51136: ब्रह्मणस्त्वः¶
Padacheda: ब्रह्मणः | S | 5 | 1 |
त्वः | S | 1 | 1 |
Sutrartha¶
होतृवाची यः ‘ब्रह्मन्’ शब्दः, तस्मात् षष्ठीसमर्थात् ‘भावः’ तथा ‘कर्म’ अनयोः अर्थयोः त्व-प्रत्ययः भवति ।
यज्ञस्य विधीन् यः करोति/कारयति सः ऋत्विग्विशेषः ‘होतृ’ नाम्ना ज्ञायते । ये शब्दाः होतृवाचकाः सन्ति, तेभ्यः ‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः होत्राभ्यश्छः (5.1.135) इत्यनेन छ-प्रत्ययः भवति । परन्तु होतृवाची यः ‘ब्रह्मन्’ शब्दः, तस्मात् एतम् छ-प्रत्ययम् बाधित्वा त्व-प्रत्ययः विधीयते । ब्रह्मणः भावः कर्म वा = ब्रह्मन् + त्व → ब्रह्मत्व [नलोपः प्रातिपदिकान्तस्य (8.2.7) इति नकारलोपः] ब्रह्मणः भावः कर्म वा ब्रह्मत्वम् । स्मर्तव्यम् - 1. वस्तुतः आ च त्वात् (5.1.120) इत्यनेन अत्र त्व-तल्-प्रत्यययोः प्रसक्तिः अस्ति एव । अतः केवलम् ‘ब्रह्मणः न’ इति उच्यते चेदपि छ-प्रत्ययस्य निषेधं कृत्वा त्व-तल्-प्रत्यययोः विधानम् भवितुमर्हति । परन्तु अत्र आचार्यः स्पष्टरूपेण ‘त्व’प्रत्ययस्य विधानम् करोति । एतत् विधानमेव अस्य ज्ञापकम्, यत् अत्र ‘तल्’ प्रत्ययः न भवेत् । अतः ‘ब्रह्मण भावः कर्म वा’ अस्मिन् अर्थे ब्रह्मन्-शब्दात् केवलम् त्व-प्रत्ययः एव भवति, न हि छ-प्रत्ययः उत तल्-प्रत्ययः । 2. अस्मिन् सूत्रे निर्दिष्टः ‘ब्रह्मन्’ शब्दः होतृवाचकः अस्ति चेदेव अस्य सूत्रस्य प्रसक्तिः विद्यते । जातिवाचकः ब्रह्मन्-शब्दात् (‘ब्राह्मण’ इत्यर्थः) तु औत्सर्गिकौ त्व-तल् प्रत्ययौ भवतः एव - ब्रह्मणः भावः कर्म वा ब्रह्मत्वम् / ब्रह्मता । ज्ञातव्यम् - 1. तस्य भावस्त्वतलौ (5.1.119) इत्यत्र प्रारब्धा त्व/तल्-प्रत्यययोः व्याप्तिः अत्र समाप्यते । 2. स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् (4.1.87) इत्यनेन स्त्री-शब्दात् यः नञ्-प्रत्ययः तथा पुरुष-शब्दात् यः स्नञ्-प्रत्ययः उक्तः अस्ति, तयोः व्याप्तिः अप्यत्र समाप्यते ।
Vasu English Summary¶
The affix त्व comes in the sense of of ‘nature or action thereof’ after the word ब्रह्मण denoting a kind of होत्रा priest.
Vasu English Translation¶
The affix त्व comes in the sense of of ‘nature or action thereof’ after the word ब्रह्मण denoting a kind of होत्रा priest. This debar छ. Thus ब्रह्मणो भावः कर्म वा = ब्रह्मत्वम् ॥ This debars तत् ॥ When ब्रह्मण् means a Brahman, by caste, we have ब्रह्मत्वम् or ब्रह्मता ॥ So much for the province of the affixes मञ् and स्नञ् (4.1.87).
Kashika¶
होत्राभ्य इत्यनुवर्तते। ब्रह्मन्शब्दाद् होत्रावाचिनस्त्वः प्रत्ययो भवति भावकर्मणोः। छस्यापवादः। ब्रह्मणो भावः कर्म वा ब्रह्मत्वम्। नेति वक्तव्ये त्ववचनं तलो बाधनार्थम्। यस्तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्शब्दः, ततस्त्वतलौ भवत एव। ब्रह्मत्वम्। ब्रह्मता। भवनावधिकयोर्नञ्स्नञोरधिकारः समाप्तः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य प्रथमः पादः॥
Siddhanta Kaumudi¶
होत्रावाचिनो ब्रह्मशब्दस्य स्यात् । छस्यापवादः । ब्रह्मत्वम् । नेतिवाच्ये त्ववचनं तलो बाधनार्थम् । ब्राह्मणपर्यायाद्ब्रह्मन्शब्दात्तु त्वतलौ । ब्रह्मत्वम् । ब्रह्मता ॥
Balamanorama¶
ब्रह्मणस्त्वः - ब्राहृणस्त्वः । ‘होत्राभ्यः’ इत्यनुवृत्तमेकवचनेन विपरिणम्यते । तदाह — होत्रावाचिन इति । ऋत्विग्वाचिन इत्यर्थः । ननुब्राहृणो ने॑त्येवास्तु, ब्राहृणश्छो न इत्यर्थलाभे सति छे निषिद्धेआ च त्वा॑दित्यधिकारात् ‘होत्राभ्यश्चः’ इत्येव भावकर्मणोस्त्वप्रत्ययः सिध्यतीत्यत आह — वेति वाच्ये ‘तस्य भावस्त्वतलौ’ इत्यनेन ब्राहृणः कर्मणि त्वस्याऽप्राप्तेस्तदर्थं त्वप्रत्ययविधानमिति न शङ्क्यम् । नापिब्राआहृणो ने॑त्युक्ते पूर्वसूत्रविहितानां त्वतल्छानां निषेधः स्यादित्यपि शङ्क्यम्, शब्दोपात्तस्य छस्यैव निषेधात् । अत्र होत्राग्रहणानुवृत्तेः प्रयोजनमाह — ब्राआहृणपर्यायादिति ।**** इति बालमनोरमायाम् नञ्स्नञोरधिकारः । ****सिद्धान्तकौमुदीतस्या उत्तरार्धम् ।अथ तिङन्ते भ्वादयः ।बालमनोरमाअस्तु मः पाणिनये भूयो मुनये तथास्तु वररुचये ।किंचास्तु पतञ्जलये भ्रात्रे विओआराय गुरवे च॥१॥व्याख्याता बहुभिः प्रौढैरेषा सिद्धान्तकौमुदी ।वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम्॥२॥ॐमङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मङ्गलयुक्ताः स्यु॑रिति भाष्यप्रमाणकं ग्रन्थमध्ये विघ्नविघातादिप्रयोजनाय कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबन्धाति — श्रोत्रेति । वेदाध्येता श्रोत्रियः ।श्रोत्रियंश्छन्दोऽधीते॑ इति वेदपर्यायाच्छन्दश्शब्दाद्द्वितीयान्तादधीत इत्यर्थे घन्प्रत्ययः,प्रकृतेः श्रोत्रादेशस्च निपातितः । श्रोत्रियस्य भावः — श्रौत्रम् ।श्रोत्रियस्य यलोपश्चे॑यलोपश्चे॑त्यणि इकारादुत्तरस्य यकाराऽकारसङ्घातस्य लोपे इकारस्ययस्येति चे॑ति लोपः । अर्हति — आर्यैः प्रशस्यमानेषु वेदविहितकर्मसु योग्यो भवतीत्यर्हन् ।अर्हः प्रंशसाया॑मिति शतृप्रत्ययः । अर्हतो भावः — आर्हन्ती ।अर्हतो नुम् चे॑ति ष्यञि आदिवृद्धौ प्रकृतेर्नुमामे षित्वान्ङीषिहलस्तद्धितस्ये॑ति यकारलोपेयस्येति चे॑त्यकारलोपः । स्त्रीत्वं लोकात् । श्रौत्रं च आर्हन्ती च वेदविहितकर्मयोग्यता च प्रसिद्धैरिति यावत् । गुण्यैरिति । नित्याऽनित्यवस्तुविवेकः, इहाऽमुत्रार्थफलभोगविरागः, शमदमादिसम्पत्तिः, मुमुक्षुत्वमित्यादिप्रशस्तगुणसम्पन्नैरित्यर्थः ।रूपादाहतप्रंशसयो॑रिति सूत्रेअन्येभ्योऽपि दृस्यते॑ इति वार्तिकेन यप् प्रत्ययः, तद्भाष्येगुण्या ब्राआहृण्या॑ इत्युदाहरणात् । महर्षिभिरिति । महान्तश्च ते ऋषयश्चेति कर्मधारयः ।आन्महत॑इत्यात्वम् । अतितपस्विभिरित्यर्थः । अहर्दिवमिति । अहश्च दिवा चेति वीप्सायाम्अचतुरे॑त्यादिना द्वन्द्वो निपातितः । अहन्यहनीत्यर्थः । तोष्टूय्यमानोऽपीति ।ष्टुञ् स्तुतौ॑, सकर्मकः । गुणवत्त्वेनाऽभिधानं स्तुतिः । अभिधानक्रियानिरूपितं कर्मत्वमादय ‘देवान् स्तौती’ त्यादौ द्वितीया । न तु गुणाभिधानमेव स्तुतिः, तथा सति गुणस्य धात्वर्थोपसङ्गृहीतत्वेनाऽकर्मकत्वापत्तेः । ‘धात्वादेः षः सः’ इति षकारस्य सकारे ष्टुत्वनिवृत्तौ, ‘धातोरेकाच’ इति भृशार्थे यङि,अकृत्सार्वधातुकयो॑रिति दीर्घे,सन्यङो॑रिति द्वित्वे, ‘शर्पूर्वाः खय’ इति सकारस्याभ्यासगतस्य लोपे,गुणो यङ्लुको॑रित्यभ्यासोकारस्य गुणे, ततः परस्य सस्यआदेशप्रत्यययो॑रिति षत्वे, ष्टुत्वेन तकारस्य टकारे,तोष्टूये॑ति यङन्तात् ‘सनाद्यन्ता’ इति धातुसंज्ञकात्कर्मणि लटि लटश्शानचिआने मु॑गिति मुमागमे,सार्वधातुके य॑गिति यकि,यङोऽकारस्यअतो लोप॑इति लोपे, ‘तोष्टूय्यमान’ इति रूपम् । भृशं स्तूयमानोऽपीत्यर्थः । अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृसं सङ्कीत्र्यमानोऽपीति यावत् । अगुण इति । निर्गुण इत्यर्थः ।साक्षी चेता केवलो निर्गुणश्चे॑त्यादिश्रुतेरिति भावः । निर्गुणस्य गुणवत्त्वेन कथनात्मिका स्तुतिर्विरुद्धेत्यापातप्रिपन्नं विरोधमपिशब्दो द्योतयति । गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वाऽभावान्न विरोध इत्युत्तरमीमांसायां स्पष्टम् । विभुरिति । सर्वव्यापकः परमेआर इत्यर्थः । वि जयतेतरामिति ।जि जये॑, अकर्मकः । उत्कर्षेण वर्तनं जयः ।विपराभ्यां जे॑रित्यात्मनेपदम् ।तिङश्चे॑त्यतिशायने तरप् ।किमेत्तिङव्यये॑ति तरबन्तात्स्वार्थे आम्प्रत्ययः ।तद्धिश्चाऽसर्वविभक्ति॑रित्यत्र तसिलादिषु परिगणनादामन्तमव्ययम् । सर्वोत्कर्षेण वर्तत इत्यर्थः । न च ‘विजयते’ इति समुदायस्याऽतिङन्तत्वात्कथं ततस्तरबिति वाच्यं, ‘वि’ इति हि भिन्नं पदम्, तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् । ततश्च जयत इत्यस्मादेव तरप् । न च ‘जयते’ इत्यस्यविपराभ्यां जे॑रिति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्यं शङ्क्यम् ।वी॑त्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षऽभावात्तिङन्तस्य प्रधानतया तस्य विशब्दाऽपेक्षत्वेऽपि बाधकाऽभावाच्चेत्यलम् । वृत्तकथनपूर्वकं वर्तिष्यमाणनिरूपणं प्रतिजानीते — पूर्वाद्र्ध इति । तत्रेति । निर्धारणसप्तम्यन्तात्त्रल् । तेषु तृतीयाध्यायवर्तिप्रत्ययेष्वित्यर्थः । दशेति । अनुबन्धभेदाल्लकारभेद इति भावः । पञ्चम इति । लेडित्यर्थः । छन्दोमात्रेति ।लिङर्थे ले॑डित्यत्रछन्दसि लुङ्लङ्लिटः॑ इति पूर्वसूत्राच्छन्दसीत्यनुवृत्तेरिति भावः । एतेन लेडपाणि इह कुतो न प्रदश्र्यन्त इति शङ्का निरस्ता ।
Tattvabodhini¶
ब्रह्मणस्त्वः - नेति वाच्ये इति । छप्रत्यये निषिद्धेतस्य भावस्त्वतलौ॑इत्यनेनैव त्वप्रत्ययः सिद्द्यति, विभक्तेरनुच्चारणाल्लाघवं च भवतीति भावः ।होत्राभ्यः॑इत्यनुवृत्तेः फलं दर्शयति -ब्राआहृणपर्यायादिति ।इति तत्त्वबोधिन्यां भावकर्मार्थाः ।तत्त्वबोधिनी- बालमनोरमा-शेखर-संवलितासिद्धान्तकौमुदीतस्या उत्तरार्धम् अथ तिङन्ते भ्वादयःतत्त्वबोधिनी — श्रौत्रार्हन्तीचणैर्गुण्यैर्महर्षिभिरहदिंवम् । स्तोष्टूय्यमानोऽप्यगुणो विभुर्विजयतेतराम्॥१॥अज्ञाननाशने दक्षं दीक्षितं भक्तरक्षणे । वटमूलाश्रयं त्र्यक्षं दक्षिणामूर्तिमाश्रये॥१॥ग्रन्थमध्ये विघ्नविघाताय कृतं मङ्गलं शिष्यशिक्षार्थं निबन्धाति — श्रौत्रेत्यादिना । श्रौत्रियस्य भावः श्रौत्रम् । हायनान्तयुवादिभ्योऽणिति सूत्रे श्रोत्रियस्य् यलोपश्चेति वार्तिकाद्यलोपेऽण्प्रत्यये च यस्येति चेतीतकारलोपः । अर्हतो भाव आर्हन्ती । गुणवचनब्राआहृणादिभ्यः इति सूत्रे अर्हतो नुम् चेत्युक्तेर्नुम्, ष्यञ् च । षित्त्वान्ङीषि हलस्तद्धितस्येतियलोपः । ताभ्यां वित्तैः — श्रौत्रार्हन्तीचणैः । तेन वित्तः इति चणप् । श्रोत्रियत्वयोग्यताभ्यां प्रसिद्धैरित्यर्थः ।किं च गुण्यैः गुणवद्भिः । प्रशस्तगुणयुक्तैरिति यावत् । रूपादाहतप्रशंसयोरिति सूत्रे [मत्वर्थे]अन्येभ्योऽपि दृश्यते॑ इत्युकागुण्या ब्राआहृणाः॑ इत्यस्य भाष्यादावुदाहृतत्वात् । अहर्दिवमिति । अहन्यहनि । प्रत्यहमित्यर्थः ।अचतुरे॑ त्यादिना निपातनात्साधुः । तोष्टूय्यमान इति । स्तौतेर्यङन्तात्कर्मणि शानच् ।सार्वधातुके य॑ गिति धातोर्यक् ।आने मु॑गिति मुक् । अपिशब्देन आपाततो विरोधं द्योतयति । वस्तुतस्तु न विरोधः । स्तुतिप्रयोजकीभूतानामनन्तकल्याणगुणानां श्रुतिस्मृतिसिद्धत्वेऽपि बियदादिवद्व्यावहारिकत्वात्तदभावस्य पारमार्थिकत्वात् । एतच्चोत्तरमीमांसायां स्पष्टमेव । विभुव्यापकः परमेआरः । अतिशयेन विजयते विजयतेतराम् । सर्वोत्कर्षेण वर्तत इति फलितोऽर्थः ।विपराभ्यां जे॑रिति इत्यस्य अप्रातिपदिकत्वादतिङन्तत्वाच्च । न चसह सुपे॑त्यत्र सहेति योगविभागात्तिङन्तेन विशब्दस्य समासे प्रातिपदिकत्वं स्यादेवेति वाच्यं,स च छन्दस्येवे॑ति तत्रत्यग्रन्थेन सह विरोधापत्तेः । किं च प्रातिपदिकत्वाभ्युपगमे सोरूत्पत्तिः स्यात्, लिङ्गसर्वनामताभ्युपगमेन नपुंसकत्वात्सोर्लुक्यपिह्रस्वो नपुंसके॑ इति ह्रस्वो दुर्वारः स्यात् । समुदायान्तर्गतस्यजयते॑ इत्यस्य तिङन्तत्वेऽपि साकाङ्क्षत्वेनाऽसामर्थ्यात्ततोऽपि भवितुं नार्हति,समर्थः पदविधि॑रिति चेत् । अत्राहुः — समुदायान्तर्गताज्जयत इत्यस्मादेव तरप् । तस्य विशब्देन सह साकाङ्क्षत्वेनाऽसामर्थ्यं शङ्क्यम् । तिङन्तस्य प्रधानत्वेन सापेक्षत्वेऽपि दोषाऽभावात्, उपसर्गस्य द्योतकत्वेन प्रत्येकमर्थ एव नास्तीति साकाङ्क्षताया वक्तुमशक्यत्वाञ्चेति॥ पूर्वार्द्धे कथितास्तुर्यपञ्चमाध्यायवर्तिनः ।प्रत्यया, अथ कथ्यन्ते तृतीयाध्यायगोचराः॥२॥वृत्तकथनपुर्वकं वर्तिष्यमाणमाह — पूर्वाद्र्ध इति । हलन्तेषुस्पृशोऽनुदके क्विन्,ऋत्विग्दधृक्,त्यदादिष्वि॑त्यादिना क्विन्नादिव्युत्पादनं प्रासङ्गिकमिति भावः । तुर्यः — चतुर्थः ।चतुरश्छ्यतावाद्यक्षरलोपश्चेत्युक्तत्वात् । अथेति । इहापि कृत्सुणचः स्त्रियामञ्,अणिनुणः॑ इत्यादिव्युत्पादनं प्रासङ्गिकंबोध्यचम्, प्राधान्येन तु तृतीयाध्यायस्था एवेहोच्यन्त इति भावः । अनुबन्धभेदेन भेदमाश्रित्याह — दश लकारा इति । प्रदश्र्यन्त इति । यद्यपि पञ्चमलकाररूपाण्यधुना न व्युत्पाद्यन्ते तथापि लकारः स्वरूपेण प्रदश्र्यतेलः कर्मणि च बावे चाकर्मकेभ्यः॑,लस्ये॑त्यादिसूत्रविषयतां व्युत्पादयितुमिति भावः । पञ्चम इति । लेडित्यर्थः । लट्-लिडिति स्वोक्तक्रमापेक्षयैव लेटः पञ्चमत्वं, न तु सूत्रोक्तमेणेति बोध्यम् ।
Padamanjari¶
ब्रह्मणस्त्वः ॥ नेति वक्तव्ये इति। च्छप्रत्यये प्रतिषिद्धे’तस्य भावस्त्वतलौ’ इत्येव प्रत्ययः सिद्धः, विभक्तेरनुच्चारणाल्लाघवं भवतीति भावः। यस्तु जातिशब्द इति’होत्राभ्यः’ इत्यनुवृतेः फलं दर्शयति ॥
Nyaas¶
नेति वक्तये इति। छप्रत्ययेऽप्यपवादे प्रतिषिद्धे त्वप्रत्ययः। `तस्य भावस्त्वतर्लौ (5.1.118) इत्येव सिध्यति। तस्मान्नेत्येव वक्तव्ये यदेतद्वचनं तत्त्वेन तलो बाधनं यथा स्यादित्येवमर्थम्। यदि नेत्युच्यते; तदा च्छे प्रतिषिद्धे यथा त्वो भवति तथा तलपि स्यात्। त्ववचने तु तलो बाधा सिद्धा भवति॥ इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां पञ्चमाध्यायस्य प्रथमः पादः॥ - - - अथ पञ्चमोऽध्यायःद्वितीयः पादः
Prakriyasarvasvam¶
ब्रह्माख्यस्यर्त्विजो भावो ब्रह्मत्वम् । छतलोर्बाधार्थं त्वविधिः ।