53053: भूतपूर्वे चरट्

Padacheda: भूतपूर्वे | S | 7 | 1 |

चरट् | S | 1 | 1 |

Sutrartha

‘भूतपूर्व’ इत्यस्य विशेष्यरूपेण प्रयुक्तात् प्रातिपदिकात् स्वार्थे चरट्-प्रत्ययः भवति ।

‘भूतपूर्वः’ इत्युक्ते ‘पूर्वम् भूतः (used to exist before)’ । ‘भूतपूर्वः’ इत्यस्य विशेष्यरूपेण यत् प्रातिपदिकम् प्रयुज्यते, तस्मात् स्वार्थे ‘चरट्’ प्रत्ययः भवति । ‘चरट्’ इत्यत्र टकारस्य इत्संज्ञा भवति, अतः प्रयोगे ‘चर’ इति प्रयुज्यते । यथा - भूतपूर्वः आढ्यः (One who used to be rich earlier) = आढ्य + चरट् → आढ्यचरः । भूतपूर्वः सुकुमारः = सुकुमारचरः । स्त्रीत्वे टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्यये कृते ‘आढ्यचरी’, ‘सुकुमारचरी’ एतादृशाः शब्दाः सिद्ध्यन्ति । ज्ञातव्यम् - स्त्रीवाचिनः प्रातिपदिकात् चरट्-प्रत्यये विहिते तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यनेन पुंवद्भावः विधीयते । यथा - भूतपूर्वा आढ्या सा = आढ्या + चर → आढ्य + चर [पुंवद्भावः] → आढ्यचर → आढ्यचर + ङीप् [स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्ययः] → आढ्यचर् + ई [यस्येति च (6.4.148) इति अकारलोपः] → आढ्यचरी विशेषः - ‘चरट्’ प्रत्ययस्य आदिस्थस्य चकारस्य चुटू (1.3.7) इत्यनेन इत्संज्ञा न भवति, यतः अत्र इत्संज्ञायाः किमपि प्रयोजनम् न विद्यते ।

Vasu English Summary

The affix चर (with the feminine in ङीप्) comes after a प्रातिपदिक (Nominal Stem), the word retaining its detonation when the meaning is ‘this had been before’.

Vasu English Translation

The affix चर (with the feminine in ङीप्) comes after a प्रातिपदिक (Nominal Stem), the word retaining its detonation when the meaning is ‘this had been before’. The word भूतपूर्व is a compound of पूर्व and भूतः the compounding being by सुप्सुपा, and denotes something done in a past time. Thus आढ्यो भतपूर्वः = आढ्यचरः ‘once opulent’. सुकुमारचरः ॥ The ट् indicates that the feminine will be in ङीप्; as, आढ्यचरी ॥ The च् is not इत् in चरट् though required by (1.3. 7). This proves that चुटु rule is anitya. The sutra (5.2.18) might have been read after this, with the saving of the word भूतपूर्वः, but then खञ् would have debarred चरट् which is, however, not intended.

Kashika

पूर्वं भूत इति विगृह्य सुप्सुपेति समासः। भूतपूर्वशब्दोऽतिक्रान्तकालवचनः। प्रकृतिविशेषणं चैतत्। भूतपूर्वत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे चरट् प्रत्ययो भवति। आढ्यो भूतपूर्व आढ्यचरः। सुकुमारचरः। टकारो ङीबर्थः। आढ्यचरी॥

Siddhanta Kaumudi

आढ्यो भूतपूर्वः । आढ्यचरः ॥

Balamanorama

भूतपूर्वे चरट् - भूतपूर्वे चरट् । भूतपूर्वे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट् स्यादित्यर्थः ।

Tattvabodhini

भूतपूर्वे चरट् - भूतपूर्वे । अत्र वर्तमानाच्चरट् स्यात् ।गोष्ठात् खञि॑त्यत्रैव नोक्तं, विशेषविहितेन खञा चरटो बाधा मा भूदिति । संनिधौ हि सामान्यविशेषभावः स्फुटीभवति । यद्यपि दूरस्थस्यापि बाधो न्याय्य एव, तथापीह गौरवं स्वीकृत्य दूरे पाठसामर्थ्याद्बाधो नेति भावः ।

Padamanjari

भूतपूर्वशब्द इत्यादि। केवलभूतशब्दः’पौतन्ये’ पि वर्ततेभूतमियं ब्राह्मणीति, सत्येऽपि वर्तते - भूतवादीति, अत्र भूतशब्दो विद्यमानवचनित्यन्ये; पूर्वशब्दश्च दिग्देशयोरपि वर्तते, तस्मादन्यतरोपादाने विवक्षितोऽर्थो न गम्यत इत्युभयोरुपादानम्। आढ।ल्चर इति। यथात्र चकारस्येत्संज्ञा न भवति, तथा’चुटूअ’ इत्यत्र प्रतिपादितम्।’गोष्ठात्खञ्’ इत्यत्रैव नोक्तम्, विशेषविहितेन खञा चरटो बाधा मा भूदिति। सन्निधौ हि बाध्यबाधकभावः, न कालभेदे ॥

Nyaas

किमर्थं पुनरेतौ समानार्थो शब्दावुपदिश्येते, नान्यतर एवोपदिश्येत? नैवं शक्यम्; इह ह्रतिक्रान्तकालविशिष्टेऽर्थे वर्तमानात्? प्रत्यग्रहमिष्यते, स चातिक्रान्तः कालोऽन्यतरोक्तौ नैव गृह्रते। तथा हि - भूतशब्दो वर्तमानेऽप्यर्थे वर्तते, यथा - भूतवानिति, पूर्वशब्दस्तु दिग्देशयोरपि। तस्मादन्यतरोक्तावतिक्रान्तकालो न प्रतीयते। अत एवाऽऽह - भूतपूर्वशब्दोऽतिक्रान्तकालवचनः इति। अथ चकारस्य चुट् (1.3.7) इतीत्संज्ञा कस्मान्न भवति? अनित्यत्वात्तस्य विधेः। अनित्यत्वं तु तत्रैव प्रतिपादितम्॥

Prakriyasarvasvam

प्राक् सुन्दरः सुन्दरचरः । टित्वात्सुन्दरचरी । ‘तसिलादिष्वि’ति सुन्दर्याः पुंवत्त्वम् ।।