51124: गुणवचनब्राह्मणादिभ्यः कर्मणि च

Padacheda: गुणवचन-ब्राह्मणादिभ्यः | S | 5 | 3 |

कर्मणि | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha

षष्ठीसमर्थेभ्यः गुणवाचिभ्यः शब्देभ्यः ब्राह्मणादिगणस्य च शब्देभ्यः ‘भावः’ तथा ‘क्रिया’ अस्मिन् अर्थे ष्यञ् प्रत्ययः भवति ।

ये शब्दाः ‘गुण’स्य निर्देशम् कुर्वन्ति, तेभ्यः शब्देभ्यः ; तथा च ब्राह्मणादिगणस्य शब्देभ्यः ‘भावः’ (= प्रकृतिनिमित्तम् / धर्मविशेषः ; विस्तारेण तस्य भावस्त्वतलौ (5.1.119) इत्यत्र द्रष्टव्यम् ) तथा ‘कर्म’ (= कार्यम् / क्रिया) एतयोः अर्थयोः ष्यञ्-प्रत्ययः भवति । अस्मिन् प्रत्यये षकारञकारयोः इत्संज्ञा लोपः च भवति, अतः प्रक्रियायाम् ‘य’ इति प्रयुज्यते । [अ] गुणवाचिनः शब्दाः - ये शब्दाः किञ्चन गुणम् (quality / विशेषम्) दर्शयन्ति, ते सर्वे शब्दाः ‘गुणवाचिनः’ सन्ति इत्युच्यते । संदर्भमनुसृत्य अनेके शब्दाः गुणवाचिनः भवितुमर्हन्ति । यथा - जड, अलस, तरुण, बाल, मधुर, मूढ - आदयः । एतेभ्यः सर्वेभ्यः ‘तस्य भावः’ तथा च ‘तस्य कर्म’ अस्मिन् अर्थे ष्यञ्-प्रत्ययः भवति । यथा - 1) जडस्य भावः जाड्यम् । जडस्य कर्म (क्रिया) जाड्यम् । 2) अलसस्य भावः कर्म वा आलस्यम् । 3) तरुणस्य भावः कर्म वा तारुण्यम् । 4) बालस्य भावः कर्म वा बाल्यम् । आदयः । [आ] ब्राह्मणादिगणस्य शब्देभ्यः अपि ‘भाव’ / ‘कर्म’ अस्मिन् अर्थे ष्यञ्-प्रत्ययः भवति । ब्राह्मणादिगणः अयम् - ब्राह्मण, वाडव, माणव, चोर, मूक, आराधय, विराधय, अपराधय, उपराधय, एकभाव, द्विभाव, त्रिभाव, अन्यभाव, समस्थ, विषमस्थ, परमस्थ, मध्यमस्थ, अनीश्वर, कुशल, कपि, चपल, अक्षेत्रज्ञ, निपुण, अर्हतो नुम् च (गणसूत्रम्), संवादिन्, संवेशिन्, बहुभाषिन्, बालिश, दुष्पुरुष, कापुरुष, दायाद्, विशसि, धूर्त, राजन्, संभाषिन्, शीर्षपातिन्, अधिपति, अलस, पिशाच, पिशुन, विशाल, गणपति, धनपति, नरपति, गडुल, निव, निधान, विष, सर्ववेदादिभ्यः स्वार्थे (गणसूत्रम्), चतुर्वेदस्य उभयपदवृद्धिश्च (गणसूत्रम्), स्वभाव, निघातिन्, विघातिन्, राजपुरुष, विशस्ति, विशाय, विशात, विजात, नयात, सुहित, दीन, विदग्ध, उचित, समग्र, शील, तत्पर, इदम्पर, यथा, तथा, पुरस्, पुनःपुनर्, अभीक्ष्ण, तरतम, प्रकाम, यथाकाम, निष्कुल, स्वराज, युवराज, सम्राज्, अविदुर, अपिशुन, अनृशंस, अयथायथ, अयथापुर, स्वधर्म, अनुकूल, परिमण्डल, विश्वरूप, ऋत्विज्, उदासीन, ईश्वर, प्रतिभू, साक्षि, मानुष, आस्तिक, नास्तिक, युगपत्, पूर्वापर, उत्तराधर । उदाहरणानि - 1. ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् । 2. वाडवस्य भावः कर्म वा वाडव्यम् । 3. चोरस्य भावः कर्म वा चौर्यम् । 4. चपलस्य भावः कर्म वा चापल्यम् । आदयः । अस्मिन् गणे कानिचन गणसूत्राणि अपि पाठितानि सन्ति - [अ] अर्हतो नुम् च - इत्युक्ते ‘अर्हत्’ शब्दः अस्मिन् गणे समाविश्यते, तस्य च प्रक्रियायाम् नुमागमः भवति । मित्वात् मिदचोऽन्त्यात्परः (1.1.47) इत्यनेन अयम् नुमागमः अन्तिम-स्वरात् पूर्वम् विधीयते । अर्हत् + ष्यञ् → अर्ह + न् + त् + ष्यञ् → आर्हन्त्य । अर्हतः भावः कर्म वा आर्हन्त्यम् । [आ] सर्ववेदादिभ्यः स्वार्थे - ‘सर्ववेद’ शब्दात् स्वार्थे ष्यञ्-प्रत्ययः भवति । ‘सर्वान् वेदान् पठति’ अस्मिन् अर्थे तदधीते तद्वेद (4.2.59) इत्यनेन अण्-प्रत्ययः, तस्य च <!सर्वादेः सादेश्च लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् कृत्वा ‘सर्ववेद’शब्दः सिद्ध्यति । तस्मात् स्वार्थे अत्र ष्यञ्-प्रत्ययः क्रियते - सर्ववेदः एव सार्ववेद्यः । विशेषः - यद्यपि अस्मिन् गणसूत्रे ‘सर्ववेदादिभ्यः’ इति उक्तमस्ति, तथापि व्याख्यानेषु अस्य उदाहरणार्थम् केवलं ‘सर्ववेद’ तथा ‘चतुर्वेद’ एतौ द्वौ शब्दौ पाठितौ स्तः । एताभ्याम् ‘चतुर्वेद’शब्दस्य विषये अग्रिमम् गणसूत्रमपि उक्तमस्ति - [इ] चतुर्वेदस्य उभयपदवृद्धिश्च - ‘चतुरः वेदान् अधीते’ इत्यत्र तद्धितार्थ-द्विगु-समासस्य निर्माणे तदधीते तद्वेद (4.2.59) इत्यनेन अण्-प्रत्ययं कृत्वा द्विगोर्लुगनपत्ये (4.1.88) इत्यनेन तस्य लुक् भवति, येन ‘चतुर्वेद’ अयं शब्दः सिद्ध्यति । अयम् ‘चतुर्वेद’ शब्दः अस्मिन् गणे स्वीक्रियते, तस्मात् स्वार्थे ष्यञ्-प्रत्ययः, तथा च प्रक्रियायामङ्गस्य उभयपदवृद्धिः भवति । चतुर्वेदः एव चातुर्वैद्यः । अस्य गणस्य विषये वार्त्तिककारः एकम् वार्त्तिकम् पाठयति - <!चातुर्वर्ण्यादिभ्यः स्वार्थे उपसङ्ख्यानम्!> । इत्युक्ते, ‘चतुर्वण’ आदयः केचन शब्दाः ‘स्वार्थे’ ष्यञ्-प्रत्ययम् स्वीकुर्वन्ति । अस्य चातुर्वर्ण्य-गणस्य आवली एतादृशी अस्ति (अस्यामावल्याम् मूलप्रातिपदिकानि न दीयन्ते, अपितु ष्यञ्-प्रत्ययान्तशब्दाः एव पाठ्यन्ते) - चातुर्वर्ण्यम् (= चतुर्वर्ण + ष्यञ्), चातुराश्रम्यम् (= चतुराश्रम + ष्यञ्), त्रैलोक्यम् (= त्रिलोकी + ष्यञ्), त्रैस्वर्ग्यम् (त्रिस्वर्गी + ष्यञ्), षाड्गुण्यम् (षड्गुणी + ष्यञ्), सैन्यम् (= सेना +ष्यञ्) , सान्निध्यम् (सन्निधि + ष्यञ्), सामीप्यम् (= समीप + ष्यञ्), औपम्यम् (= उपमा + ष्यञ्), सौख्यम् (= सुख + ष्यञ्), तादर्थ्यम् (तदर्थ + ष्यञ्) । स्मर्तव्यम् - 1. आ च त्वात् (5.1.119) इत्यनेन सूत्रेण गुणवचनेभ्यः ब्राह्मणादिगणस्य च शब्देभ्यः ‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः ‘त्व’ तथा ‘तल्’ प्रत्ययौ अपि भवतः । यथा - अ) जडस्य भावः कर्म वा जडत्वम् / जडता । आ) चोरस्य भावः कर्म वा चोरत्वम् / चोरता । इ) ब्राह्मणस्य भावः कर्म वा ब्राह्मण्यम् / ब्राह्मणता । ई) चपलस्य भावः कर्म वा चपलत्वम् / चपलता । 2. ब्राह्मणादिगणे उपस्थिताः केचन शब्दाः भिन्नैः सूत्रैः विविधान् प्रत्ययान् प्राप्तुमर्हन्ति । एतेषाम् सर्वेषाम् विषये ष्यञ्-प्रत्ययस्य अपि निर्देशार्थम् ब्राह्मणादिगणे एतेषाम् समावेशः क्रियते । अस्मिन् विषये एते मुख्याः अपवादाः ज्ञेयाः - [अ] ‘माणव’, ‘वाडव’, ‘आराधय’, ‘विराधय’, ‘अपराधय’, ‘उपराधय’ शब्देभ्यः गोत्रचरणाच्श्लाघात्याकारतदवेतेषु (5.1.134) इत्यनेन विहितम् वुञ्-प्रत्ययं बाधित्वा ष्यञ्-प्रत्ययः विधीयते । [आ] ‘चोर’ तथा ‘धूर्त’ शब्दाभ्याम् द्वन्द्वमनोज्ञादिभ्यश्च (5.1.133) इत्यनेन वुञ्-प्रत्यये प्राप्ते ; पक्षे ष्यञ्-प्रत्ययस्य विधानार्थमस्मिन् गणे अपि एतयोः निर्देशः क्रियते । [इ] ‘अनीश्वर’, ‘अक्षेत्रज्ञ’ , ‘अपिशुन’ - एतेभ्यः शब्देभ्यः न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः (5.1.121) इत्यनेन उक्तं निषेधं बाधित्वा ष्यञ्-प्रत्ययविधानार्थम् तेषां समावेशः अस्मिन् गणे क्रियते । [ई] ‘कुशल’, ‘चपल’, ‘निपुण’ , ‘पिशुन’, ‘अनृशंस’ - एतेभ्यः शब्देभ्यः हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यनेन अण्-प्रत्यये प्राप्ते; पक्षे ष्यञ्-प्रत्ययस्य विधानार्थम् एतेषामत्र अपि ग्रहणं क्रियते । [उ] ‘राजन्’ शब्दः पत्यन्तपुरोहितादिभ्यो यक् (5.1.128) इत्यनेन यक्-प्रत्ययं प्राप्नोति; पक्षे ष्यञ्-प्रत्ययविधानं कर्तुमत्र तस्य ग्रहणम् भवति ।’ष्यञ्’ तथा ‘यक्’ - द्वयोः प्रत्यययोः रूपम् तु समानमेव भवति, परन्तु स्वरे तथा स्त्रीप्रत्ययस्य प्राप्तौ द्वयोः भेदः दृश्यते । यथा - राजन् + ष्यञ् + ङीष् → राजी । राजन् + यक् + टाप् → राज्या । उभयत्र नस्तद्धिते (6.4.144) इति टिलोपः भवति । तथा च, अत्र निर्दिष्टः ‘राजन्’ शब्दः तदन्तग्रहणमपि करोति, अतः ‘अधिराजन्, महिराजन्, पृथ्वीराजन्’ - एतादृशाः शब्दाः अपि अस्मिन् गणे समाविश्यन्ते । अस्मिन् विषये पत्यन्तपुरोहितादिभ्यो यक् (5.1.128) इत्यत्र विस्तारेण उक्तमस्ति । [ऊ] ‘गणपति’, ‘धनपति’, ‘नरपति’ - एतेभ्यः पत्यन्तपुरोहितादिभ्यो यक् (5.1.128) इत्यनेन यक्-प्रत्ययं प्राप्नोति; तं बाधित्वा ष्यञ्-प्रत्ययस्य निर्देशार्थम् एतेषामत्र ग्रहणम् क्रियते । [ऋ] ‘एकभाव’, ‘द्विभाव’, ‘त्रिभाव’, ‘अन्यभाव’ - एतेषाम् सर्वेषाम् ब्राह्मणादिगणे समावेशः ‘स्वार्थे’ प्रत्ययविधानम् कर्तुम् कृतः अस्ति । यथा - एकभावः एव ऐक्यभाव्यम् । द्विभावः एव द्वैभाव्यम् । अस्मिन् विषये विस्तारेण जिज्ञासवः न्यासम् पदमञ्जरीं च पश्यन्तु । 3. ब्राह्मणादिगणः आकृतिगणः अस्ति, अतः केचन अन्ये शब्दाः अप्यत्र स्वीक्रियन्ते । यथा, ब्राह्मणादिगणस्य उपरिनिर्दिष्टायामावल्याम् ‘स्वभाव’ इत्यस्मात् आरभ्य अग्रे ये केऽपि शब्दाः दत्ताः सन्ति ते मूलतः ब्राह्मणादिगणे न विद्यन्ते, अपितु आकृतिगणत्वात् अत्र स्थापिताः सन्ति - इति केचन पण्डिताः मन्यन्ते । काशिकायाः अपि बहुषु संस्करणेषु स्वभावादयः शब्दाः पाठिताः न लभ्यन्ते । अन्येऽपि केचन शब्दाः शिष्टप्रयोगेण अत्र भवितुमर्हन्ति । 4. तसिलादिष्वाकृत्वसुचः (6.3.35) इत्यत्र पाठितेन <!त्वतलोर् गुणवचनस्य पुंवद्भवो वक्तव्यः!> इत्यनेन वार्त्तिकेन ‘त्व’ तथा ‘तल्’ प्रत्यययोः परयोः स्त्रीवाचिनः गुणवाचकस्य प्रातिपदिकस्य पुंवद्भावः भवति । यथा - ‘पट्व्याः भावः’ = पट्वी + त्व / तल् → पटु + त्व / तल् [पुंवद्भावः] → पटुत्वम्, पटुता ।

Vasu English Summary

The affix ष्यञ् has after a word expressive of quality and after ब्राह्मण etc., the sense of the activity or occupation or something or someone.

Vasu English Translation

The affix ष्यञ् has after a word expressive of quality and after ब्राह्मण etc., the sense of the activity or occupation or something or someone. The च in the aphorism is employed with the intention of including भाव or “nature”. The word कर्म denotes activity. जडस्य भावः कर्म वा = जाड्यम् so also ब्राह्मण्यम्, माणव्यम् ॥

The words भाव and कर्म bear rule upto the end of the chapter. This class of ब्राह्मण &c, is akritigana i. e. the fact of a word belonging to which is known only from the forms met with in writers of authority.

Vart:- The affix does not change the sense in चातुर्वर्ण्य &c, as चत्वार एव वर्णाः = चातुर्वर्ण्यम् ॥ चातुराश्रम्यम्, त्रैलोक्यम्, त्रैस्वर्ग्यम्, षाड्गुण्यम्, सैन्यम्, सान्निध्यम्, सामीप्यम्, औपम्यम्, सौख्यम् ॥

1 ब्राह्मण, 2 वाडव, 3 माणव, 4 अर्हतो नुम् च, as आर्हन्त्यम् 5 चोर, 6 धूर्त 7 आराधय, 8 विराधय, 9 अपराधय, 10 उपराधय, 11 एकभाव, 12 द्विभाव, 13 त्रिभाव, 14 अन्यभाव, 15 अक्षेत्रज्ञ, 16 संवादिन्, 17 संवेशिन्, 18 संभाषिन्, 19 बहुभाषिन्, 20 शीर्षघातिन् (शीर्षपातिन्), 21 विघातिन्, 22 समस्थ, 23 विषमस्थ, 24 परमस्थ, 25 मध्यमस्थ, 26 अनीश्वर, 27 कुशल, 28 चपल, 29 निपुण, 30 पिशुन, 31 कुतूहल, 32 क्षेषज्ञ, 33 निश्न, 34 बालिश, 35 अलस, 36 दुष्पुरुष, 37 कापुरुष, 38 राजन्, 39 गणपति, 40 अधिपति, 41 गडुल, 42 दायाद, 43 विशस्ति, 44 विषम, 45 विपात, 46 निपात, 47 सर्ववेदादिभ्यः स्वार्थे, सार्ववेद्यः = सर्ववेदः ॥ 48 चतुर्वेदस्योभयपदवृद्धिश्च, as चातुर्वैद्यम् 49 शौठीर 50 मूक, 51 कपि, 52 विशसि, 53 पिशाच, 54 विशाल, 55 धनपति, 56 नरपति, 57 निव 58 निधान 59 विष, 60 स्वभाव, 61 निघातिन्, 62 राजपुरुष, 63 विशाय 64 विशात, 65 विजात, 66 नयात, 67 सुहित, 68 दीन, 69 विदग्ध, 70 उचित, 71 समग्र, 72 शील, 73 तत्पर, 74 इदंपर 75 यथा तथा, 76 पुरस्, 77 पुनः पुनः, 78 अभाक्ष्ण, 79 तरतम, 80 प्रकाम, 81 यथाकाम, 82 निष्कुल, 83 स्वराज, 84 महाराज, 85 युवराज, 86 सम्राज्, 87 अविदूर, 88 अपिशुन, 89 अनुशंस, 90 अयथातथ 91 अयथापुर, 92 स्वधर्म, 93 अनुकुल, 94 परिमण्डल, 95 विश्वरूप, 96 ऋत्विज्, 97 उदासीन, 98 ईश्वर, 99 प्रतिभू, 100 साक्षि(न्), 101 मानुष, 102 आस्तिक, 103 नास्तिक, 104 युगपद्, 105 पूर्वाधर, 106 उत्तराधर ॥ आकृतिगण ॥

Bhashya

गुणवचनब्राह्मणादिभ्यः कर्मणि च (2006) (ष्यञ्ञ्प्रत्ययाधिकरणम्) (5696 उपसंख्यानवार्तिकम्॥ 1 ॥) - ब्राह्मणादिषु चातुर्र्वण्यादीनामुपसंख्यानम् - (भाष्यम्) ब्राह्मणादिषु चातुर्र्वण्यादीनामुपसंख्यानं कर्तव्यम्। चातुर्र्वण्यम्। चातुर्वैद्यम्। चातुराश्रम्यम्॥ (5697 उपसंख्यानवार्तिकम्॥ 2 ॥) - अर्हतो नुम्च - (भाष्यम्) अर्हतो नुम्च ष्यञ्ञ्च वक्तव्यः। अर्हतो भावः - आर्हन्त्यम्। आर्हन्ती॥

Kashika

गुणमुक्तवन्तो गुणवचनाः। गुणवचनेभ्यो ब्राह्मणादिभ्यश्च तस्येति षष्ठीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ् प्रत्ययो भवति, चकाराद् भावे च। कर्मशब्दः क्रियावचनः। जडस्य भावः कर्म वा जाड्यम्। ब्राह्मणादिभ्यः खल्वपि — ब्राह्मण्यम्। माणव्यम्। आ पादपरिसमाप्तेर्भावकर्माधिकारः। ब्राह्मणादिराकृतिगणः। आदिशब्दः प्रकारवचनः॥ चातुर्वर्ण्यादीनां स्वार्थ उपसंख्यानम्॥ चत्वार एव वर्णाश्चातुर्वर्ण्यम्। चातुराश्रम्यम्। त्रैलोक्यम्। त्रैस्वर्यम्। षाड्गुण्यम्। सैन्यम्। सान्निध्यम्। सामीप्यम्। औपम्यम्। सौख्यम्॥ ब्राह्मण। वाडव। माणव। चोर । मूक। आराधय। विराधय। अपराधय। उपराधय। एकभाव। द्विभाव। त्रिभाव। अन्यभाव। समस्थ। विषमस्थ। परमस्थ। मध्यमस्थ। अनीश्वर। कुशल। कपि। चपल। अक्षेत्रज्ञ। निपुण। अर्हतो नुम् च (ग०सू० ११६)। आर्हन्त्यम्। संवादिन्। संवेशिन्। बहुभाषिन्। बालिश। दुष्पुरुष। कापुरुष। दायाद। विशसि। धूर्त। राजन्। संभाषिन्। शीर्षपातिन्। अधिपति। अलस। पिशाच। पिशुन। विशाल। गणपति। धनपति। नरपति। गडुल। निव। निधान। विष। सर्ववेदादिभ्यः स्वार्थे (ग०सू०११७)। चतुर्वेदस्योभयपदवृद्धिश्च (ग०सू० ११८)। चातुर्वैद्यम्। ब्राह्मणादिः॥

Siddhanta Kaumudi

चाद्भावे । जडस्य कर्म भावो वा जाड्यम् । मूढस्य भावः कर्म वा मौढ्यम् । ब्राह्मण्यम् ।<!अर्हतो नुम्च !> (वार्तिकम्) ॥ अर्हतो भावः कर्म वा आर्हन्त्यम् । आर्हन्ती । ब्राह्मणादिराकृतिगणः ॥

Laghu Siddhanta Kaumudi

चाद्भावे। जडस्य भावः कर्म वा जाड्यम्। मूढस्य भावः कर्म वा मौढ्यम्। ब्राह्मण्यम्। आकृतिगणोऽयम्॥

Balamanorama

गुणवचनब्राह्मणादिभ्यः कर्मणि च - गुणवचन । गुणोपसर्जनद्रव्यवाचिभ्यो, ब्राआहृणादिभ्यश्च षष्ठन्तेभ्यो भावे कर्मणि च अर्थे ष्यञित्यर्थः । अर्हतो नुम्चेति । वार्तिकमिदम् ।अर्हः प्रशंसाया॑मिति सूत्रेण शतरि अर्हच्छब्दः पूज्यवाचीति कैयटः । अर्हच्छब्दात्ष्यञ्स्यात्प्रकृतेर्नुम्चेत्यर्थः । मित्त्वादन्त्यादचः परः । अनुस्वारपरसवर्णौ । लोकान्नपुंसकत्वं स्त्रीत्वं च । तदाह — आर्हन्त्यम्, आर्हन्तीति । आर्हन्त्यशब्दान्ङीषिहलस्तद्धितस्ये॑ति यलोपः । यथातथेति निपातसमुदायः । यथापुरमिति पुराशब्देन पदार्थनतिवृत्तावव्ययीभावः । इमौ शब्दौ नञ्पूर्वपदौ ब्राआहृणादी ।

Tattvabodhini

गुणवचनब्राह्मणादिभ्यः कर्मणि च - गुणवचन । ष्यञनुवर्तते, कर्म क्रिया कार्यं च ।शरीरायासमात्रसाध्यं शौचादि क्रिया । शास्त्रेण विहितो यागादिः कार्य॑मिति तयोर्भेदमाहुः ।अर्हतो नुम् च । अर्हत इति ।अर्हः प्रशंसाया॑मिति शत्रन्तोऽर्हच्छब्दः पूजार्थाभिधायीति कैयटः । आकृतिगण इति । केषांचित्पाठस्तु कार्यान्तराय । तथा हिअर्हतो नुम् चे॑ति नुमर्थः पाठः । एकभावः, त्रिभावः, अन्यभावः, -एषां पाठः स्वार्थे विधानार्थः । तथा च प्रत्याहाराह्निके वार्तिकप्रयोगः -॒आन्यभाव्यं तु कालशब्दव्यावाया॑दिति । अन्यभाव एव आन्यभाव्यम् । अन्यत्वमित्यर्थः । यत्तु व्याकरणाधिकरणे भट्टपादैरुक्तम्आन्यभाव्यमपप्रयोगः॑इति, तत्त्ववैयाकरण मीमांसकसंतोषार्थमित्यवधेयम् । सर्ववेद इति ।पूर्वकालैके॑ति समासः ।चतुर्वर्णादीनां स्वार्थ उपसङ्ख्यानम् । चतुर्वेद इति । तद्धितार्थे द्विगुः ।द्विगोर्सुगनपत्ये॑इत्यणो लुक् । चतुर्विद्य इति ।विद्यालक्षणसूत्रान्ता॑दिति ठक् । तस्य लुक् ।

Padamanjari

कर्मशब्दः क्रियावचन इति। न साधनकर्मवचनः; क्रियाया हि साधनं सम्भवति। सत्वशब्दाश्च गुणवचनब्राह्मणादयः, अतस्तेषां नास्ति साधनकर्मणा सम्बन्धः। क्रिया त्वात्मलाभय तैर्यज्यते। कथं तर्हि कवेः कर्म काव्यम्, न हि तत्र क्रियाभिधीयते, किं कर्हि, तत्कृतो ग्रन्थः ? अत्राहुः - क्रियाकर्मण्येव प्रत्ययविधानम्, औपचारिकस्तु तत्कृते प्रयोग इति। अपर आह - सूत्रे यः कर्मशब्दो यश्च वृतौ क्रियाशब्दः, तदुभयमपि कर्मसाधनं कर्म, क्रियाकार्यमित्यर्थः, तेन कृतिव्याप्ये साधनकर्मण्येव प्रत्यय इति। भाह्मणादिरकृतिगण इति अवृत्कृतत्वात्। एतदेवोपपादयति - आदिशब्दः प्रकारवचन इति। किमर्थं तर्हि गुणवचनग्ररहणम्, ब्राह्मणादीनां चानुक्रमणम् ? केषाञ्चित्प्रपञ्चार्थम्; केषाञ्चित्स्वार्थे प्रत्ययविधानार्थम्, केषाञ्चिद् वाधकबाधनार्थम्। तत्र ब्राह्णमशब्दात्प्राणभृज्जातिलक्षणेऽञि प्राप्ते,’माणववाडवाभ्यां गोत्रलक्षणे’ वुञि। ठर्हतो नुम् चऽ इति नुमर्थःक पाठः; ठर्हः प्राशंसायाम्ऽ इति शतृप्रत्ययः - आर्हन्त्यम्। चोरधूर्तयोर्मनोज्ञादित्वाद्वुञिप्राप्ते सोऽपि भवत्येव। आराध्यादीनां चतुर्णां जनपदवाचित्वादञि कृते, तस्य च’कम्बोजादिभ्यो लुग्ववचनम्’ इति लुकि गोत्रवुञि प्राप्ते पाठः। एकभावादीनामन्यभावपर्यन्तानां स्वार्थे विधानार्थम्। तथा च वार्तिके प्रयोगः - ठान्यभाव्यं तु कालशब्दव्यवायात्ऽ इति। अक्षेत्रज्ञानीश्वरशब्दयोः’न नञ्पूर्वात्’ इति निषेधे प्राप्ते, कुशलादीनां युवादित्वादमि प्राप्ते, बालिशशब्दाद्वयोलक्षणोऽञि प्राप्ते, राजशब्दस्य पुरोहितादित्वाद्यकि प्राप्ते, गणपत्यधिपत्योः पत्यन्तलक्षणे यकि। शेषाणामलसादीनां पाठः प्रपञ्चार्थः। सर्ववलेदादिभ्यः स्वार्थे इति। सर्वे वेदाः सर्ववेदाः, पूर्वकालोति समासः, सर्ववेदानधीत् इत्यण्,’सर्वसादेर्द्धिगोश्च लः’ इति लुक्, सर्ववेद एव सार्ववेद्यः। चतुर्वेदस्योभयपदवृद्धिश्चेति। चतुरो वेदानधीते इति तद्धितार्थे द्विगुः, अणो लुक्, चतुर्वेद एव चातुर्वैद्यः। क्वचितु चातुर्वैद्यस्येति पाठः, तत्र सिद्धय इति शेषः, चतस्रो विद्या अधीत इत्यादि षूर्ववद् विद्यालक्षणकल्पसूत्रान्तादिति ठक्, पूर्ववल्लुक्, चतुर्विध्य एव चातुर्वैद्यः ॥

Nyaas

तस्येदम् (4.3.120) इति शैषिकेषु प्राप्तेषु कर्मणि ष्यञ्विधानम्, चकारद्भावे च। कर्मशब्दः क्रियावचनः इत। साधनकर्मवचनशङ्कामपाकरोति। ये हि जडादिशब्दाः गुणशब्दाः, गुमवचनाः, ब्राआहृणादयश्च तेषां साधनकर्मणा सम्बन्दो न सम्भवति; क्रियावाचकत्वाभावात्। तस्मात्? क्रियाशब्द एव कर्मशब्दः। ब्राआहृणादिराकृतिगणः इति। अवृत्कृतत्वात्। आदिशब्दः प्रकारे [प्रकारवचनः - काशिका, पदमञ्जरी च] इति। एवं प्रकारेभ्यः ष्यञ्? भवतीत्येवमर्थमादिशब्दः प्रकरवचनत्वं बोधयति। यद्येवम्, गुणवचनग्रहणं प्रातिपदिकेषु च ब्राआहृणादीनामनुक्रमणमनर्थकं स्यात्? नानर्थकम्; प्रपञ्चार्थ हि तत्? स्वार्थे विधानार्थञ्च। तत्र ब्राआहृणशब्दात्? प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5.1.129) इति जातिवचनत्वादञि प्राप्ते तद्बाधनार्थं ष्यञ्विधीयते। माणववाडवाभ्यां गोत्रलक्षणे वुञि। अर्हतो नुम्? च इति। अस्य नुमर्थः पाठः - अर्हन्त्यम्। चोरधूर्ताभ्यां मनोज्ञादित्वाद्वुञि प्राप्ते। आराधय, विराधय, अपराधय - इत्येतेभ्योऽपत्यविवक्षायां जनपदशब्दात् क्षत्रियादञ् (4.1.168) , तस्य कम्बोजाल्लुक् (4.1.175) इति लुक्। ततो गोत्रवुञि प्राप्ते पाठः। एकभवादीनामन्यभावपर्यन्तानां स्वार्थे विधानार्थम्। अक्षेत्रज्ञशब्दस्य ` नञ्पूर्वात्` (5.1.120) इति प्रतिषेधे प्राप्ते। प्राग्बालिशशब्दात्? कुशलादीनां युदादित्वादणि प्राप्ते। बालिशशब्दो वयोवचनः, तस्माद्वयोलक्षणेऽञि प्राप्ते। अनीआरशब्दस्य न नञ्पूर्वात् (5.1.120) इति प्रतिषेधे प्राप्ते। अलस इति बहुव्रीहिः ष्यञमुत्पादयति, तत्पुरुषात्तु, न नञ्पूर्वात् (5.1.120) इति प्रतिषेधेन भवितव्यम्; तस्य प्रपञ्चार्थः पाठः। राजन्शब्दस्य पुरोहितदित्वाद्यकि प्राप्ते। संवादिन् संवेशिन्, बहुभाषिन्, `शीर्षधातिन्, सयस्थ, परमस्थ, दुष्पुरुष - इत्येवमादीनां नञ्पूर्वार्थः पाठः। गणपति, अधिपति - इत्येतयोः पत्यन्तलक्षणे यकि प्राप्ते। गडुल, दायाद, विशस्ति - इत्येतेषां त्वतलोर्निवृत्त्यर्थः। शेषाणां प्रपञ्चार्थः। गुणवचना एके राशिः, ब्राआहृणादयो द्वितीयः, ताभ्यां भावे कर्मणि यथासंख्यं प्राप्नोति, तत्? कस्मान्न भवति? ब्राहृणादिशब्दस्याल्पाच्तरस्य परनिपातात्। स हि लक्षणे निरपेक्षतां निर्देशस्य ज्ञापयन्? यथासंक्यलक्षणानपेक्षतामपि बोधयति, तेन यथासंख्यं न भवति॥

Prakriyasarvasvam

क्रिया क्रियमाणं च वस्तु कर्म । गुणवचनेभ्यो ब्राह्मणादिभ्यश्च भावे कर्मणि च ष्यञ् स्यात् । मूढस्य भावः कर्म वा मौढ्यम् । प्रागल्भ्यम् । कविना क्रियमाणं काव्यम् । ‘आ च त्वात्’ (५-१-१२०) इत्युक्तेरेषां कर्मण्यपि त्वतलौ । मूढस्य भावः कर्म वा मूढत्वं मूढता । एवं ब्राह्मणादेरपि । ‘ब्राह्मणमाणवबाडवधूर्तचोर- चपलकुशलनिपुणसुहितपिशुनबालिशालसेभ्यः’ (स० ५-१-१४३) । ब्राह्मण्यं, माणव्यं, बाडव्यम् इत्यादि । सुहितस्तृप्तः । ‘गडुलदीनदायादविदग्धोचितसमग्र- शीलतत्परेदम्परयथातथयथापुरपुनःपुनरभीक्ष्णतरतमप्रका मयथाकामेभ्यश्च’ (स० ५-१-१४४) । गाडुल्यं, दैन्यं, दायाद्यं, दायादैर्नीयमानमपि दायाद्यं धनं, वैदग्ध्यं वैदग्धी । औचित्यम्, औचिती । सामग्र्यं, सामग्री । शीलस्य भावः शैली । तात्पर्यम् । ऐदम्पर्यम् । यथातथमित्यस्य भावो याथातथ्यम् । एव याथापुर्यम् । पुनः पुनर्जातस्य भावः पौनःपुन्यम् । आभीक्ष्ण्यम् । तरतमशब्दौ प्रत्ययानुकरण- वशादल्पप्रकर्षवति बहुप्रकर्षवति चार्थे वर्तेते । तेन तरतमानां भावस्तारतम्यमति- शयविशेषः । प्रकाममित्यस्य प्राकाम्यम् । याथाकाम्यं याथाकामी । ‘एकद्वित्रि- स्वान्येभ्यो भावात्’ (स० ५-१-१४५) । एषां पञ्चानां स्वार्थे ष्यञ् इति हरः । एकभाव एकत्वं, तदेव ऐकभाव्यं, द्वैभाव्यं, त्रैभाव्यं स्वाभाव्यम्, आन्यभाव्यम् । ‘तत्स्वसमविषमपरममध्यमेभ्यः स्थात्’ (स० ५-१-१४६) । ताटस्थ्यं, स्वास्थ्यं, सामस्थ्यं, वैषमस्थ्यं, पारमस्थ्यं, माध्यमस्थ्यम् । नञ्पूर्वादपि आस्वस्थ्यम्, ‘निर्दुर्भ्यां कुलात्’ (स० ५-१-१४७) । नैष्कुल्यं, दौष्कुल्यम् । ‘दुष्काराजभ्यः पुरुषात्’ (स० ५-१-१४८) । दौष्पुरुष्यं, कापुरुष्यं, ‘राजपुरुषात् ष्यञ्जि’ इत्यनुशतिकादिपाठाद् राजकौरुष्यम् । ‘सुदुर्भ्यां भगात्’ । सौभाग्यं, दौर्भाग्यं, ‘हृद्भग-’ (७-३-१९) इति द्विवृद्धिः । व्याङ्पपेभ्यो रावयात्’ (स० ५-१- १४९) । वैरावय्यम् । आरावय्यम् । औपरावय्यम् । विरावयादयो जनपदतुल्य- क्षत्रियापत्यानि । ‘गणाधिभ्यां पत्युः’ (स० ५-१-१५०) । गाणपत्यम् । आधिपत्यम् । ‘वेः शायशस्तिभ्याम्’ (५-१-१५१) । विशायस्य कर्म वैशाय्यम् । वैशस्त्यम् । ‘स्वधि स्वर्जंनयुवभ्यो राज्ञः’ (स० ५-१-१५२) । सौराज्यम् । आधिराज्यम् । स्वाराज्यम् । जानराज्यम् । यौवराज्यम् । ‘अर्हतोनुम् च (स० ५-१-१५४) । आर्हन्त्यम् । आर्हन्ती । ‘समो वदिविशिभ्यां णिनः’ (स० ५-१- १५५) । संपूर्वाभ्यां णिन्त्यन्ताभ्यामाभ्यां ष्यञ् । संवादिनो भावः सांवाद्यम् । सांवेश्यम् । सम्पादीति माधवपाठः । साम्पाद्यं शोभावत्वम् । ‘बहोश्च भाषेः’ (स० ५-१-१५६) । समो बहोश्च पराण्णिन्यन्ताद् भाषेः ष्यञ् । बाहुभाष्यम् । साम्भाष्यम् । ‘शीर्षनिर्विभ्यो हनः’ (स० ५-१-१५७) । णिन्यन्तादेव । शैर्षघात्यम् । नैर्घात्यम् । वैपात्यम् । ‘नञः क्षेत्रज्ञेश्वरविदूरपिशुननृशंसयथातथयथापुरेभ्यः’ (स० ५-१-१५८) । ‘नञः शुचीश्वर—’ (७-३-३०) इत्युत्तरवृद्धिः पूर्वस्य वा । आक्षेत्रज्ञचम्, अक्षैत्रज्ञचम् । आनैश्वर्यम् । अनैश्वर्यम् । आविदूरंयम् । आपिशुन्यम् । आनृशंस्यम् ॥

Vartika

चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् ।

Sutra Prayogas

  • नरदेवसैन्यम् (रघुवंशम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च (वार्त्तिकम्- चातुर्वर्ण्यादीनां स्वार्थ उपसंख्यानम्) इति स्वार्थे ष्यञ्।

  • त्रैलोक्य (रघुवंशम्): चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् (गुणवचनब्राह्मणादिभ्यः कर्मणि च) इति ष्यञ्प्रत्ययः।

  • त्रैलोक्यवन्द्येन (कुमारसम्भवम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च इति चातुर्वर्ण्यादित्वात् ष्यञ्प्रत्ययः।

  • यौवराज्ये (किरातार्जुनीयम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च (ब्राह्मणादित्वात्) इति ष्यञ्।

  • पौर्वापर्यम् (किरातार्जुनीयम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च (चातुर्वर्ण्यादित्वात्) इति स्वार्थे ष्यन्।

  • बाल्य (शिशुपालवधम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च इति ष्यञ् प्रत्ययः।

  • वैदग्धीम् (शिशुपालवधम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च इति ष्यञ्प्रत्ययः।

  • चापल्यात् (शिशुपालवधम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च (ब्राह्मणादिषु पाठात्) इति ष्यञ्प्रत्ययः।

  • सापत्न्यं (शिशुपालवधम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च इति ष्यञ् प्रत्ययः।

  • माल्यैः (शिशुपालवधम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च (चातुर्वर्ण्यादित्वात्) इति ष्यञ्प्रत्ययः।

  • भरतज्ञकविप्रणीतकाव्य (शिशुपालवधम्): गुणवचनब्राह्मणादिभ्यः कर्मणि च इति ष्यञ्प्रत्ययः।