51126: सख्युर्यः¶
Padacheda: सख्युः | S | 5 | 1 |
यः | S | 1 | 1 |
Sutrartha¶
‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः षष्ठीसमर्थात् ‘सखि’शब्दात् य-प्रत्ययः भवति ।
‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः ‘सखि’शब्दात् ( = मित्रम् / friend इत्यर्थः) औत्सर्गिकरूपेण ‘त्व’ तथा ‘तल्’ प्रत्यययोः प्राप्तयोः पक्षे य-प्रत्ययविधानम् कर्तुम् इदम् सूत्रम् पाठितमस्ति । वर्तमानसूत्रेण ‘सख्युः भावः कर्म वा’ अस्मिन् अर्थे सखि-शब्दात् ‘य’-प्रत्ययः भवति । सख्युः भावः कर्म वा सख्यम् । अत्र काशिकाकारः एकम् वार्त्तिकम् पाठयति - <!दूतवणिग्भ्यां चेति वक्तव्यम्!> । इत्युक्ते, ‘दूत’ शब्दात् तथा ‘वणिज्’ शब्दात् अपि भावकर्मार्थयोः य-प्रत्ययः भवति । दूतस्य भावः कर्म वा दूत्यम्, वणिजः भावः कर्म वा वणिज्यम् । विशेषः - 1. ‘वणिज्य’ शब्दः काशिकायाम् यद्यपि नपुंसकलिङ्गे दत्तः अस्ति, तथापि कौमुदीकारस्य मतेन अयम् शब्दः स्वभावतः स्त्रीलिङ्गे एव प्रयुज्यते , तथा च केवलम् ‘भाव’ अस्मिन् अर्थे एव प्रयुज्यते, न हि कर्म अस्मिन् अर्थे । यथा - वणिजः भावः वणिज्या । 2. एतत् वार्त्तिकम् वस्तुतः भाष्ये न पाठ्यते । तथापि काशिकाकारः अस्य निर्देशम् करोति । ज्ञातव्यम् - 1. सखि, दूत, वणिज् - एतेभ्यः शब्देभ्यः आ च त्वात् (5.1.120) इत्यनेन त्व/तल्-प्रत्ययौ अपि भवतः । यथा - सख्युः भावः सखित्वम् सखिता वा । दूतस्य भावः दूतत्वम् दूतता वा । वणिजः भावः वणिक्त्वम् वणिक्ता वा । प्रक्रिया इयम् - वणिज् + त्व → वणिग् + त्व [स्वादिष्वसर्वनामस्थाने (1.4.17) इति अङ्गस्य पदसंज्ञा । पदान्तजकारस्य चोः कुः (8.2.30) इति कुत्वम् ] → वणिक् + त्व [खरि च (8.4.5) इति चर्त्वम्] → वणिक्त्व । एवमेव ‘वणिक्ता’ शब्दः अपि सिद्ध्यति । 2. ‘वणिज्’ शब्दः ब्राह्मणादिगणस्य आकृतिगणत्वात् तत्रापि स्वीक्रियते, अतः तस्मात् गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यनेन ष्यञ्-प्रत्ययः अपि भवति - वणिजः भावः कर्म वा वाणिज्यम् ।
Vasu English Summary¶
The affix य comes in the sense of ‘nature or action thereof’ after the word सखि।
Vasu English Translation¶
The affix य comes in the sense of ‘nature or action thereof’ after the word सखि। As सख्यम् ‘friendship’.
Vart:- So also after the words दूत and वणिक्, as, दूत्यम् and वणिज्यम् ॥ The word वाणिज्यम् is formed by (5.1.124), वणिक् belonging to ब्राह्मणादि class.
Kashika¶
सखिशब्दाद् यः प्रत्ययो भवति भावकर्मणोरर्थयोः। सख्युर्भावः कर्म वा सख्यम्॥ दूतवणिग्भ्यां चेति वक्तव्यम्॥ दूत्यम्। वणिज्यम्। कथं वाणिज्यम्? ब्राह्मणादित्वात्॥
Siddhanta Kaumudi¶
सख्युर्भावः क्रम वा सख्यम् । दूतवणिग्भ्यां च ॥ दूतस्य भावः कर्म वा दूत्यम् । वणिज्यमिति काशिका । माधवस्तु वणिज्याशब्दः स्वभावातस्त्रीलिङ्गः । भाव एव चायं प्रत्ययो न तु कर्मणीत्याह । भाष्ये तु दूतवणिग्भ्यां चेति नास्त्येव । ब्राह्मणादित्वाद्वाणिज्यमपि ॥
Laghu Siddhanta Kaumudi¶
सख्युर्भावः कर्म वा सख्यम्॥
Balamanorama¶
सख्युर्यः - सख्युर्यः । सखिशब्दात्षष्ठन्ताद्भावकर्मणोर्यः स्यादिति वक्तव्यमित्यर्थः । नास्त्येवेति । वार्तिकत्वे तस्य भाष्ये पाठावश्यकत्वात्, पाठस्य चाऽभावादप्रामाणिकमेवेदं वृत्तिपठितं वार्तिकमिति भावः । तर्हि दूतवणिग्भ्यां भावकर्मणोः कथं यत्प्रत्ययः, किंतु ष्यञेवेत्याह — ब्राहृणादित्वाद्वाणिज्यमपीति । अपिना दौत्सयसङ्ग्रहः ।
Padamanjari¶
इह कपिज्ञाती द्वौ, भावकर्मणी चार्थौ द्वावेवेति संख्यातानुदेशः प्राप्नोति, एवम्’पत्यन्तपुरोहितादिभ्यो यक्’ ,’हायनान्तयुवादिभ्यो’ ण्ऽ इत्यत्रेत्याशङ्कयाह - यथासंख्यं प्रकरणे नेष्यत इति। तदर्थस्य स्वरितत्वस्याप्रतिज्ञानादिति भावः ॥
Nyaas¶
दूतवणिग्भ्याञ्च इत्यादि। दूतवणिग्भ्यां यो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-पूर्वसूत्रादिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः - दूतवणिग्भ्याञ्च इत्यादि। दूतवणिग्भ्यामपि भवति॥
Prakriyasarvasvam¶
सख्यम् । वीरवीर्यौ च’ इति स्वरसूत्रोक्तेर्यं वीर्यमपीति स्वामी । ‘दूतवणिग्भ्यां च वाच्यम्’ । दूत्यं वणिज्यम् । ‘स्वभावात् स्त्रीत्वेन वणिज्या इति माधवः । ‘आभ्यां ष्यञ्च’ इति भोजः । दौत्यं, वाणिज्यम् ॥
Vartika¶
दूतवणिग्भ्यां च ।
Sutra Prayogas¶
सख्यम् (रघुवंशम्): सख्युर्यः इति यप्रत्ययः।
सख्यम् (किरातार्जुनीयम्): सख्युर्यः इति यप्रत्ययः।
सख्यस्य (भट्टिकाव्यम्): सख्युर्यः इति कर्मणि षष्ठी।