53041: विभाषावरस्य¶
Padacheda: विभाषा | S | 1 | 1 |
अवरस्य | S | 6 | 1 |
Sutrartha¶
‘अवर’ शब्दस्य अस्ताति-प्रत्यये परे विकल्पेन अव-आदेशः भवति ।
‘दिशा’, ‘देश’, तथा ‘काल’ इत्येतेषु अर्थेषु प्रयुज्यमाणेभ्यः दिशावाचिभ्यः शब्देभ्यः दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यः दिग्देशकालेष्वस्तातिः (5.3.27) इत्यनेन सप्तम्यन्तात्, पञ्चम्यन्तात्, प्रथमान्तात् च स्वार्थे औत्सर्गिकरूपेण ‘अस्ताति’ प्रत्ययः विधीयते । अस्मिन्नेव प्रत्यये परे ‘अवर’ शब्दस्य पूर्वाधरावराणामसि पुरधवश्चैषाम् (5.3.39) इत्यनेन ‘अव्’ आदेशे प्राप्ते; वर्तमानसूत्रेण अयमादेशः केवलम् विकल्पेनैव भवति । यथा - अवरस्याम् दिशि / अवरस्मिन् देशे / अवरस्मिन् काले / अवरस्याः दिशः / अवरस्मात् देशात् / अवरस्मात् कालात् / अवरा दिक् / अधरः देशः / अधरः कालः → अवर + अस्ताति [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः (2.4.71) इति सुप्-प्रत्ययस्य लुक्] → अवर+ अस्तात् [‘अवर’ इत्यस्य पूर्वाधरावराणामसि पुरधवश्चैषाम् (5.3.39) इत्यनेन ‘अव्’ आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते ।] → अवर् + अस्तात् [यस्येति च (6.4.148) इति अकारलोपः] → अवरस्तात् पक्षे अवर’शब्दस्त ‘अव्’ इति आदेशं कृत्वा ‘अवस्तात्’ इति रूपमपि सिद्ध्यति । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्मितस्य ‘अवरस्तात्’ शब्दस्य तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यनेन अव्ययसंज्ञा भवति । 2. पूर्वसूत्रेण अस्ताति च (5.3.40) इत्यनेन ‘अवर’ शब्दस्य ‘अस्ताति’प्रत्यये परे नित्यम् ‘अव्’ आदेशे प्राप्ते वर्तमानसूत्रेण सः विकल्प्यते, अतः इयम् ‘व्यवस्थितविभाषा’ अस्ति ।
Vasu English Summary¶
The substitution of अव् for अवर is optional when अस्ताति follows.
Vasu English Translation¶
The substitution of अव् for अवर is optional when अस्ताति follows. This declares option when by last it was compulsory. As अवरस्तात् or अवस्तात् वसति आगतः, or रमणीयम् ॥
Kashika¶
पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। अवरस्यास्तातौ परतो विभाषा अव् इत्ययमादेशो भवति। अवस्ताद् वसति। अवस्तादागतः। अवस्ताद् रमणीयम्। अवरस्ताद् वसति। अवरस्तादागतः। अवरस्ताद् रमणीयम्॥
Siddhanta Kaumudi¶
अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति च (SK1976) इति ज्ञापकादसिरस्तातिं न बाधते ॥
Balamanorama¶
विभाषाऽवरस्य - विभाषाऽवरस्य ।अस्ताति चे॑ति पूर्वसूत्रादस्तातीत्यनुवर्तते । तदाह — अवरस्येति । एवमिति । पूर्वस्मिन्पूर्वस्मात्पूर्वो वा देशः, कालो वा — पुरः पुरस्तादित्यादि । पूर्वस्मिन्गुराविति । पूर्वकालिकाध्यापनकर्तरीत्यर्थः । ननु ‘दिक्छब्देभ्यः’ इति सामान्यविहितस्य परादिशब्देषु सावकाशस्य अस्तातेः पूर्वाधरावरशब्देषु असिना विशेषविहितेन बाधः स्यादित्यत आह — अस्ताति चेतीत्यादि ।
Padamanjari¶
अवित्ययमादेशो भवतीति। कथं पुनर्बहुष्वादेशेषु प्रसक्तेषु अयमेव भवतु? अस्यैवानुवृतेः। अथ वा - अवरस्य यदुक्तं तदसतातौ विभाषा भवतीति विज्ञास्यते ॥