53046: एधाच्च¶
Padacheda: एधाच् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘द्वि’ तथा ‘त्रि’ एताभ्याम् विहितस्य ‘धा’ प्रत्ययस्य विकल्पेन ‘एधाच्’ इति आदेशः भवति ।
संख्याया विधार्थे धा (5.3.42) तथा अधिकरणविचाले च (5.3.43) एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः ‘धा’ इति प्रत्ययः भवति । ‘द्वि’ तथा ‘त्रि’ एताभ्याम् विहितस्य अस्यैव ‘धा’ प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन ‘एधाच्’ इति आदेशः विधीयते । अस्मिन् आदेशे चकारस्य इत्संज्ञा भवति । प्रक्रिया एतादृशी - द्वि / त्रि + धा → द्वि / त्रि + एधाच् [‘धा’ इत्यस्य ‘एधाच्’ आदेशः ] → द्व् / त्र् + एधा [यस्येति च (6.4.148) इति इकारलोपः] → द्वेधा, त्रेधा । यथा - द्वेधा भुङ्क्ते (= द्वाभ्यां प्रकाराभ्यां भुङ्क्ते) । त्रेधा वदति (= त्रिभिः प्रकारैः वदति) । एका राशी द्वेधा त्रेधा वा कुरु । अयमादेशः विकल्पेन भवति, अतः पक्षे ‘द्विधा’ तथा ‘त्रिधा’ एते रूपे अपि भवतः । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्मितयोः ‘द्वेधा’ तथा ‘त्रेधा’ शब्दयोः तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । 2. ‘द्वि’ तथा ‘त्रि’ एताभ्यां विहितस्य ‘धा’ प्रत्ययस्य द्वित्र्योश्च धमुञ् (5.3.45) इत्यनेन विकल्पेन धमुञ्-आदेशः अपि भवति । ‘धमुञ्’ इत्यत्र ञकारस्य इत्संज्ञा भवति, उकारश्च उच्चारणार्थः अस्ति । द्वयोः अपि लोपे कृते ‘धम्’ इत्येव प्रयोगे दृश्यते, येन ‘द्वैधम्’ तथा ‘त्रैधम्’ एते रूपे सिद्ध्यतः ।
Vasu English Summary¶
The substitute एधाच् (एधा) comes optionally in the place of धा after 1. द्वि and 2. त्रि।
Vasu English Translation¶
The substitute एधाच् (एधा) comes optionally in the place of धा after 1. द्वि and 2. त्रि। Thus द्वेधा (6.4.148) or द्वैधम् or द्विधा, त्रेधा, त्रैधम् or त्रिधा ॥
Kashika¶
द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाजादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा, द्वैधम्, द्विधा। त्रेधा, त्रैधम्, त्रिधा॥
Siddhanta Kaumudi¶
द्वेधा । त्रेधा ॥
Balamanorama¶
एधाच्च - एधाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्यं एधाजित्यादेशः स्यादित्यर्थः ।पञ्चम्यास्तसि॑लित्यारभ्यएधाच्चे॑त्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् ।
Tattvabodhini¶
एधाच्च - एधाच्च । द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाच् स्यात् । योगविभागो यथासङ्ख्यनिरासार्थः ।
Padamanjari¶
योगविभागो यथासंख्यनिरासार्थः ॥
Prakriyasarvasvam¶
द्वित्रिभ्यां यः एधाजपि वा स्यात् । द्वेधा, त्रेधा ॥