53047: याप्ये पाशप्¶
Padacheda: याप्ये | S | 7 | 1 |
पाशप् | S | 1 | 1 |
Sutrartha¶
‘याप्यः’ (कुत्सितः) अस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे ‘पाशप्’ प्रत्ययः भवति ।
अनेन सूत्रेण ‘पाशप्’ इति प्रत्ययः पाठ्यते । यत्र ‘याप्यः’ (= कुत्सितः / अप्रवीणः / bad) इत्यस्य विशेष्यरूपेण किञ्चन प्रातिपदिकम् प्रयुज्यते, तत्र तस्मात् प्रातिपदिकात् स्वार्थे ‘पाशप्’ इति प्रत्ययः भवति । अस्मिन् प्रत्यये पकारः इत्संज्ञकः अस्ति, अनुदात्तौ सुप्पितौ (3.1.4) इत्यनेन प्रत्ययस्थ-आकारस्य अनुदात्तस्वरनिर्देशार्थम् च सः अत्र स्थापितः अस्ति । उदाहरणम् एतादृशम् - याप्यः वैयाकरणः (सः वैयाकरणः यः किमपि व्याकरणम् न जानाति । A person who, by degree, is a grammatician, but in reality knows nothing or very little about grammar). = वैयाकरण + पाशप् → वैयाकरणपाश । एवमेव - याप्यः नैयायिकः नैयायिकपाशः । याप्यः याज्ञिकः याज्ञिकपाशः । याप्यः भिषग् भिषक्पाशः ( a bad doctor) । ज्ञातव्यम् - 1. अस्य सूत्रस्य प्रयोगः तदा एव भवति यदा ‘याप्य’ इति शब्दः प्रातिपदिकेन निर्दिष्टस्य विषयस्य सन्दर्भे एव विधीयते । इत्युक्ते, यदि कश्चन वैद्यः किमपि वैद्यकार्यम् न जानाति, तर्हि तस्य निर्देशः अत्र ‘याप्यः भिषग्’ इत्यनेन क्रियते, तथा च अस्यां स्थितौ वर्तमानसूत्रस्य प्रयोगं कृत्वा एतादृशस्य वैद्यस्य निर्देशः ‘भिषक्पाशः’ इत्यनेन अपि भवितुमर्हति । A doctor who does not know anything about his subject - इत्याशयः । परन्तु कश्चन वैद्यः यदि वैद्यकार्ये कुशलः अस्ति, परन्तु स्वभावेन दुःशीलः / कुत्सितः / दुष्टः अस्ति, तर्हि यद्यपि तस्य निर्देशः ‘याप्यः भिषग्’ इति भवितुमर्हति, तथापि अस्मिन् सन्दर्भे वर्तमानसूत्रस्य प्रयोगः न क्रियते, यतः अत्र ‘कुत्सितत्वम्’ वैद्यस्य स्वभावस्य विषये अस्ति, न हि ‘वैद्य’ इत्यनेन निर्दिष्टस्य अर्थस्य (= वैद्यकीयकार्यस्य) विषये । 2. पाशप्-प्रत्यये परे तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - याप्या वैयाकरणी (a female, who, by degree, is a grammatician, but in reality knows nothing or very little about grammar). ) = वैयाकरणी + पाशप् → वैयाकरण + पाशप् [पुंवद्वावः] → वैयाकरणपाश → वैयाकरणपाश + टाप् [स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः] → वैयाकरणपाशा ।
Vasu English Summary¶
The affix पाशप् denotes something as insignificant.
Vasu English Translation¶
The affix पाशप् denotes something as insignificant. The word याप्य means ‘contempt, trifling’ &c. Thus वैयाकरणः = वैयाकरणपाशः ‘a very bad Grammarian’. So also याज्ञिकपाशः ॥ Of course this will not come in denoting a person who is a good Grammarian, but bears bad character, or who is a good performer of sacrifices but immoral.
Bhashya¶
याप्ये पाशप् (2205) (पाशपोऽधिकरणम्) (5829 याप्यार्थबोधकवार्तिकम् ॥ 1 ॥) - पाशपि कुत्सितग्रहणम् - (भाष्यम्) पाशपि कुत्सितग्रहणं कर्तव्यम्। वैयाकरणपाशः। याज्ञिकपाशः। यो हि यापयितव्यो याप्यः तत्र मा भूदिति॥ (अतिप्रसक्तिनिवारकभाष्यम्) अथ वैयाकरणः शरीरेण कृशो व्याकरणेन च शोभनः, कर्तव्यो वैयाकरणपाश इति। न कर्तव्यः। कथम्? यस्य भावाद् द्रव्ये शब्दनिवेशस्तदबिधाने - तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम्। न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः॥
Kashika¶
याप्यः कुत्सित इत्युच्यते। याप्ये वर्तमानात् प्रातिपदिकात् स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः, कुत्सितो वैयाकरणो वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरणशास्त्रे प्रवीणो दुःशीलः, तत्र कस्माद् न भवति ? यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशः,तस्य कुत्सायां प्रत्ययः॥
Siddhanta Kaumudi¶
कुत्सितो भिषक् भिषक्पाशः ॥
Balamanorama¶
याप्ये पाशप् - याप्ये पाशप् । याप्यः=कुत्सितः ।निकृष्टप्रतिकृष्टाऽर्वरेफयाप्याऽवमाऽधमाः॑ इत्यमरः । कुत्सितेविद्यमानात्स्वार्थे पाशप्स्यादित्यर्थः । प्रवृत्तिनिमित्तकुत्सायामिदम् । अप्रवृत्तिनिमित्तकुत्सायामपि कुत्सित इति वक्ष्यमाणं भवतीति भाष्ये, स्पष्टम् ।
Tattvabodhini¶
याप्ये पाशप् - याप्ये पाशप् ।कुत्सिते॑इत्यत्रैव नाऽयं विहितः, तिङन्तादपि प्रसङ्गात् ।
Padamanjari¶
याप्यशब्दोऽकयमस्त्यपादानसाधनः - यापिता अस्माद् गुणा इति याप्यःउकुत्सितः, अस्ति कर्मसाधनः-यापयितव्यो याप्यो देशान्तरं प्रापयितव्यः, शरीराद्वाऽपनेतव्यः, अशक्यप्रतीकारो याप्यो व्याधिः। तत्रेहाभिधानशक्तिस्वभावादाद्यस्य ग्रहणमित्याह - याप्यः कुत्सित उच्यत इति। तत्र कस्मान्न भवतीति। व्याकरणे प्रवीणस्यापि दुःशीलत्वेन कुत्सितत्वाद् भवितव्यमेवेति भावः। यस्य गुणस्येति। गुणो विशेषणम्, द्रव्यं विशेष्यम्। तस्य कुत्सायां प्रत्यय इति। एतच्चान्तरङ्गत्वाल्लभ्यते। प्रवृत्तिनिमितं हि प्रत्यासन्नम्; शब्दवाच्यत्वात्। धर्मान्तरं तु तत्र वस्तुतः सदपि न शब्देन स्पृश्यते। यत्र तु प्रवृत्तितिनिमितस्य कुत्सितं न सम्भवति - असको देवदतक इत्यादौ, तत्र सहचरितगुणक्रियाकुत्साश्रयः प्रत्ययो भवत्येव। एवं च देवदतपाश इत्याद्यपि सत्यभिधाने भवति।’कुत्सिते’ इत्यत्रैवायं न विहितः; तिङ्न्तादपि प्रसङ्गात् ॥
Nyaas¶
याप्यशब्दोऽयं गमयितव्ये वर्तते - ग्रामान्तरात्? याप्य इति; अस्त्यशक्यप्रतीकारे - याप्यो रोग इति, अस्ति कुत्सिते - याप्योऽयमिति, कुत्सित इति गम्यते। पाशप्प्रत्ययान्तात्? कुत्सित एव प्रतीयत इति तदभिधायिन एव याप्यशब्दस्येवं ग्रहणं युक्ततम्। अत एवाह - याप्यः कुत्सित इत्युच्यते इति याप्यन्ते=अपनीयन्ते तस्माद्गुणा इति याप्यः, कृत्यल्युटो बहुलम् (3.3.113) इत्यपादाने कृत्यः। तत्र कस्मान्न भवति इति। यद्यप्यसौ व्याकरणे प्रवीणः तथापि दुःशीलत्वाद्भवितव्यमेव तत्रेत्यभिप्रायः। यस्य इत्यादि। गुणो विशेषणम्? द्रव्यं विशेष्यम्, तत्र द्रव्ये यद्यपि बहवो गुणाः सन्ति, तथापि यस्य गुणस्य भावे द्रव्ये शब्दो निविशते वर्तते प्रत्यासत्तेस्तस्यैव कुत्सायां शब्देन भवितव्यम्; न तु वैयाकरणस्य दुःशीलत्वं प्रवृत्तिनिमित्तम्। किं तर्हि? व्याकरणस्य परिज्ञानम्, अध्ययनं वा। न चेह दुःशीलत्वेन भवितव्यं प्रत्ययेन॥
Prakriyasarvasvam¶
कुत्सिते स्वार्थे पाशप् स्यात् । भिषक्पाशः । यशस्पाशम् । स्वार्थिकानां प्रकृतिवल्लिङ्गवचनमिष्टम् । तच्च क्वचिदतिवर्तत इति रक्षस्पाशानित्याह भट्टिः ॥
Sutra Prayogas¶
रक्षस्-पाशान् (भट्टिकाव्यम्): याप्ये पाशप् इति स्वार्थिका अपि प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते।