53048: पूरणाद्भागे तीयादन्

Padacheda: पूरणात् | S | 5 | 1 |

भागे | S | 7 | 1 |

तीयात् | S | 5 | 1 |

अन् | S | 1 | 1 |

Sutrartha

‘भागः’ इत्यस्य विशेषणरूपेण प्रयुक्तः यः ‘तीय’प्रत्ययान्तशब्दः, तस्मात् स्वार्थे अन्-प्रत्ययः भवति ।

‘तीय’ इति कश्चन पूरणप्रत्ययः । द्वेस्तीयः (5.2.54) तथा त्रेः सम्प्रसारणं च (5.2.55) इत्यनेन ‘द्वि’ तथा ‘त्रि’ एताभ्यां शब्दाभ्याम् पूरणार्थे अयम् प्रत्ययः विधीयते, तेन ‘द्वितीय’ तथा ‘तृतीय’ एतौ शब्दौ सिद्ध्यतः । ‘भाग’ इत्यस्य विशेषणरूपेण यत्र एतौ शब्दौ प्रयुज्येते, तत्र ताभ्याम् स्वार्थे ‘अन्’ प्रत्ययः वर्तमानसूत्रेण विधीयते । यथा - द्वितीयः भागः = द्वितीय + अन् → द्वितीय् + अ [यस्येति च (6.4.148) इति अकारलोपः] → द्वितीय एवमेव - तृतीयः भागः = तृतीयः । ज्ञातव्यम् - 1. वस्तुतः अत्र ‘अन्’ प्रत्ययस्य प्रयोगेण पुनः ‘द्वितीय’ तथा ‘तृतीय’ एतौ एव शब्दौ सिद्ध्यतः । अत्र प्रत्ययविधानमपि स्वार्थे कृतमस्ति, अतः अत्र ‘द्वितीय’ इत्यस्मिन्नेव अर्थे पुनः ‘द्वितीय’ इत्येव शब्दः सिद्ध्यति । अतः अस्य सूत्रस्य प्रयोजनम् किम् - इति प्रश्नः उपतिष्ठते । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - ‘स्वरार्थम् वचनम्’ । इत्युक्ते, पूरणप्रत्ययान्तः ‘द्वितीय’शब्दः, तथा अन्-प्रत्ययान्तः ‘द्वितीय’शब्दः एतयोः स्वरे अन्तरम् विद्यते - (अ) पूरणप्रत्ययान्तः यः ‘द्वितीय’ शब्दः, तस्मिन् तकारोत्तरः ईकारः आद्युदात्तश्च (3.1.3) इत्यनेन उदात्तस्वरम् प्राप्नोति । (आ) अन्-प्रत्ययान्तः यः ‘द्वितीय’शब्दः, तस्मिन् वकारोत्तरः इकारः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन उदात्तस्वरम् प्राप्नोति । एतम् स्वरविशेषम् द्योतयितुम् एव अत्र ‘अन्’ इति प्रत्ययः उक्तः अस्ति । वस्तुतः तु अस्मिन् प्रत्यये ‘अ’ इत्यस्य किमपि प्रयोजनम् न, केवलम् ‘न्’ इति इत्संज्ञकस्यैव अत्र कार्यमस्ति । परन्तु केवलम् इत्संज्ञकः वर्णः प्रत्ययरूपेण विधातुम् न शक्यते, अतः प्रत्ययस्य प्रारम्भे ‘अ’ इति स्थापितः अस्ति । 2. अस्मिन् सूत्रे ‘पूरणात्’ इति निर्देशः वस्तुतः अत्र न आवश्यकः, यतः ‘तीय’ इति प्रत्ययः पूरणार्थे एव विधीयते । परन्तु ‘पूरणात्’ इत्यस्य अनुवृत्तिः अग्रिमसूत्रेषु आवश्यकी, अतः तदर्थमस्य शब्दस्य अत्र ग्रहणम् कृतमस्ति । विशेषः - अस्मिन् सूत्रे कौमुद्याम् वार्त्तिकम् एकम् पाठ्यते - <!तीयादीकक् स्वार्थे वाच्यः ; न विद्यायाः!> । इत्युक्ते, ‘तीय’ प्रत्ययान्तशब्दात् स्वार्थे ‘ईकक्’ इति प्रत्ययः भवितुमर्हति, यदि अनेन निर्मितः तद्धितान्तशब्दः ‘विद्या’ इत्यस्य विशेषणरूपेण न प्रयुज्यते । यथा - द्वितीय + ईकक् → द्वितीयीक । द्वितीयम् इत्येव द्वितीयीकम् । ‘द्वितीया विद्या’ इत्यत्र तु निषेधात् ‘द्वितीयीका’ इति न भवति ।

Vasu English Summary

After a प्रातिपदिक (Nominal Stem) an ordinal number ending in तीय , comes the affix अन् (the word retaining its denotation) when a ‘part’ is meant.

Vasu English Translation

After a प्रातिपदिक (Nominal Stem) an ordinal number ending in तीय , comes the affix अन् (the word retaining its denotation) when a ‘part’ is meant. This sutra is made only to teach accent, for the word to which अन् is added undergoes no other change of form except in accent. Thus द्विती꣡यः (5.2.54) has udatta on ती (3.1.3) but when अन् is added, the accent falls on द्वि (6.1.197). Thus द्वितीयो भागः = द्वि꣡तीयः ‘the moiety’. Similarly तृ꣡तीयः ‘the one-third’. Why do we say when ‘part’ is meant? Otherwise, there is no change in accent. The affix तीय always comes in forming ordinal numbers and for no other purpose, for the तीय in words like मुखतीय is not significant as it is not an affix. The employment of the word पूरण in the aphorism is useless for the purposes of this sutra. Its anuvritti, however, runs in the other sutras, and that is the only purpose that it serves here.

Bhashya

पूरणाद्भागे तीयादन् (2206) (अन्प्रत्ययाधिकरणम्) (पूरणग्रहणप्रयोजनभाष्यम्) पूरणग्रहणं शक्यमकर्तुम्, न ह्यपूरणस्तीयशब्दोऽस्ति यत्र दोषः स्यात्। ननु चायमस्ति - मुखतीयः, पार्श्वतीय इति। अर्थवद्ग्रहणे नानर्थकस्य - ःइत्येवमस्य न भविष्यति। उत्तरार्थं तर्हि पूरणग्रहणं कर्तव्यम् - प्रागेकादशभ्योऽच्छन्दसि(49) इति पूरणाद्यथा स्यात्॥

Kashika

पूरणप्रत्ययो यस्तीयः,तदन्ताद् प्रातिपदिकाद् भागे वर्तमानात् स्वार्थेऽन् प्रत्ययो भवति। स्वरार्थं वचनम्। द्वितीयो भागो द्वितीयः। तृतीयः। भाग इति किम्? द्वितीयम्। तृतीयम्। पूरणग्रहणमुत्तरार्थम्, न ह्यपूरणस्तीयोऽस्ति। मुखतीयादिरनर्थकः॥

Siddhanta Kaumudi

द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः ।<!तीयादीकक् स्वार्थे वाच्यः !> (वार्तिकम्) ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ।<!न विद्यायाः !> (वार्तिकम्) ॥ द्वितीया । तृतीया । विद्येत्येव ॥

Balamanorama

पूरणाद्भागे तीयादन् - पूरणाद्भागे । पूरणार्थकतीयप्रत्ययान्ताद्भागे विद्यमानात्स्वार्थे अन्स्यादित्यर्थः । अन्विधेः प्रयोजनमाह — स्वरे विशेष इति ।ञ्नित्यादिर्नित्य॑मिति स्वरे इत्यर्थः । तीयादीकगिति । वार्तिकमिदंदृष्टं सामे॑ति सूत्रभाष्ये स्थितम् । न विद्याया इति । वार्तिकमिदमपि तत्रैव स्थितम् । विद्यावृत्तेस्तीयप्रत्ययान्तादीकङ्नेत्यर्थः ।

Tattvabodhini

पूरणाद्भागे तीयादन् - पूरणाद्भागे । पूरणार्थत्वात्तीयप्रत्ययः पूरणशब्देनोक्तः । पूरणग्रहणं चोत्तरार्थम्, न ह्रपूरणस्तीयप्रत्ययो भवति । मुखतीयः इत्यत्र त्वनर्थकत्वान्नतिप्रसङ्गः । भग इति पुंस्त्वं विवक्षितम् । तेन समानेऽप्यर्थे विभक्तौ विवक्षितायां चतुर्थी पञ्चमीत्येव भवति ।प्रागेकादशभ्यः॑इत्यनि सति तु टापि चतुर्था पञ्चमेति प्रसज्येत ।

Padamanjari

पूरणार्थविहितत्वातीयप्रत्यय एव पूरणशब्देनोक्त इत्याह - पूरणप्रत्ययो यस्तीय इति। स्वरार्थं वचनमिति। भागे नित्स्वरेणाद्यदातत्वं यथा स्यात्, रूपे तु नास्ति विशेषः। पूरणग्रहणमुतरार्थमिति। नेहार्थम्, कुतः? इत्यत आह - न हीति। ननु चायमस्ति -‘मुखपार्श्वतसोर्लोपः, भुखतीयः’ इति ? तत्राह - मुखतीयादिरनर्थक इति। मुखतीयादौ यस्तीयशब्दः सोऽनर्थक इत्यर्थ ॥

Nyaas

पूरणप्रत्ययो यस्तीयः इति। तस्य पूरणे डट् (5.2.48) इति पूरणाधिकारे विहितत्वात्, पूरणाभिधेयत्वाद्वा। उपचारेम प्रत्योऽपि तीयः पूरण इत्युच्ये। भागे इति। अंश इत्यर्थः। किमर्थं पुनरिदम्, यावता कृतेऽप्यनि रूपं तदेव? इत्याह - स्वरार्थं वचनम्िति। विभागे नित्स्वरेणाद्युदात्तं यथा स्यात्। `पूरणग्रहणमुत्तरार्थम् इति। उत्तरत्र पूरणप्रत्ययान्तात्प्रत्ययो यथा स्यात्। तस्य च व्यवच्छेदाय क्रियमाणं पूरणमिहाप्यर्थवत्? स्यात्, स च नास्तीति नेहार्थता तस्योपपद्यते। ननु च मुखपार्(ातसेरीयः, (वा। 460) पार्(ातीयः इत्यपूरणोऽपि सोऽस्ति? इत्यत आह - मुखतीयादिरनर्थकः इति। अर्थवद्ग्रहणपरिभाषया (व्या।प। 1) अर्थवानिह तीयो गृह्रते, न च मुखतीयादिरनर्थवान्। अतः सत्यपि पूरणग्रहणे तस्य ग्रहणंन भविष्यतीति भावः॥

Prakriyasarvasvam

तीयान्तात्पूरणशब्दाद् भागे वाच्येऽन् स्यात् । स्वरभेदायान्विधिः । द्वितीयो भागः, तृतीयः ॥