Sutras 121 - 136¶
- 51121: न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः
- 51122: पृथ्वादिभ्य इमनिज्वा
- 51123: वर्णदृढादिभ्यः ष्यञ् च
- 51124: गुणवचनब्राह्मणादिभ्यः कर्मणि च
- 51125: स्तेनाद्यन्नलोपश्च
- 51126: सख्युर्यः
- 51127: कपिज्ञात्योर्ढक्
- 51128: पत्यन्तपुरोहितादिभ्यो यक्
- 51129: प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्
- 51130: हायनान्तयुवादिभ्योऽण्
- 51131: इगन्ताच्च लघुपूर्वात्
- 51132: योपधाद्गुरूपोत्तमाद्वुञ्
- 51133: द्वन्द्वमनोज्ञादिभ्यश्च
- 51134: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु
- 51135: होत्राभ्यश्छः
- 51136: ब्रह्मणस्त्वः