘अव्’ आदेशे रूपम् ।

Tattvabodhini

अस्ताति च - पुरः पुरस्तादिति । कथं तर्हिपश्यामि तामित इतः पुरतश्च पश्चा॑दिति भवभूतिः,स्यात्पुरः परुतोऽग्रतः॑इत्यमरः,पुरतः प्रथमे चाऽग्रे॑इति विआस्च ।समानकालीनं॑पूर्वकालीन॑मित्यादिवत्प्रामादिकमेवेति बहवः । केचित्तुदक्षिणोत्तराभ्यां तसुज्विधिनैवेष्टसिद्धौअतसु॑जित्यकारोच्चारणमन्यतोऽपि विधानार्थम् । तेन पुरत इति सिध्यति ।पुर अग्रगमने॑ क्विपि — पुर् ।र्वोः॑इति दीर्घस्तु न भवति, भत्वात् । न च अतसुचाश्चित्त्वेऽप्यकारोच्चारणं पक्षे आद्युदात्तत्वार्थमिति वाच्यं, बहूनां प्रयोगानुरोधेनाऽन्यतो विधानार्थमिति कल्पनस्यैव न्याय्यत्वादित्याहुः । यथासङ्ख्यत्वानाश्रयणात् पुरस्ताद्वसति पुरस्तादागतः पुरस्ताद्रमणीयम् । अधस्ताद्वसति अधस्तादागतः — इत्यादि सिध्यति ।

Padamanjari

अस्तातीति सप्तम्यन्तम्। असिप्रत्ययेनेति। अधरशब्दादातिनापि ॥

Nyaas

ननु चासिना बधितत्वात्? पूर्वादिभ्योऽस्तातिना न भवितव्यम्? इत्याह - इदमेव इत्यादि। गतार्थम्॥

Prakriyasarvasvam

अस्तात्प्रत्यये परे पूर्वाधरयोः पुर् अध् इत्यादेशौ स्तः । पुरस्तात्, अधस्तात् । अव्ययत्वात्सुँलुक् ॥

Sutra Prayogas

  • पुरस्तात् (भट्टिकाव्यम्): अस्ताति च इति पूर्वस्य पुरादेशः।