53060: प्रशस्यस्य श्रः

Padacheda: प्रशस्यस्य | S | 6 | 1 |

श्रः | S | 1 | 1 |

Sutrartha

‘अतिशय’ अस्मिन् सन्दर्भे ‘प्रशस्य’ शब्दस्य अजाद्योः प्रत्यययोः परयोः ‘श्र’ इति आदेशः भवति ।

‘प्रशस्य’ एतत् ‘प्र + शस्’ इत्यस्य क्यप्-प्रत्ययान्तरूपम् । ‘प्रशंसनमर्हति’ / ‘प्रशंसां अर्हति’ इति सः प्रशस्यः । The one to be praised / congratulated इत्याशयः । अस्मात् शब्दात् ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) इत्यनेन ‘इष्ठन्’ तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनेन ‘ईयसुँन्’ एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः प्रशस्य’शब्दस्य ‘श्र’ इति आदेशः भवति । यथा - 1. एते सर्वे प्रशस्याः । अयम् एतेषामतिशयेन प्रशस्यः, अतः अयम् ‘श्रेष्ठः’ । प्रक्रिया इयम् - प्रशस्य + इष्ठन् श्र + इष्ठ [वर्तमानसूत्रेण ‘प्रशस्य’ शब्दस्य ‘श्र’ आदेशः] → श्रेष्ठ [टेः (6.4.155) इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् (6.4.163) इति निषेधः । अतः आद्गुणः (6.1.87) इति गुण-एकादेशः] 2. एतौ द्वौ प्रशस्यौ । अयम् एतयोः अतिशयेन प्रशस्यः, अतः अयम् श्रेयान् । प्रक्रिया इयम् - प्रशस्य + ईयसुँन् → श्र + ईयस् [वर्तमानसूत्रेण ‘प्रशस्य’ शब्दस्य ‘श्र’ आदेशः] → श्रेयस् [टेः (6.4.155) इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् (6.4.163) इति निषेधः । अतः आद्गुणः (6.1.87) इति गुण-एकादेशः] अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः (7.1.70) इति नुमागमे कृते ‘श्रेयान्’ इति रूपम् सिद्ध्यति । विशेषः - ज्य च (5.3.61) इत्यनेन अग्रिमसूत्रेण ‘प्रशस्य’ शब्दस्य अजादिप्रत्यययोः परयोः ‘ज्य’ इत्यपि आदेशः भवति । ज्ञातव्यम् - ‘प्रशस्य’ शब्दः वस्तुतः गुणवाची नास्ति, अतः अस्मात् शब्दात् ‘अतिशय’ अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ (5.3.55) तथा द्विवचनविभज्योपपदे तरबीयसुनौ (5.3.57) इत्यनयोः सूत्रयोः ‘इष्ठन्’, ‘तमप्’, ईयसुँन्’, ‘तरप्’ एतेषु चतुर्षु प्रत्ययेषु प्राप्तेषु अजादी गुणवचनादेव (5.3.58) इत्यनेन सूत्रेण ‘इष्ठन्’ तथा ‘ईयसुँन्’ एतौ अजादिप्रत्ययौ वस्तुतः नियम्येते (= न प्रयुज्येते) । परन्तु वर्तमानसूत्रेण अजादिप्रत्यययोः परयोः एव ‘प्रशस्य’ शब्दस्य ‘श्र’ आदेशः उक्तः अस्ति । अतः विधानसामर्थ्यात् ‘प्रशस्य’शब्दात् अपि अजादी प्रत्ययौ भवतः एव ।

Vasu English Summary

For प्रशस्य is substituted श्र when the affixes इष्ठन् and इयसुन् follow.

Vasu English Translation

For प्रशस्य is substituted श्र when the affixes इष्ठन् and इयसुन् follow. Though प्रशस्य is not an attribute, it takes these affixes by the application of this rule. The anuvritti of अजादी runs here, but the word must be changed into locative for the purposes of this aphorism, and which will read thus प्रशस्यस्य श्रोऽजाद्योः ॥ Thus सर्व इमे प्रशस्या अयमेषामतिशयेन प्रशस्यः = श्रेष्ठः, उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः = श्रेयान् ॥ Rule (6.4.163) prevents the elision of the अ of श्र, which otherwise would have been elided by (6.4.148) and (5.4.155). These words are equal to प्रशस्यतरः and प्रशस्यतमः ॥

Bhashya

प्रशस्यस्य श्रः(2218) (श्रादेशाधिकरणम्) (सूत्रार्थोपपादकभाष्यम्) इदमयुक्तं वर्तते। किमत्रायुक्तम्? अजादी गुणवचनादेव 58 इत्युक्त्वा अगुणवचनानामपि अजाद्योरादेशा उच्यन्ते। नैष दोषः। एतदेव ज्ञापयति - भवत एतेभ्यो।?गुणवचनेभ्योऽपि अजादी इति, यदयमजाद्योः परत आदेशान् शास्ति। एवमपि तयोः इति वक्तव्यं स्यात्, तयोः परत इति॥ यदि पुनरयं विधिर्ज्ञायेत। नैवं शक्यम्, व्यञ्ञ्जनादी हि न स्याताम्, उपाधीनां च संकरः स्यात् पुनर्विधानादजाद्योः। ननु चैते विशेषा अनुवर्तेरन्। यद्यप्येते अनुवर्तेरन् व्यञ्ञ्जनादी तर्हि न स्याताम्। एवं तर्हि आचार्यप्रवृत्तिर्ज्ञापयति - भवत एतेभ्योऽगुणवचनेभ्योऽप्यजादी इति - यदयमजाद्योरादेशं शास्ति। ननु चोक्तं तयोरिति वक्तव्यमिति। न वक्तव्यम्। प्रकृतमजादिग्रहणमनुवर्तते। क्व प्रकृतम्? अजादी गुणवचनादेवेति। तद्वै प्रथमानिर्दिष्टम्, सप्तमीनिर्दिष्टेन चेहार्थः। अर्थाद्विभक्तिविपरिणामो भविष्यति। तद्यथा - उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्वैनम्; देवदत्तमिति गम्यते। देवदत्तस्य गावोऽश्वा हिरण्यम्, आढ्यो वैधवेयः; देवदत्त इति गम्यते। पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात्प्रथमानिर्दिष्टं द्वितीयानिर्दिष्टं च भवति। एवमिहापि - पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्सप्तमीनिर्दिष्टं भविष्यति॥

Kashika

प्रशस्यशब्दस्य श्र इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः। अजादी इति प्रकृतस्य सप्तमी विभक्तिर्विपरिणम्यते। ननु च प्रशस्यशब्दस्यागुणवचनत्वादजादी न संभवतः? एवं तर्ह्यादेशविधानसामर्थ्यात् तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेवेति। एवमुत्तरेष्वपि योगेषु विज्ञेयम्। सर्व इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः श्रेष्ठः। उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः श्रेयान्। अयमस्मात् श्रेयान्। प्रकृत्यैकाच् (६.४.१६३) इति प्रकृतिभावात् श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः॥

Siddhanta Kaumudi

अस्य श्रादेशः स्यादजाद्योः ॥

Laghu Siddhanta Kaumudi

अस्य श्रादेशः स्यादजाद्योः परतः॥

Balamanorama

प्रशस्यस्य श्रः - प्रशस्यस्य श्रः । अजाद्योरिति । इष्ठन्नीयसुनोरित्यर्थः । ‘अजादी’ इत्यनुवृत्तं सप्तम्या विपरिणम्यत इति भावः । प्रशस्यशब्दस्य क्रियाशब्दतया गुमवचनत्वाऽभावेऽपि अत एव ज्ञापकादिष्ठन्नीयसुनौ । श्र-इष्ठ, श्र-ईयस् इति स्थिते इष्ठेमेयःसु विहितटिलोपे प्राप्ते — ।

Tattvabodhini

प्रशस्यस्य श्रः - प्रशस्यस्य श्रः ।अजादी॑इत्यनुवृत्तं सप्तम्या विपरिणम्यत इत्याह -अजाद्योरिति । अजाद्योः किम् । प्रशस्यतरः । प्रशस्यतमः ।

Padamanjari

अजाद्योः प्रत्यययोः परत इति। ननु चाजादी इति प्रथमान्तं प्रकृतम्। न सप्तम्यन्तम्, तत्कथमयमर्थो लभ्यते ? इत्यत आह - अजादी इति प्रकृतस्येत्यादि। प्रकृतस्य या विभक्तिः प्रथमा सा सप्तमीरूपेण विपरिणम्यते, ऊह्यत इत्यर्थः। एवं तर्हीत्यादि। अथ यावेव सम्भवतः - तरप्तमपौ, तयोरेव परतोऽयमादेशः कस्मान्न भवति? नैवं भवितुमर्हति; ठजादीऽ इत्यनुवृत्तिसामर्थ्यात्। अथात्रैवाजाद्योर्विधिः कस्मान्न विज्ञायते - प्रशस्यशब्दादजादी भवतः, श्रश्चास्यादेश इति, तत्रायमप्यर्थः - विभक्तिविपरिणामो न कर्तव्यो भवति? नैवं शक्यम्; तरप्तमपौ हि स्याताम्, विशेषविहितावजादी बाधेयाताम्, उपाधीनां च सङ्करः स्याद्-इष्ठन्विषये ईयसुन्, तद्विषये चेष्ठन्निति। तद्विषय इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। सप्तम्यन्तपाठे तु स एव विषयस्तत्रेत्यर्थः। नियमो न प्रवर्तत इति। नयमाप्रवृत्तिज्ञापनद्वारेणाजादिभावो ज्ञाप्यते, न तु साक्षादित्यर्थः; अन्यथा पुनरनजाद्योर्बाध उपाधिसङ्करश्च स्यात्, उक्तेन प्रकारेण स्वशास्त्रेणैवाजाद्योर्विदानान्नैतद्दोषद्वयमपि भवति। कथं पुनर्थाश्रुतसम्बन्धसम्भवेऽपि विपरिणामः शक्य आश्रयितुम् ? शृणु; अजाद्योर्विधिरिष्टश्चेत्पञ्चम्या निरदेक्ष्यत्। किञ्च एवं सन्नियोगार्थश्चकारोऽप्यकरिष्यत। टिलोप-यस्येतिलोपाविति।’यस्येति’ इत्यनेन लोपो यस्येतिलोपः,’कर्तृकरणे कृता बहुलम्’ इति समासः, तत्रानुकरणत्वादस्यवामीयमित्यादिवद्बिभक्तेरलोपः। ठाद्गुणःऽ इति त्वनङ्गत्वान्न प्रतिषिध्यते ॥

Nyaas

ननु चाजीदी इति प्रथमान्तम्, तत्कथमजाद्योः परत आदेशो लभ्यते? इत्याह - अजादी इतचि। तद्विषयः इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। अजादी गुणवचनादेव (5.3.58) इतत्यनेन यो नियमः स तद्विषये न प्रवर्तत इति दर्शयति। एवमुत्तरेष्वपि इति। वृद्धस्य च (5.3.62) इत्येवमादिषु। अयमनयोः अयमनयोः श्रेयानिति द्विवचनोपपद ईयसुन्? अयमस्मात्? श्रेयानिति विभज्योपपदे। पूर्वत्र निर्धारणे षष्ठी (2.3.41) , उत्तरत्र पञ्चमी विभक्ते (2.3.42) इति पञ्चमी॥

Prakriyasarvasvam

अस्याजाद्योः परयोः श्रादेशः स्यात् । अस्य ‘प्रकृत्यैकाच्’ (६-४-१६३) इति टिलोपाभावः । श्रेष्ठः, श्रेयान् ॥

Sutra Prayogas

  • श्रेयान् (शिशुपालवधम्): प्रशस्यस्य श्रः इति श्रादेशः।