53042: संख्याया विधार्थे धा

Padacheda: संख्यायाः | S | 5 | 1 |

विधार्थे | S | 7 | 1 |

धा | S | 1 | 1 |

Sutrartha

‘विधा’ (= क्रियाप्रकारः) इत्यस्य विशेषणरूपेण प्रयुक्तेभ्यः सङ्ख्यावाचिभ्यः शब्देभ्यः स्वार्थे ‘धा’ प्रत्ययः भवति ।

‘सङ्ख्या’ इति व्याकरणविशिष्टा काचन संज्ञा । बहुगणवतुडति सङ्ख्या (1.1.23) इत्यनेन ‘बहु’ शब्दः, ‘गण’ शब्दः, वतुँप्-प्रत्ययान्तशब्दाः (यावत्, तावत्, एतावत्, इयत्, कियत्) तथा ‘डति’प्रत्ययान्तः कति-शब्दः एतेषां ‘सङ्ख्या’ संज्ञा भवति । तथा च, ‘एक’ / द्वि’ आदीनाम् सङ्ख्याशब्दानामपि ‘सङ्ख्या’ इति संज्ञा दीयते । एते सर्वे शब्दाः यदा ‘क्रियाप्रकारः’ अस्मिन् अर्थे प्रयुज्यते, तथा तेभ्यः शब्देभ्यः ‘क्रियाप्रकारम्’ अस्मिन् अर्थे ‘धा’ प्रत्ययः भवति । यथा - 1. एकेन प्रकारेण = एक + धा = एकधा । यथा - एकधा भुङ्क्ते । 2. द्वयोः प्रकारयोः = द्वि + धा = द्विधा । यथा - द्विधा ब्रूते । 3. त्रिभिः प्रकारैः = त्रि + धा = त्रिधा । यथा - त्रिधा नयति । 4. चतुर्भिः प्रकारैः = चतुर् + धा = चतुर्धा । यथा - चतुर्धा स्पष्टीकरोति । 5. पञ्चभिः प्रकारैः = पञ्चन् + धा = पञ्चधा । [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] 6. षड्भिः प्रकारैः = षष् + धा → षड् + धा [झलां जशोऽन्ते (8.2.39) इति जश्त्वम्] → षड्धा 7. बहुभिः प्रकारैः = बहु + धा = बहुधा 8. कतिभिः प्रकारैः = कति + धा = कतिधा 9. यावद्भिः प्रकारैः = यावत् + धा = यावद्धा अनेन सूत्रेण निर्मिताः सर्वे शब्दाः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञकाः भवन्ति । स्मर्तव्यम् - 1. ‘क्रियायाः प्रकारः’ अस्मिन् अर्थे एव अनेन सूत्रेेण ‘धा’ प्रत्ययः विधीयते । केवलम् ‘प्रकारः’ इति अर्थः अपेक्षते चेत् प्रकारवचने जातीयर् (5.3.69) इत्यनेन ‘जातीयर्’ प्रत्ययः भवति । यथा - एकजातीय, द्विजातीय, बहुजातीय - आदयः । 2. अत्र ‘क्रियायाः प्रकारः’ इति उच्यते, अतः विग्रहवाक्ये अत्र तृतीयाविभक्त्याः प्रयोगः भवति ।

Vasu English Summary

The affix धा comes after a प्रातिपदिक (Nominal Stem) denoting a Numeral when it means the mode or manner of an action.

Vasu English Translation

The affix धा comes after a प्रातिपदिक (Nominal Stem) denoting a Numeral when it means the mode or manner of an action. The word विधा and प्रकार have the same meaning. The adverbs so formed apply to every kind of action. Thus एकधा भुङ्क्ते ‘he eats once’. द्विधा गच्छति ‘he goes twice’. Similarly त्रिधा, चतुर्धा, पञ्चधा ॥

Bhashya

संख्याया विधार्थे धा (2200) (धाप्रत्ययाधिकरणम्) (विधार्थजिज्ञासाभाष्यम्) विधार्थ इत्युच्यते, को विधार्थो नाम? विधाया अर्थो विधार्थः॥ यद्येवम् - एका गोविधा, एका हस्तिविधा - अत्रापि प्राप्नोति। एवं तर्हि - (5826 विधार्थनिर्धारकवार्तिकम्॥ 1 ॥) - धाविधानं धात्वर्थपृथग्भावे - (भाष्यम्) धाविधानं धात्वर्थपृथग्भाव इति वक्तव्यम्। (धात्वर्थपृथग्भावजिज्ञासाभाष्यम्) कः पुनर्धात्वर्थपृथग्भावः? किं यत्तद्देवदत्तः कंसपात्र्यां पाणिना ओदनं भुङ्क्त इति। नेत्याह। कारकपृथक्त्वमेतत्॥ यत्तर्हि तत् - कल्ये भुङ्क्ते, सायं भुङ्क्त इति। नेत्याह। कालपृथक्त्वमेतत्॥ यत्तर्हि शीतं भुङ्क्ते, उष्णं भुङ्क्ते इति। नेत्याह। गुणपृथक्त्वमेतत्॥ (धात्वर्थपृथग्भावनिर्द्धारकभाष्यम्) कस्तर्हि धात्वर्थपृथग्भावः? कारकाणां प्रवृत्तिविशेषः - क्रिया॥ यद्येवं क्रियाप्रकारेऽयं भवति। विधयुक्तगताश्च प्रकारे भवन्ति। एवंविधम्, एवंयुक्तम्, एवंगतम् - एवंप्रकारमिति॥

Kashika

संख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमानेभ्यो धा प्रत्ययो भवति स्वार्थे। विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते। क्रियाप्रकारे वर्तमानायाः संख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्धा। पञ्चधा॥

Siddhanta Kaumudi

क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥

Balamanorama

संख्याया विधाऽर्थे धा - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थः प्रकारो विधार्थः ।विधा विधौ प्रकारो विधार्थः ।विधा विधौ प्रकारे चे॑त्यमरः । सामान्यस्य भेदको विशेषः-प्रकारः । सचाभिधानस्वभावाक्रियाविषयक एव गृह्रते । तदाह — क्रियाप्रकारेति । चतुर्धापञ्चधेति ।गच्छती॑त्यादि क्रियापदमध्याहार्यम् । चतुष्प्रकारा गमनादिक्रियेति बोधः ।नवधा द्रव्य॑मित्यादावपिभवती॑त्यादि क्रियापदमध्याहार्यम् ।

Tattvabodhini

संख्याया विधाऽर्थे धा - सङ्ख्याया विधार्थे धा । विधाशब्दस्याऽर्थो विधार्थः । यद्यप्योदनपिण्डोऽपि विधाशब्देनोच्यते तथापीह न गृह्रते । तेन एका गोविधेत्यादौ न भवति । इह हिविधाया॑मिति वक्तव्ये अर्थग्रहणस्य प्रयोजनं — विधाशब्दो यत्रार्थे प्रसिद्धतरस्तत्रैव यथा स्यात् । तादृशश्चार्थः प्रकार एव, स च क्रियाविषयक एव गृह्रते, अभिदानस्वभावात् । तदाह -क्रियाप्रकारे वर्तमानादिति । कथं तर्हिनवधा द्रव्यं,॑ बहुधा गुणः॑ इत्यादि । अत्रापि ह्रश्रुता क्रिया प्रतीयतेउपदिश्यते इति वा॑इति हरदत्तः ।

Padamanjari

विधा प्रकार इति’गृह्यते’ इति वक्ष्यमाणेन सम्बन्धः। यद्यप्योदनपिण्कडोऽपि विधाशब्देनोच्यते, तथापीह प्रकार एव गृह्यत इत्यर्थः। एतेन एका गोविधेत्यादौ न भवति। एतच्चार्थग्रहणाल्लभ्यते। इह हि विधायामिति वक्तव्ये यदर्थग्रहणं कृतं तस्यैतत्प्रयोजनम् - विधाशब्दो यत्रार्थे प्रसिद्धतरस्तस्य ग्रहणं यथा स्यात्। यथा च त्रिविधम्, बहुविधमित्यादौ प्रकारे प्रसिद्धो विधाशब्दः, न तथौदनपिण्कडे। सूत्रे च - विधाशब्दस्यार्थो विधार्थ इति षष्ठीसमासः। एवं वृतावपि। स च क्रियाविषय इति। एतच्चाभिधानस्वभावाल्लभ्यते। तदयमर्थ इत्याह - क्रियाप्रकारे इति। कथं तर्हि नवधा द्रव्यम्, बहुधा गुणाः, एकविशतिधा बाह्वृच्यम्, नवधाथर्वाणो वेद इति। अत्रापि हि सर्वत्र क्रिया प्रतीयते - उपदिश्यते इति, भवतीति वा। द्विधा गच्छतीत्यादावे कस्या एव गमनक्रियाया अवान्तरप्रकारभेदः प्रतीयते। एकधा भुङ्क्ते इत्यत्र तु प्रकारैक्यप्रतिपादनेन तन्निवृत्तिः। एकः पाक इत्यादौ तु पाकव्यक्तेरेक्त्वं विवक्षितम्, न त्ववान्तरप्रकारभेदाभावेनैकप्रकारत्वमिति धाप्रत्ययाभावः। तद्विवक्ष्यां तु भवत्येव - एकधा पाक इति। पञ्च पाका इत्यादौ च भिन्ना एव पाका विवक्षिताः, न त्वेकस्य प्रकारवत्वम्। तद्विवक्षायां तु तत्रापि भवितव्यमेव - पञ्चधा पाका इति ॥

Nyaas

प्रकारवचने च जातीयर् (5.3.69) इति, तस्यायमपवादः। विधा=प्रकारः इत्यक्तः प्रकारवचने थाल् (5.3.23) इत्यत्र, स च द्रव्यगुणविशेषोऽप्यस्ति; तत्र यदि सोऽपि गृह्रेत द्रव्यगुणयोर्लिङ्गसंख्याभ्यां यीगाद्वा प्त्ययान्तमलिङ्गमसंख्यं च न स्यात्। एवञ्च तस्याव्ययत्वं न स्यात्, तच्चेष्टम्; तथा हि - धाप्रत्ययोऽव्ययेषु पठते - तसिलादिस्तद्धित एधाच्पर्यन्त इति। क्रियाविषये तु तस्मिन्? गृह्रमाणे न दोषः; क्रियायाः सर्वदा लिङ्गसंख्याभ्यामयोगादित्येतत्? चेतसि कृत्वाऽऽह - स च इत्यादि। क्रियाधातुवाच्यो विक्लेदनादिरर्थः, स च विषयोऽस्य स तथोक्तः। कथं पुनः सामान्योक्तौ विशेषस्य ग्रहणं लभ्यते? अर्थग्रहणस्य ह्रेतदेव प्रयोजनम् - प्रकारविशेषणं यथा स्यादिति, अन्यथा हि विधायाम् इत्येवं हि ब्राऊयात्। यदि तर्हि प्रकारः क्रियाविषयो गृह्रते, नवधा द्रव्यम्? नदधा गुण इत्यत्र न प्राप्नोति? नैष दोषः? अत्रापि क्रियाऽव्याहर्ततव्या। नवधा द्रव्यम्, नवधा गुण उपपाद्य विगृह्रते चेति॥

Prakriyasarvasvam

सङ्ख्याभ्यः क्रियाप्रकारेऽर्थे धा स्यात् । एकधा वदति । द्विधा पाति ॥

Sutra Prayogas

  • चतुर्धा (रघुवंशम्): संख्याया विधार्थे धा इत्यनेन धाप्रत्ययः।

  • सहस्र-धा (भट्टिकाव्यम्): संख्याया विधार्थे धा इति।