51130: हायनान्तयुवादिभ्योऽण्

Padacheda: हायनान्त-युवादिभ्यः | S | 5 | 3 |

अण् | S | 1 | 1 |

Sutrartha

‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः षष्ठीसमर्थेभ्यः हायनान्तशब्देभ्यः युवादिगणस्य च शब्देभ्यः अण् प्रत्ययः भवति ।

ये शब्दाः ‘हायनान्ताः’ सन्ति, तथा च ये शब्दाः युवादिगणे विद्यन्ते, तेभ्यः षष्ठीसमर्थेभ्यः ‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः औत्सर्गिकरूपेण त्व-तल्-प्रत्यययोः प्राप्तयोः पक्षे वर्मानसूत्रेण अण्-प्रत्ययः अपि भवति । क्रमेण पश्यामः - 1. हायनान्ताः शब्दाः - वर्षम् यावत् यस्य अवधिः अस्ति, नो चेत् प्रतिवर्षम् यः पुनः पुनः जायते, तस्य निर्देशः ‘हायन’ इत्यनेन क्रियते । Something that either lasts a year, or reappears every year is called हायन । ‘हायनान्ताः’ शब्दाः - यथा,द्विहायन (two year old) त्रियाहन (three year old) - आदयः वस्तुतः वयोवाचिनः सन्ति, अतः तेषाम् विषये प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5.1.129) इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अण्-प्रत्ययविधानम् कर्तुम् इदम् सूत्रमुच्यते । यथा - द्विहायनस्य भावः कर्म वा द्वैहायनम् । पञ्चहायनस्य भावः कर्म वा पाञ्चहायनम् - आदयः । 2. युवादिगणः अयम् -

युवन्, स्थविर, होतृ, यजमान, कमण्डलु, पुरुषासे (गणसूत्रम्), सुहृत्, यातृ, श्रवण, कुस्त्री, सुस्त्रि, सुहृदय, सुभ्रातृ, वृषल, दुर्भ्रातृ, हृदयासे (गणसूत्रम्), क्षेत्रज्ञ, कृतक, परिव्राजक, कुशल, चपल, निपुण, पिशुन, सब्रह्मचारिन्, कुतूहल, अनृशंस ।

यथा - अ) यूनः भावः कर्म वा = युवन् + अण् → यौवन् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः । नस्तद्धिते (6.4.144) इति टिलोपे प्राप्ते; तथा च अल्लोपोऽनः (6.4.134) इति उपधा-अकारस्य लोपे प्राप्ते अन् (6.4.167) इति प्रकृतिभावः।] → यौवन 2) स्थविरस्य भावः कर्म वा स्थाविरम् । 3) होतुः भावः कर्म वा हौत्रम् । 4) कुशलस्य भावः कर्म वा कौशलम् । 5) निपुणस्य भावः कर्म वा नैपुणम् । 6) कुतूहलस्य भावः कर्म वा कौतुहलम् । 7) सुहृदः भावः सौहार्दम् । अत्र हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (7.3.19) इति उभयपदवृद्धिः भवति । अस्मिन् गणे द्वे गणसूत्रे स्थापिते स्थः - 1. ‘पुरुष-असे’ - ‘पुरुष’ शब्दः समासं विना आगच्छति चेत् अस्मिन् गणे समाविश्यते । अत्र ‘स’ शब्दः ‘समास’ अस्मिन् अर्थे प्रयुक्तः अस्ति । अतः ‘अ-से’ इत्युक्ते अ-समासे । यथा - पुरुषस्य भावः कर्म वा पौरूषम् । समासे विद्यमानस्य पुरुष-शब्दस्य विषये तु औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवतः । महापुरुषस्य भावः कर्म वा महापुरुषत्वम् / महापुरुषता । 2. ‘हृदय-असे’ - ‘हृदय’ शब्दः समासं विना आगच्छति चेत् अस्मिन् गणे समाविश्यते । यथा - हृदयस्य भावः कर्म वा हार्दम् । प्रक्रिया इयम् - हृदय + अण् → हृद् + अण् [हृदयस्य हृल्लेखयदण्लासेषु (6.3.50) इति हृद्-आदेशः] → हार्द् + अण् [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → हार्द परन्तु समासे विद्यमानस्य पुरुष-शब्दस्य विषये तु औत्सर्गिकौ त्व-तल्-प्रत्ययौ एव भवः । परमहृदयस्य भावः कर्म वा परमहृदयत्वम्/परमहृदयता । स्मर्तव्यम् - ‘सहार्दम्’ अयम् शब्दः ‘हार्देन सह’ इति निर्मितः अस्ति । ‘सहृदयस्य भावः’ अस्मिन् अर्थे तु सहृदयत्वम् / सहृदयता - एतौ एव शब्दौ भवतः । विशेषः - अत्र द्वयोः अपि गणसूत्रयोः ‘असे (= असमासे)’ इति उक्तमस्ति । किम् तस्य प्रयोजनम् ? वस्तुतः प्रत्ययविधौ तदन्तविधिः न इष्यते; अतः युवादिगणे केवलम् ‘पुरुष’ उत ‘हृदय’ इति उच्यते चेदपि स एव अर्थः जायते यः ‘असे’ इत्यनेन निर्दिष्टः अस्ति । इत्युक्ते, अत्र ‘असे’ इत्यस्य आवश्यकता एव न । अतएव अस्मिन् विषये पदमञ्जरीकारः वदति - ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधः चिन्त्यप्रयोजनः । न्यासकारस्य मतम् तु अस्मिन् विषये किञ्चित् भिद्यते; तत् अधिकम् ज्ञातुम् जिज्ञासवः न्यासमेव पश्यन्तु । युवादिगणस्य विषये द्वौ बिन्दू स्मर्तव्यौ - 1. ‘युवन्’ तथा ‘स्थविर’ (old) एतौ शब्दौ वयोवाचिनौ स्तः । अतः एतेभ्यः प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5.1.129) इत्यनेन अञ्-प्रत्यये प्राप्ते तं बाधित्वा अण्-प्रत्ययः विधीयते । 2. ‘कुशल’, ‘चपल’, ‘निपुण’ , ‘पिशुन’, ‘अनृशंस’ - एते सर्वे शब्दाः गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यत्र निर्दिष्टे ब्राह्मणादिगणे अपि सन्ति, अतः तेभ्यः गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यनेन ष्यञ्-प्रत्ययः अपि विधीयते । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!श्रोत्रियस्य यलोपश्च!> । इत्युक्ते, ‘श्रोत्रिय’ शब्दात् अपि ‘भाव’ तथा ‘कर्म’ एतयोः अर्थयोः अण् प्रत्ययः भवति, तथा च श्रोत्रियशब्दस्य यकारस्य लोपः भवति । यथा - श्रोत्रियस्य भावः कर्म वा = श्रोत्रिय + अण् → श्रोत्रि + अ [‘य’ इत्यस्य लोपः] → श्रौत्रि + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → श्रौत्र् + अ [यस्येति च (6.4.148) इति अन्तिम-इकार-लोपः] → श्रौत्र विशेषः - पदमञ्जरीकारस्य मतेन एतत् वार्त्तिकम् <!श्रोत्रियस्य घलोपश्च!> इति अस्ति । इत्युक्ते, ‘श्रोत्रिय’ शब्दात् अण्-प्रत्यये कृते अस्मिन् शब्दे विद्यमानः घ-प्रत्ययः (= ‘इय’ इति दृश्यरूपम्) लुप्यते । रूपम् तु अत्रापि समानमेव भवति । यथा - श्रोत्रिय + अण् → श्रोत्र् + अण् [‘घ’ (= इय) इत्यस्य लोपः] → श्रौत्र् + अ [यस्येति च (6.4.148) इति अकारलोपः] → श्रौत्र स्मर्तव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः भावकर्मार्थयोः औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः । यथा - द्विहायनस्य भावः कर्म वा द्विहायनत्वम् / द्विहायनता । यूनः भावः कर्म वा युवत्वम् / युवता ।

Vasu English Summary

The affix अण् comes in the sense of ‘nature or action thereof’ after compounds ending in हायन and after युवन etc.

Vasu English Translation

The affix अण् comes in the sense of ‘nature or action thereof’ after compounds ending in हायन and after युवन etc. Thus द्विहायनस्य भावः कर्म वा = द्वैहायनम्, त्रैहायनम्; यौवनम्, स्थाविरम् ॥

Vart:- The य of श्रोत्रिय is elided, as श्रोत्रियस्य भावः कर्म वा = श्रौत्रम् ॥

1 युवन्, 2 स्थविर, 3 होतृ, 4 यजमान, 5 पुरुषासे (पुरुष असमासे), 6 भ्रातृ (भानृ), 7 कुतुक (कतक), 8 श्रमण (श्रणम), 9 कटुक, 10 कमण्डलु, 11 कुस्त्री, 12 सुस्त्री, 13 दुःस्त्री, 14 सुहृदय 15 दुर्हृदय, 16 सुहृद्, 17 दुर्हृद्, 18 सुभ्रातृ, 19 दुर्भ्रातृ, 20 वृषल, 21 परिव्राजक, 22 सब्रह्मचारिन्, 23 अनृशंस, 24 हृदयासे (हृदय असमासे), 25 कुशल, 26 चपल, 27 निपुण, 28 पिशुन, 29 कुतूहल, 30 क्षेत्रज्ञ, 31 श्रोत्रियस्य यलोपश्च, 32 यातृ, 33 कृतक, 34 कुचुक, 35 कन्दुक, 36 मिथुन, 37 कुलली, 38 मण्डण, 39 कितव, 40 पोत. ॥

Bhashya

हायनान्तयुवादिभ्योऽण् (2012) (अणोऽधिकरणम्) (5698 उपसंख्यानवार्तिकम्॥ 1 ॥) - अण्प्रकरणे श्रोत्रियस्य घलोपश्च - (भाष्यम्) अण्प्रकरणे श्रोत्रियस्योपसंख्यानं कर्तव्यम्, घलोपश्च वक्तव्यः। श्रोत्रियस्य भावः श्रौत्रम्॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये पञ्ञ्चमस्याध्यायस्य प्रथमे पादे द्वितीयमाह्निकम्॥ ॥ पादश्च समाप्तः ॥

Kashika

हायनान्तेभ्यः प्रातिपदिकेभ्यो युवादिभ्यश्चाण् प्रत्ययो भवति भावकर्मणोरर्थयोः। द्विहायनस्य भावः कर्म वा द्वैहायनम्। त्रैहायनम्। युवादिभ्यः — यौवनम्। स्थाविरम्॥ श्रोत्रियस्य यलोपश्च वाच्यः॥ श्रोत्रियस्य भावः कर्म वा श्रौत्रम्॥ युवन्। स्थविर। होतृ। यजमान। कमण्डलु। पुरुषासे (ग०सू० १२१) सुहृत्। यातृ। श्रवण। कुस्त्री। सुस्त्री। सुहृदय। सुभ्रातृ। वृषल। दुर्भ्रातृ। हृदयासे (ग०सू० १२२)। क्षेत्रज्ञ। कृतक। परिव्राजक। कुशल। चपल। निपुण। पिशुन। सब्रह्मचारिन्। कुतूहल। अनृशंस। युवादिः॥

Siddhanta Kaumudi

द्वैहायनम् । त्रैहायनम् । यौवनम् । स्थाविरम् ।<!श्रोत्रियस्य यलोपश्च !> (वार्तिकम्) ॥ श्रौत्रम् । कुशलचपलनिपुणपिशुनकुतूहलक्षेत्रज्ञा युवादिषु ब्राह्मणादिषु च पठ्यन्ते । कौशल्यम् । कौशलमित्यादि ॥

Balamanorama

हायनान्तयुवादिभ्योऽण् - हायनान्त । हायनान्तेभ्यो युवादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोरण्स्यादित्यर्थः । द्वैहायनमिति । द्विहायनस्य भावः कर्म वेति विग्रहः । वयोवचनलक्षणस्य अञो ।ञपवादः । एवं — त्रैहायनमपि । यौवनमिति ।अ॑निति प्रकृतिभावान्न टिलोपः । श्रत्रियस्येति । वार्तिकमिदम् । श्रोत्रियशब्दात्षष्ठन्ताद्भावकर्मणोरण्, प्रकृतेर्यलोपश्चेत्यर्थः । येति सङ्घातग्रहणम् । श्रोत्रमिति । छन्दोऽधीते इत्यर्थे छन्दस्शब्दाद्धप्रत्यये तस्य इयादेशे प्रकृतेः श्रोत्र इत्यादेशेयस्येति चे॑त्यल्लोपे श्रोत्रियशब्दः । श्रोत्रियस्य भावः कर्म वेत्यर्थे श्रोत्रियशब्दादणि यकाराऽकारसङ्घातस्य लोपे रेफादिकारस्ययस्येति चे॑ति लोपे श्रोत्रमिति रूपम् । यकारादकारस्ययस्येति चे॑ति लोपे सति यकारमात्रस्यानेन लोपे तु रेफादिकारस्य यण्स्यात् । नच तस्ययस्येति चे॑ति लोपः शङ्क्यः,लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रिति न्यायात् । अकारलोपस्य स्थानित्वेन इकारान्तस्य भत्वाऽभावाच्च ।श्रोत्रियस्य घलोपश्चे॑त्येके पठन्ति ।

Tattvabodhini

हायनान्तयुवादिभ्योऽण् - हायनान्त । अस्मात्त्वतलोः प्राप्तयोरण्विधानम् । युवस्थविरशब्दाभ्यां वयोवचनलक्षणे अञि प्राप्ते । योवनमिति । अणि परतःअन्इति प्रकृतिभावः । मनोज्ञादिपाठाद्वञपि । यौवनकम् ।प्रकृत्याऽके राजन्यमनुष्ययुवानः॑इति प्रकृति भावः ।श्रोत्रियस्य यलोपश्च । श्रोत्रियस्येति ।श्रोत्रियंश्छन्दोऽधीते॑इत्यत्र छान्दसः श्रोत्रभावः, घंश्च प्रत्यय इति यदा व्याख्यानं तदेहघलोपः॑इति यथाश्रुतम् । यदा तुवाक्यार्थे पदवचन॑मिति पक्षस्तदा घशब्देन इय इति रूपं लक्ष्यते । क्वचित्तुयलोपश्चे॑ति पाठः, तत्र येति संघातग्रहणं व्याख्येयम् । वर्णग्रहणे त्विकारस्य यणादेशः स्यान्न तुयस्येति चे॑ति लोपः , अकारलोपस्य स्थानिवत्त्वेन इकारान्तस्य भत्वाऽबावात् । एतच्च हरदत्तग्रन्थे स्पष्टम् । मूलपुस्तकेषुयलोपः॑इति मुख्यपाठ एव प्रायेण दृश्यते, न तुघलोप॑इति पाठः ।

Nyaas

हायनान्तात्? त्वतलोः प्राप्तयोरण्विधानम्। ननु च तस्येदम् (4.3.120) इत्यनेन हायनान्तादण सिद्धः? न सिध्यति; परत्वात्? त्वतल्भ्यां बाध्यते - आषाढहायणस्य भावः कर्म वा आषाढहायण इति वृद्धाच्छः (4.2.114) प्रसज्येत। तस्माद्युक्तं हायनान्तादण्विधानम्। यौवनम् इति। अन् (6.4.167) इति प्रकृतिभावः। युवादिषु युवशब्दस्य वयोलक्षणं बधित्वा मनोज्ञादित्वाद्वुञि प्राप्ते पाठः। स्थविरशब्दस्य वयोलक्षणेऽञि होतृशब्दस्याप्युद्गात्रादित्वादञेव। पुरुषासे इति। पुरुषशब्दादसमासेऽण्। भवति - पौरुषम्। अस इति किम्? राजपुरुषत्वम्। अस्य प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5.1.129) इत्यप्राप्ते पाठः। कमणाडलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतलोर्बाधनार्थः पाठः। ह्मदयासे इति। ह्मदयशब्दादसमासेऽण्? भवति। हाद्र्दम्, हृदयस्य हृल्लेखयदण्लासेषु (6.3.50) इति ह्मद्भावः। अस इति किम्? ह्मदयशब्दादसमासेऽण्? भवति। हाद्र्दम्,**हृदयस्य हृल्लेखयदण्लासेषु** (6.3.50) इति ह्मद्भावः। अस इति किम्? परमह्मदयत्वम्। कुशलादीनां क्षेत्रज्ञपर्यन्तानां ब्राआहृणादित्वात्? ष्यञि प्राप्ते पाठः, शेषाणां तु त्वतलोः। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्? समासादण्प्राप्तिरेव नास्ति, तदपर्थकः पुरुषासे, ह्मदयासे इति च प्रतिषेधः? नापार्थकः, एषा हि विषयसप्तमी - समासे चिकीर्षिते विषयभूत एव पुरुषशब्दह्मदयशब्दाविति। यदि प्रतिषेधो नोच्येत, ततो नञ्समासस्य भावप्रत्ययस्य चाणो युगपत्प्रसङ्गे परत्वादणेव स्यात्। प्रतिषेधात्तु समास एव तावद्भवति। ततो यस्य भावप्रत्ययस्य निमित्तमस्ति स उत्पद्यते। कश्चासौ? त्वतलौ - अपुरुषत्वम्, अपुरुषता; अह्मदयत्वम्, अह्मदयता। इह हायनान्त एकरशिः, युवादिद्र्व#इतीयः; अर्थावपि द्वावेव - भावकर्मणी, तेन सामर्थ्याद्यथासंख्यं प्राप्नोति; तदल्पाच्तरस्य युवादिशब्दस्य परनिपातलक्षव्यभिचारचिह्नान्न भवति। अस्वरितत्वाद्वा॥

Prakriyasarvasvam

द्विहायनत्वं द्वैहायनम् । ‘युवस्थविरभ्रातृयजमानमिथुनपिशुननिपुणकुशल- चपलकुलीनानृशंसेभ्यः’ । (स० ५-१-१६७) यौवनम् । स्थाविरम् । भ्रात्रम् । कौलीनम् । आनृशंसम् । सहः श्रवणकुतुककुतूहलवृषलकन्दुककमण्डलुकितवपोतु- क्षेत्रज्ञपरिव्राजकसत्रह्मचारिभ्यश्च’ (स० ४-१-१३८) । सहसः कर्म साहसम् । श्रावणम् । कौतुकम् । कौतूहलम् । वार्षलम् । कान्दुकम् । गण्डुकेति पाठे गाण्डुकम् । गण्डुकः कन्दुक एव । कामण्डलवम् । कैतवम् । पोतुः पविता, पौतवम् । क्षैत्रज्ञम् । पारिव्राजकम् । सब्रह्मचारिणष्टिलोपः । साब्रह्मचारम् । ‘सुदुर्भ्यो हृदः’ (स० ५-१-१६९) । सौहार्दम् । दौहार्दम् । ‘हृद्भग—’ (७-३- १९) इति द्विवृद्धिः । मित्रशत्रुपर्याययोस्तूत्तरवृद्धिर्न । सौहृदम् । दौर्हृदम् । ‘भ्रातुश्च’ (स० ५-१-१७०) । सुदुर्भ्यामिव । सौभ्रात्रम् । दौर्भ्रात्रम् । ‘कोश्च स्त्रियाः’ (स० ५-१-१७१) चात् सुदुर्भ्यां च । कौस्त्रम् । सौस्त्रम् । दौस्त्रम् । ‘पुरुषहृदयाभ्यामसमासे’ (स० ५-१-१७२) । पौरुषम् । हृदयस्य हृल्लेख—’ (६-३-५०) इति हृदादेशः । हृदयस्य कर्म हार्दं, स्नेहः । ‘श्रोत्रियस्य यलोपश्च’ (स० ५-१-१७३) । श्रोत्रियत्वम् । श्रौत्रम् ॥

Sutra Prayogas

  • पौरुषं (रघुवंशम्): हायनान्तयुवादिभ्योऽण् इति युवादित्वादण्।

  • सौभ्रात्रम् (रघुवंशम्): हायनान्तयुवादिभ्योऽण् इति युवादित्वादण्प्रत्ययः।

  • जातहार्देन (किरातार्जुनीयम्): हायनान्तयुवादिभ्योऽण् इति अण् प्रत्ययः।

  • पौरुषम् (किरातार्जुनीयम्): हायनान्तयुवादिभ्योऽण् इति युवादित्वादण्प्रत्ययः।

  • चापलेन (किरातार्जुनीयम्): हायनान्तयुवादिभ्योऽण् इति अण्-प्रत्ययः।