51132: योपधाद्गुरूपोत्तमाद्वुञ्¶
Padacheda: य-उपधात् | S | 5 | 1 |
गुरु-उपोत्तमात् | S | 5 | 1 |
वुञ् | S | 1 | 1 |
Sutrartha¶
‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः षष्ठीसमर्थात् यकारोपध-गुरूपोत्तम-शब्दात् वुञ्-प्रत्ययः भवति ।
अस्य सूत्रस्य अर्थम् ज्ञातुमादौ ‘यकारोपध-गुरूपोत्तम-शब्दः’ इत्युक्ते किम् तत् जानीमः - [1] यस्य शब्दस्य उपधावर्णः (second last letter) ‘य्’ इति अस्ति, सः शब्दः ‘यकारोपधः’ अस्ति इत्युच्यते । यथा - काय, माया, स्थायि, वायु, कार्य - एते सर्वे यकारोपधशब्दाः सन्ति । [2] यस्य शब्दस्य उपोत्तमः स्वरः (second last vowel) गुरुसंज्ञकः अस्ति, सः शब्दः गुरूपोत्तमः अस्ति इत्युच्यते । किम् नाम गुरुः? - [अ] सः ह्रस्वः स्वरः, यस्मात् अनन्तरम् संयुक्ताक्षरमस्ति, संयोगे गुरु (1.4.11) इत्यनेन गुरूसंज्ञकः भवति । [आ] प्रत्येकः दीर्घः स्वरः दीर्घम् च (1.4.11) इत्यनेन गुरूसंज्ञकः भवति । गुरूपोत्तमशब्दानाम् कानिचन उदाहरणानि - ‘भूत’, ‘वर्तमान’, ‘भविष्य’ - आदयः । [3] यः शब्दः यकारोपधः अस्ति, गुरूपोत्तमः च अपि अस्ति, सः ‘यकारोपध-गुरूपोत्तम-शब्दः’ इत्यनेन निर्दिश्यते । यथा - ‘रमणीय’, ‘वसनीय’ , ‘भविष्य’ - आदयः । एतादृशात् ‘यकारोपध-गुरूपोत्तम-शब्दात् भावकर्मार्थयोः ‘वुञ्’ प्रत्ययः भवति । यथा - रमणीयस्य भावः कर्म वा = रमणीय + वुञ् → रमणीय + वु [ञकारस्य हलन्त्यम् (1.3.3) इति इत्संज्ञा, लोपः] → रमणीय + अक [युवोरनाकौ (7.1.1) इति अक-आदेशः] → रामणीय + अक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → रामणीय् + अक [यस्येति च (6.4.148) इति अकारलोपः] → रामणीयक रमणीयस्य भावः कर्म वा रामणीयकम् । वसनीयस्य भाव कर्म वा वासनीयकम् । अत्र एकम् वार्त्तिकमपि ज्ञेयम् - <!सहायाद्वेति वक्तव्यम्!> । इत्युक्ते, ‘सहाय’ शब्दात् भावकर्मार्थयोः विकल्पेन वुञ्-प्रत्ययः भवति - सहायस्य भावः कर्म वा साहायकम् । पक्षे ब्राह्मणादिगणे स्वीकृत्य गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इति ष्यञ्-प्रत्ययः अपि भवति - सहायस्य भावः कर्म वा साहाय्यम् । ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः आ च त्वात् (5.1.120) इत्यनेन भावकर्मार्थयोः त्व/तल्-प्रत्ययौ अपि भवतः । रमणीयस्य भावः कर्म वा रमणीयत्वम् / रमणीयता । सहायस्य भावः कर्म वा सहायत्वम् / सहायता । विशेषः - अस्मिन् सूत्रे ‘उपधा’ तथा ‘उपोत्तम’ एतौ द्वौ अपि शब्दौ प्रयुक्तौ स्तः । एतयोः द्वयोः अर्थौ भिन्नौ स्तः इति स्मर्तव्यम् । ‘उपधा’ इत्युक्ते अन्यात् पूर्वः वर्णः । उपधावर्णः ‘स्वरः’ अपि भवितुमर्हति, उत ‘व्यञ्जनम्’ अपि । परन्तु ‘उपोत्तम’ अयम् शब्दः केवलम् स्वरस्यैव निर्देशार्थम् प्रयुज्यते । शब्दे विद्यमानः यः अन्तिमः स्वरः, (सः अन्तिमस्थाने भवेत् उत न भवेत्, परन्तु) तस्मात् पूर्वः यः स्वरः विद्यते, सः उपोत्तमस्वरः नाम्ना ज्ञायते । यथा - ‘मरुत् = म् + अ + र् + उ + त्’ इत्यस्मिन् शब्दे उपधावर्णः ‘उ’ इति अस्ति, परन्तु उपोत्तमः स्वरः ‘अ’ इति अस्ति । उपधा is used to represent the second last letter, which can be a vowel or a consonant. On the other hand, उपोत्तम always represents a vowel which is at the second-last position when only vowels are considered (and consonants are ignored).
Vasu English Summary¶
The affix वुञ् comes in the sense of ‘nature or action thereof’ after a polysyllabic stem whose penultimate letter is य् and whose penultimate syllable is prosodially heavy.
Vasu English Translation¶
The affix वुञ् comes in the sense of ‘nature or action thereof’ after a polysyllabic stem whose penultimate letter is य् and whose penultimate syllable is prosodially heavy. The word उपोत्तमं means the last syllable but one in a word of three syllables or more. That word whose penultimate syllable is गुरू ‘heavy’, is called गुरूपोत्तमम् : the योपधा means ‘having penultimate य्’.
Thus रामणीयकम् from रमणीय, वासनीयकं from वसनीय ॥
Why do we say “the penultimate letter being य्”? Observe विमानत्वं from विमान ॥
Why do say गुरूपत्तिम “the penultimate syllable being heavy”? Witness क्षत्रियत्वम् ॥
Vart:- Optionally so after the word सहाय, as, साहायकम् and साहाय्यम् ॥ The words उपोत्तम् and उपधा should be distinguished: the first means penultimate syllable (implying thereby the word is of more than two syllables), and the second means penultimate letter.
Kashika¶
त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम्। गुरुरुपोत्तमं यस्य तद् गुरूपोत्तमम्। यकारोपधाद् गुरूपोत्तमाद् वुञ् प्रत्ययो भवति भावकर्मणोः। रमणीयस्य भावः कर्म वा रामणीयकम्। वासनीयकम्। योपधादिति किम्? विमानत्वम्। गुरूपोत्तमादिति किम्? क्षत्रियत्वम्॥ सहायाद् वेति वक्तव्यम्॥ साहायकम्, साहाय्यम्॥
Siddhanta Kaumudi¶
रामणीयकम् । आभिधानीयकम् ।<!सहायाद्वा !> (वार्तिकम्) ॥ साहाय्यम् । साहायकम् ॥
Balamanorama¶
योपधाद्गुरूपोत्तमाद्वुञ् - योपधात् । योपधाद्गुरूपोत्तमात्प्रातिपदिकात्षष्ठन्ताद्भावकर्मणोर्वुञित्यर्थः । रामणीयकमिति । रमणीयशब्दाद्वुञ् । आभिधानीयकमिति । अभिधानीयशब्दाद्वञ् । सहायाद्वेति ।वु॑ञिति शेषः । पक्षे ब्राआहृणादित्वात्ष्यञ् । इदंतु वार्तिकं भाष्ये क्वचिन्मृग्यम् ।
Tattvabodhini¶
योपधाद्गुरूपोत्तमाद्वुञ् - योपधात् । गुरु उपोत्तमं यस्य प्रातिपदिकस्य तस्मादित्यर्थः । योपधात्किम् । विमानतवम् । गुरुपोत्तमादिति किम् । क्षत्त्रियत्वम् । आभिधानीयकमिति । अत्र प्रकृतिरभेः परोऽनीयर्प्रत्ययान्तो दधातिः । अबिदेयस्य भावः कर्म वेत्यर्थः ।सहायाद्वा । सहायाद्वेति । सूत्रेण नित्ये प्राप्ते विकल्पार्थं वचनम् । द्वन्द्वमनोज्ञादिभ्यश्च । मनोज्ञ, प्रियरूप, बहुल , अवश्य, इत्यादिर्मनोज्ञादिः ।
Padamanjari¶
यः पत्यन्तो द्वन्द्वस्तस्माद्यक् प्राप्तः, यस्तु हायनान्तस्तस्मादण्प्राप्तः, अन्यस्मात्वलौ, मनोज्ञादिष्वपि गुणवचनात् ष्यञ् प्राप्तः, चोरधूर्ताभ्यामपि ब्राह्मणादित्वात्ष्यञेव, युवशब्दाद्यौवादित्वादण्, शेषेभ्यस्त्वतलौ। अमुष्यपुत्रेति। निपातनात्षष्ठ।ल अलुक् ॥
Nyaas¶
त्वतलादिषु प्राप्तेषु वुञ्विधीयते। उत्तमशब्दोऽयमिहाव्युत्पन्नं प्रातिपदिकं गृह्रते; तत्स्वभावात्? त्रिप्रभृतीनामन्त्यमाहेति मत्वाऽऽह - त्रिप्रभृतीनामन्त्यम् इत्यादि। तमप्रत्ययान्तस्य तु ग्रहणे सति अणिओरनार्षयोः (4.1.78) इत्यादौ सुतारे यो दोष उक्तः, स इहापि तदनुसारेण वेदितव्यः। उत्तमस्य समीपमुपोत्तमम्, अव्ययं विभक्तिसमीप (2.1.6) इत्यव्ययीभावः॥
Prakriyasarvasvam¶
रमणीयकम । आचार्यकम् । ‘सहायाद्वेति वाच्यम् । सहायकम् । साहाय्यम् । ख्याञो यस्य शवद्भावात् सुप्रख्यात् ष्यञेव । सौप्रख्यम् ।
Vartika¶
सहायाद् वा ।
Sutra Prayogas¶
विलापाचार्यकं (रघुवंशम्): योपधाद्गुरूपोत्तमाद्वुञ् इति वुञ्।
साहायकम् (रघुवंशम्): योपधाद्गुरूपोत्तमाद्वुञ् इत्यादिना वुञ्।
रामणीयकम् (किरातार्जुनीयम्): योपधाद्गुरूपोत्तमाद्बुञ् इति भावार्थे वुञ्प्रत्ययः।
मानुष्यक (किरातार्जुनीयम्): योपधाद्गुरूपोत्तमाद्वुञ् इति वुञ्प्रत्ययः।
सहायक (शिशुपालवधम्): योपधाद्गुरूपोत्तमाद्वुञ् इति वुञ्-प्रत्ययः।
रामणीयकम् (भट्टिकाव्यम्): योपधाद् इति वुन्।