51134: गोत्रचरणाच्श्लाघात्याकारतदवेतेषु

Padacheda: गोत्र-चरणात् | S | 5 | 1 |

श्लाघा-अत्याकार-तदवेतेषु | S | 7 | 3 |

Sutrartha

षष्ठीसमर्थेभ्यः गोत्रप्रत्ययान्तेभ्यः चरणवाचिभ्यः च शब्देभ्यः ‘श्लाघा’, ‘अत्याकार’ तथा ‘तदवेत’ एतेषु विषयेषु ‘भावः’ तथा ‘कर्म’ अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।

अस्य सूत्रस्य अर्थं ज्ञातुमादौ सूत्रे विद्यमानानाम् शब्दानाम् परिचयम् प्राप्नुमः । 1. गोत्रवाचिनः शब्दाः - ये शब्दाः गोत्रप्रत्ययान्ताः सन्ति ते । अपत्याधिकारे पाठितस्य गोत्रप्रत्ययान्तशब्दस्य अयम् निर्देशः अस्ति । यथा - गार्ग्यः, कौञ्जायनः - आदयः । 2. चरणवाचिनः शब्दाः - वेदस्य काश्चन शाखाः ‘चरण’ नाम्ना प्रसिद्धाः सन्ति । यथा - कठ, कलाप, पिप्पलाद - आदयः । एतेषाम् चरणामध्येतारः अपि एतैः शब्दैः एव ज्ञायन्ते । यथा - कठं अधीते के कठाः, कलापमधीते ते कलापाः - आदयः । एते अध्येतृवाचिनः शब्दाः ‘चरणवाचिनः’ नाम्ना अस्मिन् सूत्रे निर्दिष्टाः सन्ति । 3. श्लाघा - विकत्थनम्, आत्मप्रौढी (the act of praising oneself) 4. अत्याकार - परस्य अवमानः (the act of insulting others) 5. तदवेत - ‘तत् प्राप्नोति सः’ इति अर्थः । (the act of attaining / obtaining something) इदानीम् सूत्रार्थमपि क्रमशः पश्यामः, यतः अस्मिन् सूत्रे अनेके बिन्दवः युगपत् उक्ताः सन्ति । 1. यदि कश्चन मनुष्यः गोत्रप्रत्ययान्तशब्दस्य साहाय्येन स्वस्य निर्देशम् कृत्वा आत्मस्तुतिम् करोति (यथा - ‘अहम् गार्ग्यः अस्मि’ इति श्लाघते), तर्हि अस्य भावस्य / कर्मणः निर्देशम् कर्तुम् गोत्रवाचिशब्दात् वुञ्-प्रत्ययः भवति । अयम् वुञ्-प्रत्ययान्तशब्दः प्रयोगे स्त्रीलिङ्गे एव प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः अपि विधीयते । उदाहरणम् एकम् पश्यामः - गार्ग्य + वुञ् + टाप् [‘गार्ग्य’ इति गोत्रप्रत्ययान्तशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे अजाद्यतष्टाप् (4.1.4) इति टाप्] → गार्ग्य + अक + आ [युवोरनाकौ (7.1.1) इति ‘वु’ इत्यस्य ‘अक’ आदेशः] → गार्ग्य + अक + आ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → गार्ग्य् + अक + आ [यस्येति च (6.4.148) इति अकारलोपः] → गार्ग् + अक + आ [‘गार्ग्य’ अयमपत्यप्रत्ययान्तशब्दः अस्ति, अतः आपत्यस्य च तद्धितेनाऽति (6.4.151) इत्यनेन यकारलोपः विधीयते ।] → गार्गक + आ → गार्गिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.44) इति इत्वम्] → गार्गिका [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] कश्चन गार्ग्यः श्लाघते; तस्य भावः कर्म वा गार्गिका ।अस्यैव निर्देशार्थम् ‘गार्गिकया श्लाघते’ इति प्रयोगः रूढ अस्ति । 2. यदि कस्य मनुष्यः स्वस्य चरणस्य निर्देशं कृत्वा आत्मस्तुतिम् करोति (यथा - ‘अहम् कठः अस्मि’ इति श्लाघते), तर्हि अस्य भावस्य / कर्मणः निर्देशं कर्तुम् चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । पूर्ववत् एव वुञ्-प्रत्ययान्तशब्दः प्रयोगे स्त्रीलिङ्गे एव प्रयुज्यते, अतः तत्र स्त्रीप्रत्ययः अपि विधीयते । उदाहरणम् एतादृशम् - कठ + वुञ् + टाप् [‘कठ’ इति चरणवाचिशब्दः । भावार्थकः वुञ्-प्रत्ययः । स्त्रीत्वे अजाद्यतष्टाप् (4.1.4) इति टाप्] → कठ + अक + आ [युवोरनाकौ (7.1.1) इति ‘वु’ इत्यस्य ‘अक’ आदेशः] → काठ + अक + आ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कठ् + अक + आ [यस्येति च (6.4.148) इति अकारलोपः] → काठक + आ → काठिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.4) इति इत्वम्] → काठिका [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] कश्चन कठः श्लाघते, तस्य भावः कर्म वा ‘काठिका’ । अस्यैव निर्देशार्थम् ‘काठिकया श्लाघते’ इति प्रयोगः रूढ अस्ति । 3. यदि कश्चन मनुष्यः अन्यस्य गोत्रस्य उत चरणस्य निर्देशं कृत्वा तस्य निन्दां करोति, तर्हि अस्य भावस्य / कर्मणः निर्देशं कर्तुम् तादृशात् गोत्रवाचिशब्दात् / चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । यथा - [अ] कश्चन ‘त्वम् गार्ग्यः असि’ इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा ‘गार्गिका’ । अस्यैव निर्देशार्थम् ‘गार्गिकया अत्याकुरुते’ इति निर्दिश्यते । [आ] कश्चन ‘त्वम् कठः असि’ इति अत्याकुरुते ( = निन्दति), तस्य भावः कर्म वा ‘काठिका’ । अस्यैव निर्देशार्थम् ‘काठिकया अत्याकुरुते’ इति निर्दिश्यते । 4. यदि कश्चन मनुष्यः कस्मिंश्चित् गोत्रे चरणे वा अन्तर्भवति (gets included in that specific गोत्र / चरण), तर्हि तस्य भावस्य / कर्मणः निर्देशार्थम् तादृशात् गोत्रवाचिशब्दात् / चरणवाचिशब्दात् वुञ्-प्रत्ययः भवति । यथा - [अ] गार्गिकामवेतः (‘गार्ग्य-गोत्रम् प्राप्तवान्’ - one who became the part of गार्ग्य gotra इत्यर्थः) । [आ] काठिकामवेतः (‘कठ-चरणम् प्राप्तवान्’ - one who became the part of the group that studies the कठ चरण of the Vedas.) एतादृशम् अनेन सूत्रेण ‘गार्गिकया श्लाघते / काठिकया श्लाघते / गार्गिकया अत्याकुरुते / काठिकया अत्याकुरुते / गार्गिकामवेतः / काठिकामवेतः’ एते प्रयोगाः सिद्ध्यन्ति । विशेषः - अस्य सूत्रस्य विषये व्याख्यानेषु केवलम् ‘गार्गिका’ तथा ‘काठिका’ एते द्वे एव उदाहरणे दत्ते स्तः । स्मर्तव्यम् - आ च त्वात् (5.1.120) इत्यनेन अत्र त्व-तल्-प्रत्ययौ अपि भवितुमर्हतः । यथा - 1) गार्ग्यत्वेन श्लाघते , कठत्वेन श्लाघते, गार्ग्यतया श्लाघते, कठतया श्लाघते । 2) गार्ग्यत्वेन अत्याकुरुते, कठत्वेन अत्याकुरुते, गार्ग्यतया अत्याकुरुते, कठतया अत्याकुरुते । 3) गार्ग्यत्वमवेतः, कठत्वमवेतः, गार्ग्यतामवेतः, कठतामवेतः ।

Vasu English Summary

The affix वुञ् comes in the sense of ‘nature or action thereof’ after a गोत्र (Patronymic/Family-name) and after the Name of a Vedic School when one boasts thereby or manifests his contempt thereby or when it means one who has attained that (or has come for an inspection or inquiring thereof).

Vasu English Translation

The affix वुञ् comes in the sense of ‘nature or action thereof’ after a गोत्र (Patronymic/Family-name) and after the Name of a Vedic School when one boasts thereby or manifests his contempt thereby or when it means one who has attained that (or has come for an inspection or inquiring thereof). The word श्लाघा means boasting; अत्याकार means ‘contempt’, तद् अवेतः means तद्प्राप्तः ‘who has gained that’, or तज्ञ्ज्ञः ‘who inquires that’. The word तत् refers to गोत्र and चरण ॥ The word तदवेतः means “who has obtained that or who has known that”.

To take first श्लाघा as गार्गिकया श्लाघते or काठिकया श्लाघते “boasts of belonging to the family of Garga, or the school of Katha”. To take अत्याकारः, as, गार्गिकयात्याकुरुते, काठिकयात्यकुरुते “he manifests contempt upon another, because of his belonging to the clan of Garga or School of Katha”. To take तदवेता as, गार्गिकामवेतः, काठिकामवेतः = प्राप्तः or अवगतवान् ॥

Why do we say “when it means boasting &c” Observe गर्ग्यत्वम्, कठत्वम् ॥ The य of गार्ग्य is elided in the above examples by (6.4.148) & (6.4.151).

Kashika

गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु। तत्र श्लाघा विकत्थनम्। अत्याकारः पराधिक्षेपः। तदवेतस्तत्प्राप्तस्तज्ज्ञो वा। तदिति गोत्रचरणयोर्भावकर्मणी निर्दिश्येते। तत्प्राप्तस्तदवगतवान् तदवेत इत्युच्यते। श्लाघायां तावत् — गार्गिकया श्लाघते। काठिकया श्लाघते। गार्ग्यत्वेन कठत्वेन च विकत्थत इत्यर्थः। अत्याकारे गार्गिकयात्याकुरुते। काठिकयात्याकुरुते। गार्ग्यत्वेन कठत्वेन च परानधिक्षिपतीत्यर्थः। तदवेतः — गार्गिकामवेतः। काठिकामवेतः। गार्ग्यत्वं कठत्वं च प्राप्त इत्यर्थः। तद् वावगतवानित्यर्थः। श्लाघादिष्विति किम्? गार्ग्यत्वम्। कठत्वम्॥

Siddhanta Kaumudi

अत्याकारोऽधिक्षेपः तदवेतस्ते गोत्रचरणयोर्भावकर्मणी प्राप्तः । अवगतवान्वा । गार्गिकया श्लाघते । गार्ग्यत्वेन विकत्थत इत्यर्थः । गार्गिकयाऽत्याकुरुते । गार्गिकामवेतः ॥

Balamanorama

गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु - गोत्रचरणात् । गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठन्ताद्भावकर्मणोर्वुञ्स्यात्श्लाघादिषु विषयेष्वित्यर्थः ।अपत्याधिकारादन्यत्र प्रवराध्यायप्रसिद्धं गोत्र॑मित्युक्तम् । ‘अत्याकार’ इत्यस्य विवरणम्-अधिक्षेप इति । तदवेत इत्येतद्विवृणोति — ते गोत्रेति । तच्छब्देन गोत्र चरणयोर्भावकर्मणी विवक्षिते । अवपूर्वादिणः प्राप्त्यर्थाज्ज्ञानार्थाद्वा कर्तरि क्तः । ते अवेतस्तदवेत इति विग्रहः ।द्वितीये॑ति योगविभागात्समासः । अवगतवान्वेति । ज्ञातवानित्यर्थः । गार्गिकयेति । गाग्र्यशब्दाद्वुञिआपत्यस्ये॑ति यलोपेयस्येति चे॑त्यकारलोपे लोकात्स्त्रीत्वे टापिप्रत्ययस्था॑दिति इत्त्वे गार्गिकाशब्दः । काठिकाया श्लाघते । इति चरणादुदाहार्यम् । अत्र श्लाघादयः पदान्तरोपात्ता एव प्रत्ययर्थान्वयिनो नतु प्रत्ययवाच्या इति बोध्यम् ।

Tattvabodhini

गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु - गोत्रचरणात् । गोत्रवाचिनश्चरणवाचिनश्च प्रातिपदिकाद्वुञ् स्याद्भावकर्मणोः । अपत्याधिकारादन्यत्र लौकिकं गोत्रम् । तेनापत्यप्रत्ययान्तेभ्य इत्यर्थः । प्रवराध्याये ये पठितास्तेभ्य इत्यपरे ।गोत्रं च चरणैः सहे॑ति जातित्वात्प्राणभृज्जाती॑त्यादिना अञि प्राप्ते वचनम् । श्र्लोघेत्यादि । श्र्लाघादिषु विषयभूतेष्वित्यर्थः । प्राप्त इति । इणः प्राप्त्यर्थत्वात् । अवपूर्णस्येणो ज्ञाने प्रसिद्धत्वादाह -अवगतवान्वेति । गार्गदिकयेति ।अपत्यस्ये॑ति यलोपः । चरणाद्वुञ् उदाहरणं तुकठिकया श्र्लाघते॑इत्यादि बोध्यम् । श्र्लाघादिष्विति किम् । गाग्र्यत्वम् । कठत्वम् ।

Nyaas

अपत्यनिमित्ता समाख्या गोत्रख्या, सा च प्रवराध्याये पठते। या च वेदाध्ययनप्रयुक्तान्? पुरुषानाचष्टे सा चरणशब्दस्याख्या। गोत्रञ्च चरणैः सह (म।भा।, 2।225) इति पारिभाषिकं गोत्रचरणयोर्जातित्वमिति प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् (5.1.129) इत्यादिनाऽञि प्राप्ते वुञो विधानम्। इह गोत्रचरणवाचिनी द्वे प्रातिपदिके, अर्थावपि द्वावेव - तत्र यथासंख्यं प्राप्नोति, तत्? पूर्वपदस्वरितत्वान्न भवति। अत एवाह - प्रत्येकं भावकर्मणोरर्थयोः इति। श्लाघादिषु विषयभूतेषु इति। तथा हि न भावः श्लाघादीनामन्यतमोऽपि भवितुमर्हति। शब्दप्रवृत्तिनिमित्तं भावः। न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमित्तं भवति। कर्मापि नैव श्लाघादिस्वभावं भवति। न हि गोत्रचरणानां श्लाघादयः कर्मतया रूढाः, यथा - अग्नेस्तापादयः; क्रियारूपत्वात्तेषाम्। साध्यतया भावकर्मणोः प्रत्ययार्थतया विषयभूतेषु वुञ्? भवति। तदवेतस्तत्प्राप्तः इति। इणोऽत्र गत्यर्थत्वात्। तज्ज्ञातो वा इति। अवपूर्वस्येणो ज्ञानेऽपि वृत्तिसम्भवात्। तच्छब्देन चेह गोत्रचरणयोः सम्बन्धिनी भावकर्मणैइ प्रतिनिर्दिश्येते। गार्गिकया इति। आपत्यस्य च तद्धितेऽनाति (6.4.151) इति यलोपः॥

Prakriyasarvasvam

गोत्राच्चरणाच्च श्लाघादौ विवक्षिते भावकर्मणोः वुञ् स्यात् । अत्याकारोऽ- धिक्षेपः । तदवेत इति तत् प्राप्तस्तदवगतवान् वा । गोत्रात्—गार्गिकया श्लाघते । गार्गिकयाधिक्षिपति । गार्गिकां प्राप्तः । गार्गिकामवगतवान् । एवं मित्रयुगोत्रेण श्लाघते । मैत्रेयिकया श्लाघते । ‘केकयमित्रयु—’ (७-३-२) इति यादेरियः । चरणो विद्याकृतं नाम । काठिकया श्लाघते । वैयाकरणिकयाधिक्षिपतीत्यादि ॥