51125: स्तेनाद्यन्नलोपश्च

Padacheda: स्तेनात् | S | 5 | 1 |

यत् | S | 1 | 1 |

नलोपः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः षष्ठीसमर्थात् ‘स्तेन’ शब्दात् ‘यत्’ प्रत्ययः भवति, तथा च प्रक्रियायाम् ‘स्तेन’ शब्दस्य ‘न’ इत्यस्य लोपः भवति ।

‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः ‘स्तेन’शब्दात् ( = चौरः / thief इत्यर्थः) औत्सर्गिकरूपेण ‘त्व’ तथा ‘तल्’ प्रत्यययोः प्राप्तयोः पक्षे यत्-प्रत्ययविधानम् कर्तुम् इदम् सूत्रम् पाठितमस्ति । वर्तमानसूत्रेण ‘स्तेनस्य भावः कर्म वा’ अस्मिन् अर्थे स्तेन-शब्दात् यत्-प्रत्ययः भवति, प्रक्रियायां च ‘न’ इत्यस्य लोपः अपि जायते - स्तेनस्य भावः कर्म वा = स्तेन + यत् → स्ते + य [नकारस्य लोपः] → स्तेय ।

स्तेनस्य भावः कर्म वा स्तेयम् ।

विशेषः - अस्य सूत्रस्य योगविभागम् कृत्वा ‘स्तेनात्’ इति भिन्नं सूत्रम् क्रियते, यस्मिन् च पूर्वसूत्रात् ‘ष्यञ्’ इति प्रत्ययमनुवर्त्यते । अनेन ‘स्तेनस्य भावः कर्म वा’ अस्मिन् अर्थे ष्यञ्-प्रत्ययः अपि भवति । स्तेनस्य भावः कर्म वा = स्तेन + ष्यञ् → स्तैन्यम् । ज्ञातव्यम् - आ च त्वात् (5.1.120) इत्यनेन ‘स्तेन’ शब्दात् ‘त्व’ प्रत्ययः ‘तल्’ प्रत्ययः अपि भवतः । स्तेनस्य भावः स्तेनत्वम् स्तेनता वा ।

Vasu English Summary

The affix यत् (यं) comes in the sense of ‘nature thereof or action thereof’ after the word स्तेन in the Genitive 6th-Case and न is elided before this affix.

Vasu English Translation

The affix यत् (यं) comes in the sense of ‘nature thereof or action thereof’ after the word स्तेन in the Genitive 6th-Case and न is elided before this affix. As स्तेनस्य भावः कर्म वा = स्तेयम् ॥ Some divide the sutra into two स्तेनात् ष्यञ् भवति (2) ततो यन्न लोपश्च as स्तैन्यम् and स्तेयम् ॥

Bhashya

स्तेनाद्यन्नलोपश्च (2007) (यत्प्रत्ययाधिकरणम्) (नेति संघातग्रहणसमर्थकं भाष्यम्) किमिदं नलोपे वर्णग्रहणम्, आहोस्वित् संघातग्रहणम्। किं चातः? यदि वर्णग्रहणम्, स्तेयम्, नलोपे कृते अयादेशः प्राप्नोति। अथ संघातग्रहणम्, अन्त्यस्य लोपः कस्मान्न भवति। सिद्धोऽन्त्यलोपः यस्य 6.4.148 इत्येव। तत्रारम्भसार्मथ्यात्सर्वस्य भविष्यति॥

Kashika

स्तेनशब्दात् षष्ठीसमर्थात् भावकर्मणोर्यत् प्रत्ययो भवति, नशब्दस्य लोपश्च भवति। स्तेनस्य भावः कर्म वा स्तेयम्। स्तेनादिति केचिद् योगविभागं कुर्वन्ति। स्तेनात् ष्यञ् भवति। स्तैन्यम्। ततो यन्नलोपश्च। स्तेयम्॥

Siddhanta Kaumudi

नेति संघातग्रहणम् । स्तेन चौर्ये पचाद्यच् । स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनादिति योगं विभज्य स्तैन्यमिति ष्यञन्तमप केचिदिच्छन्ति ॥

Balamanorama

स्तेनाद्यन्नलोपश्च - स्तेनाद्यन्नलोपश्च ।य॑दिति च्छेदः । स्तेनशब्दात्षष्ठन्ताद्भावे कर्मणि चार्थे यत्स्यादित्यर्थः । नेति सङ्घातग्रहणमिति ।नलोपश्चे॑त्यत्र नेत्यकार उच्चारणार्थो न भवति, किंतु नकाराऽकारसङ्गातग्रहणमित्यर्थः । स्तेयमिति । स्तेनशब्दाद्यत्प्रत्यये सति नेति सङ्गातस्य लोप इति भावः । नच नकारमात्रलोपेऽपियस्येति चे॑त्यकारलोपात्स्तेयमिति सिध्यतीति वाच्यम्,अचः परस्मि॑न्नित्यकारलोपस्य स्थानित्त्वेन तमाश्रित्य एकारस्य अयादेशप्रसङ्गात् । नच सङ्गातग्रहणेऽपिअलो ।ञन्त्यस्ये॑त्यकारस्यैव लौपः स्यादिति शङ्क्यं,यस्येति चे॑त्येव अकारस्य लोपसिद्धाविह नलोपविधिवैयथ्र्यात्,नानर्थकेऽलोऽन्त्यविधि॑रिति निषेधाच्च । योगं विभज्येति । स्तेनादिति पृथक्सूत्रम् । ष्यञित्यनुवर्तते । स्तेन शब्दाद्भावे कर्मणि च ष्यञित्यर्थः । समासकृदन्ततद्धितान्ताऽव्ययसर्वनामजातिसङ्ख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दरूपं गुणवचनसंज्ञकं भवतीति आकडारसूत्रभाष्यरीत्या स्तेनशब्दस्य पचाद्यजन्तस्य कृदन्तस्य गुणवचनत्वाऽभावादप्राप्ताविदं वचनम् । अव्युत्पन्नप्रतिपदिकतया गुणवचनत्वेऽपि यत्प्रत्ययेनापवादेन पक्षे समावेशार्थं वचनम् । ततोयन्नवलोपश्चे॑ति योगान्तरम् । स्तेनादित्यनुवृत्तावुक्तोऽर्थः । केचिदिति । भाष्याऽदृष्टवाद्योगविभागोऽयप्रमाणिक इति भावः ।

Tattvabodhini

स्तेनाद्यन्नलोपश्च - सङ्घातग्रहणमिति । वर्णग्रहणे तुयस्येति चे॑त्यकारलोपे सतीष्टं न सिध्यति,अचः परस्मि॑न्नित्यल्लोपस्य स्थानिवद्भावादयादेशप्रसङ्गादिति भावः । ननु सङ्घातग्रहणेऽपिअलोऽन्त्यस्ये॑त्यकारस्यैव लोपः स्यान्न तु सङ्घातस्येति चेत् । मैवम् । आरम्भसामर्थ्यात्,नानर्थकेऽलोन्त्यविधि॑रिति निषेधाद्वा तत्सिद्धेः ।

Padamanjari

‘स्तेन चौर्ये’ , पचाद्यतु, स्तेनः। नशब्दस्येति। एतेन सङ्घातस्येदं ग्रहणमिति दर्शयति। वर्णग्रहणे तु नकारलोपे कृतेऽकारस्य यस्येति लोपः। तस्य पूर्वविधौ स्थानिवद्भावादयादेशः प्राप्नोति। ननु सह्घातग्रहणेऽपि ठल्लोऽन्त्यस्यऽ इत्यन्त्यस्य प्राप्नोति ? सिद्धोऽन्त्यलोपः’यस्येति च’ इति; तत्रारम्भसामर्थ्यात्सर्वस्य भविष्यति,’नानर्थके’ लोन्त्यविधिरनभ्यासविकारेषुऽ इति च परिभाषां पठन्ति। स्तेनादिति योगविभागं कुर्वन्तीति। भाग्येऽनुक्तमपि स्तैन्यशब्दस्य प्रयोगबाहुल्यादिदमुक्तम् ॥

Prakriyasarvasvam

स्तेयम् । ‘स्तेनात्’ इति विभज्य ष्यञि कृते स्तेन्यम् ॥

Sutra Prayogas

  • कुसुमस्तेयसाध्वसात् (कुमारसम्भवम्): स्तेनाद्यन्नलोपश्च इति यत्प्रत्ययो नलोपश्च ।