53044: एकाद्धो ध्यमुञन्यतरस्याम्¶
Padacheda: एकात् | S | 5 | 1 |
धः | S | 6 | 1 |
ध्यमुञ् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
‘एक’ शब्दात् ‘धा’ प्रत्ययस्य विकल्पेन ‘ध्यमुञ्’ आदेशः भवति ।
संख्याया विधार्थे धा (5.3.42) तथा अधिकरणविचाले च (5.3.43) एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः ‘धा’ इति प्रत्ययः भवति । ‘एक’ शब्दात् विहितस्य अस्यैव ‘धा’ प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन ‘ध्यमुञ्’ इति आदेशः विधीयते । अस्मिन् आदेशे ञकारस्य इत्संज्ञा भवति, तथा च मकारोत्तरः अकारः उच्चारणार्थः अस्ति । द्वयोः अपि लोपः भवति । प्रक्रिया एतादृशी - एक + धा → एक + ध्यमुञ् [‘धा’ इत्यस्य ‘ध्यमुञ्’ आदेशः ] → ऐक + ध्यम् [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → ऐकध्यम् । यथा - ऐकध्यम् भुङ्क्ते (= एकेन प्रकारेण भुङ्क्ते) । अष्ट राश्यः ऐकध्यम् कुरु (= अष्टानाम् राशीनाम् मिलित्वा एका राशिः कुरु) । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्मितस्य ‘ऐकध्यम्’ शब्दस्य तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । 2. ‘ऐकध्यम्’ इत्यत्र अन्ते विद्यमानः मकारः शब्दस्य एव अवयवः अस्ति । अयं मकारः नपुंसकलिङ्गस्य एकवचनस्य न - इति स्मर्तव्यम् । ‘ऐकध्यम्’ इति शब्दः अव्ययसंज्ञकः अस्ति, अतः अस्मात् विहितानाम् ‘सुँप्’ प्रत्ययानाम् अव्ययादाप्सुपः (2.4.82) इत्यनेन लोपः भवति ।
Vasu English Summary¶
After the word एक the substitute comes optionally instead of धा।
Vasu English Translation¶
After the word एक the substitute comes optionally instead of धा। Thus एकधा राशिं कुरु or ऐकध्यं कुरु, एकधा भुङ्क्ते or ऐकध्यं भुङ्क्ते ॥ The repetition of धा in the sutra shows that the substitution takes place when the sense is that of विधा, as well as when it is that of अधिकरण विचाल ॥ Had धा not been repeated, the substitution would have come in the sense of अधिकरण विचाल only, as immediately preceding this sutra.
Bhashya¶
एकाद्धो ध्यमुञ्ञन्यतरस्याम् (2202) (ध्यमुञ्ञोऽधिकरणम्) (5827 पूर्वपक्षिवार्तिकम्॥ 1 ॥) - सहभावे ध्यमुञ्ञ् - (भाष्यम्) सहभावे ध्यमुञ्ञ् वक्तव्यः। ऐकध्यं राशिं कुरु। स तर्हि वक्तव्यः? (समाधानभाष्यम्) न वक्तव्यः। अधिकरणविचाले इत्युच्यते, न चावश्यं स एवाधिकरणविचालः - यदेकमनेकं क्रियते, यदप्यनेकमेकं क्रियते सोऽप्यधिकरणविचालः॥
Kashika¶
एकशब्दात् परस्य धाप्रत्ययस्य ध्यमुञादेशो भवत्यन्यतरस्याम्। एकधा राशिं कुरु, ऐकध्यं कुरु। एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते। प्रकरणादेव लब्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात्। अनन्तरस्यैव ह्येतत् प्राप्नोति॥
Siddhanta Kaumudi¶
ऐकध्यम् । एकधा ॥
Balamanorama¶
एकाद्धो ध्यमुञन्यारयाम् - एकाद्धो । एकात्-ध इति च्छेदः । धाशब्दस्य ‘ध’ इति षष्ठएकवचनम् । एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः स्यादित्यर्थः । ऐकध्यमिति । नच एकशब्दात् ध्यमुञ्प्रत्ययः स्वतन्त्रो विधीयतां नतु धाप्रत्ययस्यादेश इति वाच्यं, तथा सति अधिकरणविचाल एव सन्निहितत्वादापत्तेः ।
Tattvabodhini¶
एकाद्धो ध्यमुञन्यारयाम् - एकाद्धो । शब्दप्रधानत्वात्सर्वनामकार्याऽभावः । इह प्रकरणादेव सिद्धे पुनर्धाग्रहणं विधार्थे विहितस्यापि यथा स्यात् ।अनन्तरस्ये॑ति न्यायेनाधिकरणविचाले विहितस्यैव हि प्राप्नोतीति वृत्तिपदमञ्जार्योः स्पष्टम् । एतेन ध्युमञ् स्वतन्त्र एव प्रत्ययोऽस्त्वित्याशङ्का परास्ता । ऐकध्यमिति । विधार्थे -॒एकेध्यं भुङ्क्ते॑ । अधिकरणविचाले तु — ऐकध्यं राशिं कुर्वि ॑त्यादि ज्ञ्यम् । एवमग्रेऽपि द्वैधमिच्यादौ योज्यम् ।
Padamanjari¶
ठेकाद्ऽ इति शब्दप्रधानत्वात्सर्वनामकार्याभावः एकधा राशि कुर्विति। अधिकरणविचाले उदाहरणं। ऐकध्यं भुङ्क्त इति। विधार्थे। प्रकरणादेव लब्ध इति। कस्मिन् लब्धे? धाप्रत्ययस्य स्थानित्वे। इह हि पूर्वसूत्राद्धाग्रहणमनुवर्तते, स च पूर्वमेव विहित इति विधानासम्भवात् स्थानित्वमेव विज्ञास्यते। विधार्थे विहितस्यापि यथा स्यादिति। स्थान्यादेशाभावोऽप्येतदर्थमेवाश्रितः; प्रत्ययान्तरेऽप्यस्मिन्दोषाभावात्। किं पुनः कारणं विधार्थे विहितस्य तस्य न स्याद्? अत आह - अनन्तरस्यैव हीति। ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः ॥
Nyaas¶
ऐकध्यं कुरु इति। अधिकरणविचाल उदाहरणम्। ऐकध्यं भुङ्क्ते` इति। विधार्थे। अत्र धाग्रहणमनुवर्तते, न च तत्र विध्यर्था वृत्तियुक्ता; पूर्वमेव विहितत्वात्। तस्मादनुवृत्तिसामर्थ्यात्? स्थानित्वं धाप्रत्ययस्य विज्ञायत इत्याह - प्रकरणादेव लब्धे इति। धाप्रत्ययस्य स्थानित्व इति शेषः। किं पुनः कारणमसति धाग्रहणे विधार्थे विहितस्य न भवति? इत्याह - अनन्तरस्यैव हि इत्यादि। असति हि पुनर्धाग्रहणे अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा (व्या। प। 19) इत्यधिकरणविचालार्थे यो विहितस्तस्यैव स्यात्, न तु विधार्थे यो विहितस्तस्य। पुनर्धाग्रहणे तु सति धामात्रस्यादेशः सिद्धो भवति॥
Prakriyasarvasvam¶
एकात्परस्य धो वा ध्यमुञादेशः । ऐकध्यं भुङ्क्ते । एकधा ॥