51123: वर्णदृढादिभ्यः ष्यञ् च¶
Padacheda: वर्णदृढादिभ्यः | S | 5 | 3 |
ष्यञ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
‘भावः’ अस्मिन् अर्थे षष्ठीसमर्थेभ्यः वर्णवाचिभ्यः शब्देभ्यः दृढादिगणस्य च शब्देभ्यः इमनिच् तथा ष्यञ् प्रत्ययौ भवतः ।
तस्य भावस्त्वतलौ (5.1.119) अनेन सूत्रेण ‘भावः’ अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः ‘त्व’ तथा ‘तल्’ प्रत्ययौ विधीयेते । अस्मिन्नेव अर्थे वर्तमानसूत्रेण वर्णवाचिभ्यः शब्देभ्यः, दृढादिगणस्य च शब्देभ्यः ष्यञ् तथा इमनिच् प्रत्ययौ अपि भवतः । ष्यञ्-प्रत्यये षकारञकारयोः इत्संज्ञा भवति, अतः ‘य’ इति प्रक्रियायाम् प्रयुज्यते । इमनिच्-प्रत्यये नकारोत्तरः इकारः उच्चारणार्थः अस्ति, चकारः च इत्संज्ञकः अस्ति, अतः ‘इमन्’ इति प्रक्रियायाम् प्रयुज्यते । उदाहरणानि क्रमेण पश्यामः - [अ] वर्णवाचिनः शब्दाः ये शब्दाः वर्णस्य (color) निर्देशं कुर्वन्ति (यथा - शुक्ल, हरित, पीत, कृष्ण - आदयः ) ते शब्दाः ‘वर्णवाचिनः’ सन्ति इत्युच्यते । एतेभ्यः ‘भावः’ अस्मिन् अर्थे ‘ष्यञ्’ तथा ‘इमनिच्’ प्रत्ययौ भवतः । यथा - 1. शुक्लस्य भावः = शुक्ल + ष्यञ् → शुक्ल + य [इत्संज्ञालोपः] → शौक्ल + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → शौक्ल् + य [यस्येति च (6.4.148) इति अकारलोपः] → शौक्ल्य पक्षे - शुक्लस्य भावः = शुक्ल + इमनिच् → शुक्ल + इमन् [इत्संज्ञालोपः] → शुक्ल् + इमन् [टेः (6.4.155) इति इमनिच्-प्रत्यये परे टिलोपः] → शुक्लिमन् । अस्य रूपाणि शुक्लिमा, शुक्लिमानौ, शुक्लिमानः - एतादृशम् भवन्ति । एवमेव - 1. कृष्णस्य भावः कार्ष्ण्यम् कृष्णिमा वा । 2. पीतस्य भावः पैत्यम् पीतिमा वा । 3. हरितस्य भावः हारित्यम् हरितिमा वा । [आ] - दृढादिगणस्य शब्दाः - दृढादिगणस्य शब्देभ्यः अपि ‘भावः’ अस्मिन् अर्थे ष्यञ् तथा इमनिच् प्रत्ययौ भवतः । दृढादिगणः अयम् - दृढ, परिवृढ, भृश, कृश, चक्र, आम्र, लवण, ताम्र, अम्ल, शीत, उष्ण, जड, बधिर, पण्डित, मधुर, मूर्ख, मूक, बाल, तरुण, मन्द, स्थिर, बहुल, दीर्घ, मूढ, आकृष्ट, वेर्यातलाभमतिमनःशारदानाम् (गणसूत्रम्), समो मतिमनसोः (गणसूत्रम्) । उदाहरणानि - 1. दृढस्य भावः = दृढ + ष्यञ् → दृढ + य [इत्संज्ञालोपः] → दार्ढ + य [तद्धितेष्वचामादेः (7.2.117) इति आदिवद्धिः] → दार्ढ् + य यस्येति च (6.4.148) इति अकारलोपः] → दार्ढ्य पक्षे - दृढस्य भावः → दृढ + इमनिच् → दृढ + इमन् [इत्संज्ञालोपः] → द्रढ + इमन् [र ऋतो हलादेर्लघोः (6.4.161) इति ऋकारस्य ‘र’ इत्यादेशः] → द्रढ् + इमन् [टेः (6.4.155) इति टिलोपः] → द्रढिमन् अस्य रूपाणि ‘द्रढिमा द्रढिमानौ द्रढिमानः’ एतादृशं भवन्ति । एवमेव ‘परिवृढ’, ‘भृश’, ‘कृश’ - एतेषां विषये अपि र ऋतो हलादेर्लघोः (6.4.161) इत्यनेन ऋकारस्य ‘र’ इत्यादेशः भवति - 2. परिवृढस्य भावः पारिवृढ्यम् परिव्रढिमा वा । 3. भृशस्य भावः भार्श्यम् भ्रशिमा वा । 4. कृशस्य भावः कार्श्यम् क्रशिमा वा । अन्येषाम् शब्दानां विषये टेः (6.4.155) इति टिलोपः भवति - 5. चक्रस्य भावः चाक्र्यम् चक्रिमा वा । 6. लवणस्य भावः लावण्यम् लवणिमा वा । 7. अम्लस्य भावः आम्ल्यमम्लिमा वा । 8. शीतस्य भावः शैत्यम् शीतिमा वा । 9. उष्णस्य भावः औष्ण्यमुष्णिमा वा । 10. जडस्य भावः जाड्यम् जडिमा वा । 11. पण्डितस्य भावः पाण्डित्यम् पण्डितिमा वा । 12. मधुरस्य भावः माधुर्यम् मधुरिमा वा । 13. बालस्य भावः बाल्यम् बालिमा वा । 14. तरुणस्य भावः तारुण्यम् तरुणिमा वा । 15. स्थिरस्य भावः स्थैर्यम् स्थिरिमा वा । 16. आकृष्टस्य भावः आकृष्ट्यमाकृष्टिमा वा । ‘दीर्घ’शब्दः पृथ्वादिगणे विद्यति, दृढादिगणे चापि स्वीक्रियते । तस्यात् इमनिच्-प्रत्यये प्राप्ते ‘द्राघिमन्’ इति प्रातिपदिकं सिद्ध्यति - 17. दीर्घस्य भावः = दीर्घ + इमनिच् → द्राघ् + इमन् [प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः (6.4.157) इरि ‘द्राघ्’ आदेशः] → द्राघिमन् प्रथमायाः रूपाणि - द्राघिमा द्राघिमाणौ द्राघिमाणः । अस्मिन् गणे द्वे गणसूत्रे अपि पाठ्येते - 1. वेः यात-लाभ-मति-मनः-शारदानाम् - ‘वियात’, ‘विलाभ’, ‘विमति’, ‘विमन’, ‘विशारद’ एते शब्दाः अपि अस्मिन् गणे स्वीक्रियन्ते । यथा - अ) वियातस्य भावः वैयात्यम् वियातिमा वा । आ) विलाभस्य भावः वैलाभ्यम् विलाभिमा वा । इ) विमतेः भावः वैमत्यम् विमतिमा वा । ई) विमनस्य भावः वैमनम् विमनिमा वा । उ) विशारदस्य भावः वैशारद्यम् विशारदिमा वा । 2. समो मति-मनसोः - ‘संमति’ तथा ‘संमनस्’ एतौ शब्दौ अपि अस्मिन् गणे स्वीक्रियेते । यथा - अ) संमतेः भावः सांमत्यम् संमतिमा वा । आ) संमनसः भावः सांमनस्यम् संमनिमा वा । ज्ञातव्यम् - 1. अस्मिन् सूत्रे निर्दिष्टेभ्यः सर्वेभ्यः शब्देभ्यः आ च त्वात् (5.1.120) इत्यनेन त्व-तल्-प्रत्ययौ अपि भवतः । तथा - अ) शुक्लस्य भावः शुक्लत्वम् शुक्लता वा । आ) कृष्णस्य भावः कृष्णत्वम् कृष्णता वा । इ) दृढस्य भावः दृढत्वम् दृढता वा । ई) पण्डितस्य भावः पण्डितत्वम् पण्डितता वा । उ) वियातस्य भावः वियातत्वम् वियातता वा । ऊ) संमतेः भावः संमतित्वम् संमतत्वा वा । आदयः । 2. ष्यञ्-प्रत्यये प्रयुक्तः षकारः स्त्रीप्रत्ययनिर्देशार्थमस्ति । ष्यञ्-प्रत्ययान्तशब्दाः षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन स्त्रीत्वे विवक्षिते ‘ङीष्’ प्रत्ययं स्वीकुर्वन्ति । यथा - शुल्कस्य भावः स्त्री शौक्ली, दृढस्य भावः स्त्री दार्ढी - आदयः । उभयत्र हलस्तद्धितस्य (6.4.150) इति यकारलोपं कृत्वा रूपं सिद्ध्यति । विशेषः - काशिकाकारः वदति - ‘ षकारो ङीषर्थः - औचिती, याथाकामी’ । अत्र काशिकाकारेण ‘उचित’ तथा ‘यथाकाम’ एताभ्याम् शब्दाभ्याम् ‘भावः’ अस्मिन् अर्थे ष्यञ्-प्रत्ययः कृतः अस्ति । वस्तुतः एतौ द्वौ शब्दौ वर्णवाचकौ न स्तः ; दृढादिगणे अपि च न समाविश्येते । अतः एतयोः उदाहरणमत्र न दातव्यम् । परन्तु काशिकाकारः कौमुदीकारः च द्वावपि एतौ शब्दौ अत्र पाठयतः । एतयोः सिद्धिः एतादृशी वर्तते - [अ] ‘उचित’ अयम् शब्दः गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यत्र निर्दिष्टे ब्राह्मणादिगणे आकृतिगणत्वात् स्वीक्रियते, अतः तस्मात् गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यनेन सूत्रेण ष्यञ्-प्रत्ययः भवति, तस्य च स्त्रीत्वे ङीष्-प्रत्ययः विधीयते - उचित + ष्यञ् + ङीष् → उचित + य + ई [इत्संज्ञालोपः] → औचित + य + ई [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → औचित् + य + ई [यस्येति च (6.4.148) इति अकारलोपः] → औचित् + य् + ई [यस्येति च (6.4.148) इति यकारात् परस्य अकारस्य लोपः] → औचित् + ई [हलस्तद्धितस्य (6.4.150) इति यकारलोपः] → औचिती [आ] ‘यथाकाम’ अयम् शब्दः अपि आकृतिगणत्वात् ब्राह्मणादिगणे स्वीक्रियते । अतः तस्मात् गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यनेन सूत्रेण ष्यञ्-प्रत्ययः भवति, तस्य च स्त्रीत्वे ङीष्-प्रत्ययः विधीयते - यथाकाम + ष्यञ् + ङीष् → यथाकाम + य + ई [इत्संज्ञालोपः] → याथाकाम + य + ई [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → याथाकाम् + य + ई [यस्येति च (6.4.148) इति अकारलोपः] → याथाकाम् + य् + ई [यस्येति च (6.4.148) इति यकारात् परस्य अकारस्य लोपः] → याथाकाम् + ई [हलस्तद्धितस्य (6.4.150) इति यकारलोपः] → याथाकामी 3. कौमुद्यामस्मिन् सूत्रे <!पृथुमृदुभृशकृशदृढपरिवृढानामेव रत्वम्!> इति किञ्चन वार्त्तिकम् पाठ्यते । वस्तुतः एतत् वार्त्तिकम् काशिकाकारेण र ऋतो हलादेर्लघोः (6.4.161) इत्यत्र पाठितमस्ति । अस्य वार्त्तिकस्य आशयः अयम् - र ऋतो हलादेर्लघोः (6.4.161) इत्यत्र ऋकारस्य निर्दिष्टः ‘र’ इत्यादेशः केवलम् ‘पृथु, मृदु, कृश, भृश, दृढ, परिदृढ’ एतेषां षण्णाम् विषये एव भवति, अन्येषाम् शब्दानां विषये न । 4. पाण्डित्यम्, लावण्यम्, शैत्यम्, माधुर्यम्, बाल्यम्, तारुण्यम्, स्थैर्यम् - एतादृशाः नेके प्रचलिताः शब्दाः अनेन सूत्रेण सिद्ध्यन्ति । 5. अस्य सूत्रस्य विषये न्यासकारः वदति - वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजर्थम् । यद्येवम्, ष्यञ्ग्रहणनर्थकम् ; इमनिजेव विधेयः, स च विभाषयैव प्रकृतः ? तदुच्यते; अवश्यम् ष्यञ्ग्रहणमुत्तरार्थ कर्तव्यम् - इति । अस्य आशयः अयम् - वर्णवाचिनः शब्दाः दृढादिगणस्य च सर्वे शब्दाः ‘गुणवाचिनः’ सन्ति, अतः गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) अनेन सूत्रेण तेभ्यः ष्यञ्-प्रत्ययः भवत्येव । अतः वर्तमानसूत्रस्य निर्माणम् केवलम् ‘इमनिच्’ प्रत्ययविधानार्थम् कृतमस्ति । वर्तमानसूत्रे निर्दिष्टः ष्यञ्-प्रत्ययः वस्तुतः उत्तरसूत्रार्थमस्ति’ - इति ।
Vasu English Summary¶
The affixes ष्यञ् and इमनिच् come in the sense of ‘nature thereof’ after a word denoting colour and after the words दृढ etc.
Vasu English Translation¶
The affixes ष्यञ् and इमनिच् come in the sense of ‘nature thereof’ after a word denoting colour and after the words दृढ etc. Thus शुक्लस्य भावः = शौक्ल्यम्, शुक्लिमन्, शुक्लत्व, शुक्लता, कार्ष्ण्यम्, कृष्णिमन्, कृष्णत्वम्, कृष्णता; दार्ढ्यम्, द्रढिमन् (nom. ०मा), दृढत्वम्, दृढता ॥
The ष् of ष्यञ् shows that the feminine is formed by ङीष् (3.1.41). As औचित्यः fem. औचिती (6.4.148) and (6.4.150).
1 दृढ, 2 वृढ, 3 परिवृढ, 4, भृश, 5 कृश, 6 वक्र (चक्र), 7 शुक्र, 8 चुक्र, 9 आम्र 10 कृष्ट, (आकृष्ट), 11 लवण, 12 ताम्र, 13 शीत, 14 उष्ण, 15 जड, 16 बधिर, 17 पण्डित 18 मधुर, 19 मूर्ख, 20 मूक, 21 वेर्यातलातमतिमनःशारदानाम् (लाभ is also read The affix shyan is added to compounds ending in yata &c preceded by vi, as, वियातत्वम्, वियायता, वियातिमा, वौयात्यं; विलाभत्वं, विलाभता, विलाभिमा, वौलाभ्यं, विमतित्वं, विमतिता, विमतिमा, वैमत्यं and वैमतं (5.1.131); विमनस्त्वं, विमनस्ता, विमनिमा, वैमनस्यं and विशारदत्वं, विशारदता, विशारदिमा, वैशारदम्) ॥ 22 समो, मतिमनसो, (The words mati and manas preceded by sam take shyan, as संमतित्वं, संमतिता, &c). 23 जवन. 24 अम्ल, 25 बाल, 26 तरुण, 27 मन्द, 28 स्थिर, 29 बहुल, 30 दीर्घ ॥
Kashika¶
वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढादिभ्यश्च ष्यञ् प्रत्ययो भवति, चकारादिमनिच् च, तस्य भाव इत्येतस्मिन् विषये। शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम् शुक्लता। कार्ष्ण्यम् कृष्णिमा, कृष्णत्वम्, कृष्णता। दृढादिभ्यः — दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता। षकारो ङीषर्थः। औचिती। याथाकामी॥ दृढ। परिवृढ। भृश। कृश। चक्र। आम्र। लवण। ताम्र। अम्ल। शीत। उष्ण। जड। बधिर। पण्डित। मधुर। मूर्ख। मूक। वेर्यातलाभमतिमनः शारदानाम् (ग०सू० ११४)। समो मतिमनसोः (ग०सू० ११५)। दृढादिः॥
Siddhanta Kaumudi¶
चादिमनिच् । शौक्ल्यम् । शुक्लिमा । दार्ढ्यम् ।<!पृथुमृदुभृशदृढपरिढानामेव रत्वम् !> (वार्तिकम्) ॥ द्रढिमा । षो ङीषर्थः । औचिती । याथाकामी ॥
Laghu Siddhanta Kaumudi¶
चादिमनिच्। शौक्ल्यम्। शुक्लिमा। दार्ढ्यम्। द्रढिमा॥
Balamanorama¶
वर्णदृढादिभ्यः ष्यञ् च - वर्णदृढादिभ्यः । षष्ठन्तेभ्यो वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञ्च स्यादित्यर्थः । गुणवचनत्वादेव ष्यञि सिद्धे इमनिच्समुच्चयार्थं वचनम् ।॒पृथु मृदुं भृशं चैव कृशं च दृढमेव च । परिपूर्वं वृढं चैव षडेतान्रविधौ स्मरेत् इति वार्तिकमर्थतः सङ्गृह्णाति — पृथुमृदुभृशेत्यादि । तेन कृतयतीत्यादाविष्ठवत्त्वेऽपि रभावो न । द्रढिमेति । दृढशब्दादिमनिचि ऋकारस्य रः । भ्रशिमा क्रशिमा द्रढिमा परिब्राढिमा । ननु वर्णदृढादीनां ष्यञन्तानां लोकतो नपुंसकत्वात्ष्यञः षित्त्वस्य किं प्रयोजनमित्यत आह — षो ङीषर्थ इति । औचितीति । उचितशब्दाद्ब्राआहृणादित्वात्ष्यञि लोकात्स्त्रीत्वम् । शित्त्वान्ङीषिहलस्तद्धितस्ये॑ति यलोपः । उचितस्तु न दृढादिः, तद्गणे अदर्शनात्, इनिच्प्रसङ्गाच्च । अस्यैव ष्यञ उत्तरसूत्रे अनुवृत्तेरिहैव तस्य षित्त्वप्रयोजनकथनमिति बोध्यम् । याथाकामीति । काममनतिक्रम्य यथाकामम् । ततः स्वार्थे चतुर्वर्णादित्वात्ष्यञि लोकात्स्त्रीत्वे षित्त्वान्ङीष् ।
Tattvabodhini¶
वर्णदृढादिभ्यः ष्यञ् च - वर्णदृढदिभ्यः । गुणवचनत्वादेव सिद्धे इमनिजर्थं वचनम् ।पृथुमृदुभृसे॑ति परिगणनादिह रभावो न भवति — — कृतमाचष्टे कृतयति । णाविष्ठवद्भावः । औचितीति । ब्राआहृणादेराकृतिगणत्वात् ष्यञ् ।हलसतद्धितस्ये॑ति यलोपः । एवं याथाकामी । दृढ, वृढ, परिवृढ । भृश, कृश, इत्यादि । अत्र द्वे गणसूत्रे -॒वेर्यातलाभमतिमनःशारदानाम् । विशब्दादुत्तरे ये यातादयः पञ्च तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्वर्थः । वियातत्वं । वियातता । वियातिमा । वैयात्यम् । विलाभिमा । वैलाब्यम् । विमतिमा । वैमत्यम् । इगन्तत्वादणपि — — वैमतम् । विमनिमा । वैमनस्यम् । विशारदिमा । वैशारद्यम् । त्वतलोः समावेशेन -विलाभत्वम् । बिलाभतेत्यादीन्यप्यूह्रानि ।समो मतिमनसोः॑ । समः परे ये मति मनसी तदन्तयोः समासयोरनन्तरः ष्यञ् भवतीत्यर्थः । संमतित्वम् । संमतिता । संमतिमा । सांमात्यम् । इगन्तत्वादणि -सांमतम् । संमनस्त्वम् । संमनस्ता । संमनिमा । सांमनस्यम् ।
Padamanjari¶
वर्णविशेषवाचिभ्य इति। स्वरूपग्रहणं तु न भवति। यदि स्याद्, दृढादिष्वेव वर्णशब्दं पठेत्। वर्णशब्दश्च रूपस्य वाचको न ब्राह्मणादीनाम्; दृढादिभिर्गुणवचनैः साहचर्यात्। अत एव साहचर्याद्वर्णग्रहणात्पर्यायाणां ग्रहणं न भवति। कथम् ? दृढाययो हि गुणोपसर्जने द्रव्ये वर्तन्ते, अतस्तत्साहचर्याद्वर्णशब्दा अपि तादृशा एव गृह्यन्ते। एवञ्च वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमनिजर्थम् । औचिती, याथाकामिति। ब्राह्मणाअदेराकृतिगणत्वात्ष्यञ्, ङीष्,’हलस्तद्धितस्य’ इति यलोपः। वेर्यातलाभमतिमनःशारदानामिति। विसब्दादुतरे ये यातादयस्तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्यर्थः। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्। विलाभत्वम्, विलाभवता, विलाभिमा, वैलाभ्यम्। विमतित्वम्, विमतिता, विमतिमा, वैमष्यम्; इगन्तत्वादणपि भवति, वैमतम्,। विमनस्त्वम्, विमनस्ता, विमनिमा, वैमनस्यम्। विशारदत्वम्, विशारदता, विशारदिमा, वैशारद्यम्, समो मतिमनसोरिति। सम उतरे ये मतिमनसी तयोः समासयोरनन्तरः ष्यञ् - संमतित्वम्, संमतिता, संमतिमा, साम्मत्यम्; पूर्ववदण्सांमतम्। संमनस्त्वम्, संमनस्ता, संमनिमा, सांमनस्यम् ॥
Nyaas¶
बहुवचनं प्रतेयकमभिसम्बध्यते - वर्णेभ्यो दृढादिभ्यश्चेति; तेन बहुवचननिर्देशाद्वर्णशब्देन वर्णवाचिनां ग्रहणमिति विज्ञायते, न स्वरूपग्रहणे तु वर्णशब्दमपि दृढादिषु एवाधीयीत। वर्णशब्दश्च गुणविशेषस्य वाचकः; न ब्राआहृणादीनाम्। कुतः? दृढादिभिर्गुणवचनैः साहचर्यात्। अत एवाह-दृढादिभिः साहचर्याद्रूपविशेषा एव शुक्लादयः प्रत्ययमुत्पादयन्ति, न तु स्वरूपशब्दाः, नापि तत्पर्यायाः। कथम्? दृढादयो हि गुणा उपसर्जनं द्रव्ये वर्तन्ते। तत्साहचर्याद्वर्णशब्दा अपि तत्सदृसा एव गृह्यन्ते। न वर्णश्बदस्य तत्पर्यायाणां वा तादृशी वृत्तिरस्ति; गुणमात्रवचनत्वात्। वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमिमनिजर्थम्। यद्येवम्, ष्यञ्ग्रहणनर्थकम्, इमनिजेव विधेयः, स च विभाषयैव प्रकृतः? तदुच्यते; अवस्यं ष्यञ्ग्रहणमुत्तरार्थ कर्तव्यम्। तत्र वा क्रियत इह वेति नास्ति विशेषः। शुक्लिमा इति। पूर्ववट्टिलोपः। द्रढिमा इति। पूर्वदृकारस्य रभावः। औचितो, यथाकामी इति। षिद्गौरादिभ्यश्च (4.1.41) इति ङीष्। हलस्तद्धितस्य (6.4.150) इति यलोपः। वेयतिलाभमतिमनःशारदानाम् इति पठते। तस्यायमर्थः - विशब्दादुत्तरेषां यातादीनां प्रत्ययाभवन्तीति। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्। विलाभता, विलाभत्वम्, वैलाभ्यम्, विलाभिमा। विमतित्वम्, विमतिता, वैमत्यम्, विमतिमा, इगन्तात् (5.1.130) इत्यण्, वैमतम्। विमनसत्वम्, विमनस्ता, विमनिमा, वैमनस्याम्। विशारदत्वम्, विशारदता, वैशारद्यम्, विशारदिमा। समो मतिमनसोः इति। सम उत्तरयोर्मतिमनसोः प्रत्ययो भवति। संमतिता, संमतित्वम्, संमतिमा, सांमत्यम्। संमनस्त्वम्। संमनस्ता, संमनिमा, सांमनस्यम्॥
Prakriyasarvasvam¶
वर्णवाचिभ्यो दृढादिभ्यश्च भावे ष्यञिमनिच्च स्यात् । शौक्ल्यं, शुक्लिमा । कार्ष्ण्यं, कृष्णिमा । ष्यञः षित्वकरणादीकारो बहुलमिति वामनः । तेन ङीष्, ‘हलः’ (६-४-१५४) इति यलोपः । शौक्लीत्यादि । बहुलोक्तब्राह्मण्यमित्यादौ न ङीष् । ‘आ च त्वात्’ (५-१-१२०) इत्युक्तेः शुक्लत्वं, शुक्लता । दृढपरिवृढ- कृशभृशाम्लचुक्रलवणमधुरशीतोष्णजडेभ्यः’ (स० ५-१-१३८) । दाढर्ढ्यं, रत्वं-द्रढिमा । पारिवृढ्यं, परिव्रढिमा । कार्श्यं क्रशिमा । आम्ल्यम्, अम्लिमा । चुक्रोऽम्लार्थः । चौक्र्यं, चुक्रिमा । लावण्यं, लवणिमा । माधुर्यं, मधुरिमा । शैत्यं, शीतिमा । औष्ण्यम्, उष्णिमा । जाड्यं, जाडिमा । ‘बालतरुणमन्दमूककमूलकाल- मूर्खपण्डितबधिरस्थिरबहुलदीर्घेभ्यश्च’ (स० ५-१-१३९) । बाल्यं, बालिमा । तारुण्यं, तरुणिमा । मान्द्यं, मन्दिमा । मौक्यं, मूकिमा । मौल्यं, सूलिमा । काल्यं, कालिमा । मौख्यं, मूर्खिमा । पाण्डित्यं, पण्डितिमा । बाधिर्यं बधिरिमा । स्थिरादीनां स्थैर्यं, बाहुल्यं, दैर्घ्यम् । इमनिचि ‘प्रस्थस्फ-’ (६-४-१५४) इति स्थबंहिद्राघादेशाः । स्थेमा बंहिमा द्राघिमा । ‘वेर्यातलातशारदेभ्यः’ (स० ५-१-१४०) । वैयात्यं, वियातिमा । विलातो बालः । वैलात्यं, विलातिमा । वैशारद्यं, विशारदिमा । ‘समश्च मतिमनोभ्याम्’ (स० ५-१-१४१) । चकाराद् वेश्व । साम्मत्यं, सम्मतिमा । वैमत्यं, विमतिमा । साम्मनस्यं वैमनस्यम् । टिलोपः । सम्मनिमा । विमनिमा । ‘विमतिसम्मत्योरणपि’ इति रामः । वैमतं साम्मतम् ॥
Sutra Prayogas¶
कृष्णि-मानं (भट्टिकाव्यम्): वर्णदृढादिभ्यश्च इति चकारादिमनिच्।