51133: द्वन्द्वमनोज्ञादिभ्यश्च¶
Padacheda: द्वन्द्वमनोज्ञादिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
द्वन्द्वसमासेन निर्मितेभ्यः प्रातिपदिकेभ्यः तथा च मनोज्ञादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः ‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः वुञ्-प्रत्ययः भवति ।
यः शब्दः द्वन्द्वसमासेन सिद्ध्यति, तस्मात् शब्दात् , तथा च मनोज्ञादिगणस्य शब्दात् ‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः ‘वुञ्’ प्रत्ययः भवति । उदाहरणानि एतानि - [अ] द्वन्द-समासनिर्मितानि प्रातिपदिकानि - एतानि प्रातिपदकानि ‘वुञ्’प्रत्ययं स्वीकृत्य प्रायः स्त्रीत्वे एव प्रयुज्यन्ते, अतः एतेभ्यः अजाद्यतष्टाप् (4.1.4) इति टाप्-प्रत्ययः अपि भवति । 1. गोपालाः च पशुपालाः च गोपालपशुपालाः । तेषाम् भावः - = गोपालपशुपाल + वुञ् + टाप् → गोपालपशुपाल + वु + आ [इत्संज्ञालोपः] → गोपालपशुपाल + अक + आ[युवोरनाकौ (7.1.1) इत्यनेन ‘वु’ इत्यस्य अक-आदेशः भवति।] → गौपालपशुपाल + अक + आ[तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → गौपालपशुपाल् + अक + आ [यस्येति च (6.4.148) इति अकारलोपः] → गौपालपशुपालक + आ → गौपालपशुपालिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः (7.3.4) इति इत्वम्] → गौपालपशुपालिका [अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] 2. शिष्यश्च उपाध्यायश्च शिष्योपाध्यायौ, तयोः भावः = शिष्योपाध्याय + वुञ् + टाप् → शैष्योपाध्यायिका । विशेषः - वस्तुतः ‘शिष्योपाध्याय’ शब्दः यकारोपधः गुरूपोत्तमः अस्ति, अतः योपधाद्गुरूपोत्तमाद्वुञ् (5.1.132) इत्यनेन अपि तस्मात् वुञ्-प्रत्ययः भवितुमर्हति । प्रयोगे तु स्त्रीप्रत्ययान्तः शब्दः एव दृश्यते, अतः वुञ्-प्रत्ययात् परम् टाप्-प्रत्ययः अपि विधीयते । [आ] मनोज्ञादिगणः अयम् - मनोज्ञ, कल्याण, प्रियरूप, छान्दस, छात्र, मेधाविन्, अभिरूप, आढ्य, कुलपुत्र, श्रोत्रिय, चोर, धूर्त, वैश्वदेव, युवन्, ग्रामपुत्र, ग्रामखण्ड, ग्रामकुमार, अमुष्यपुत्र, अमुष्यकुल, शतपत्र, कुशल । यथा - 1. मनोज्ञस्य भावः कर्म वा मानोज्ञकम् । 2. प्रियरूपस्य भावः कर्म वा प्रैयरूपकम् । 3. छान्दसः भावः कर्म वा छान्दसकम् । 4. छात्रस्य भावः कर्म वा छात्रकम् । 5. कल्याणस्य भावः कर्म वा काल्याणकम् । 6. श्रोत्रियस्य भावः कर्म वा श्रौत्रियकम् । विशेषः - ‘श्रोत्रिय’शब्दः हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यत्र निर्दिष्टे युवादिगणे अपि गृह्यते । 7. आढ्यस्य भावः आढ्यकम् । विशेषः - वस्तुतः अस्मात् शब्दात् योपधाद्गुरूपोत्तमाद्वुञ् (5.1.132) इत्यनेन अपि वुञ्-प्रत्ययः भवति । 8. यूनः भावः यौवनकम् । प्रक्रिया इयम् - युवन् + वुञ् → युवन् + अक [युवोरनाकौ (7.1.1) इत्यनेन ‘वु’ इत्यस्य अक-आदेशः भवति।] → यौवन् + अक [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → यौवनक [नस्तद्धिते (6.4.144) इति टिलोपे प्राप्ते प्रकृत्यैकाच् (6.4.163) इत्यत्र पाठितेन <! प्रकृत्या ऽके राजन्यमनुष्ययुवानः!> अनेन वार्त्तिकेन प्रकृतिभावः विधीयते । ] ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः आ च त्वात् (5.1.120) इत्यनेन पक्षे त्व-तल्-प्रत्ययौ अपि भवतः । यथा - गोपालपशुपालानाम् भावः कर्म वा गोपालपशुपालत्वम् / गोपालपशुपालता । मनोज्ञस्य भावः कर्म वा मनोज्ञकत्वम् / मनोज्ञता ।
Vasu English Summary¶
The affix वुञ् comes in the sense of ‘nature or action thereof’ after a द्वन्द समास and after the words मनोज्ञ etc.
Vasu English Translation¶
The affix वुञ् comes in the sense of ‘nature or action thereof’ after a द्वन्द समास and after the words मनोज्ञ etc. Thus गोपालपशुपालानां भावः कर्म वा = गोपालपशुपालिका, शैष्योपाध्यायिका, कौत्सकुशिकिका, मानोज्ञकम्, काल्याणकम् ॥
1 मनोज्ञ, 2 प्रियरूप, 3 अमिरूप, 4 कल्याण, 5 मेधाविन्, 6 आढ्य, 7 कुलपुत्र, 8 छान्दस, 9 छात्र, 10 श्रोत्रिय, 11 चोर, 12 धूर्त, 13 विश्वदेव (वैश्वदेव), 14 युवन्, 15 कुपुत्र, 16 ग्रामपुत्र, 17 ग्रामकुलाल,18 ग्रामषण्ड (ग्रामखण्ड), 19 ग्रामकुमार, 20 सुकुमार, 21 बहुल, 22 अवश्यपुत्र (अवश्य); 23 अमुष्यपत्र, 24 अमुष्यकुल, 25 सारपत्र, 26 शतपुत्र, 27 कुशल, 28 अहोपुरुष. ॥
Kashika¶
द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः। गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। शैष्योपाध्यायिका। कौत्सकुशिकिका। मनोज्ञादिभ्यः — मानोज्ञकम्। काल्याणकम्॥ मनोज्ञ। कल्याण। प्रियरूप। छान्दस। छात्र। मेधाविन्। अभिरूप। आढ्य। कुलपुत्र। श्रोत्रिय। चोर। धूर्त। वैश्वदेव। युवन्। ग्रामपुत्र। ग्रामखण्ड। ग्रामकुमार। अमुष्यपुत्र। अमुष्यकुल। शतपुत्र। कुशल। मनोज्ञादिः॥
Siddhanta Kaumudi¶
शैष्योपाध्यायिका । मानोज्ञकम् ॥
Balamanorama¶
द्वन्द्वमनोज्ञादिभ्यश्च - द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वान्मनोज्ञादिभ्यश्च षष्ठन्तेभ्यो वुञित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ् । स्त्रीत्वं लोकात् । यद्यपियोपधा॑दित्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम् ।
Padamanjari¶
गोत्रवाचिन इति। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, अपत्यवाचिन इत्यर्थः। अपत्यप्रत्ययान्तादिति यावत्। अपर आह - ग्रवराध्याये पठितानां गोत्राणामिह ग्रहणमिति। चरणवाचिनश्चेति। चरणशब्दः शाखाध्यायिषु पुरुषेषु रूढः, अनयोश्च गोत्रं च चरणैः सहेति जातित्वात्’प्राणभृज्जाति’ इत्यञ्प्राप्तः। प्रत्येक भावकर्मणोरर्थयोरिति।’यथासंख्यं तु सर्वत्रैवात्र प्रकरणे नेष्यते’ इति पूर्वमेवोक्तम्। स्लाघादिषु विषयभूतेष्विति। प्रत्ययार्थत्वं श्लाघादीनां न भवति, भावकर्मणोः प्रत्ययार्थयोरधिकृतत्वात् नापि प्रत्ययार्थविशेषणम् - ये ते भावकर्मणी श्लाघादयश्चेते भवत इति; अस्म्भवता। शब्दस्य प्रवृत्तिनिमितं हि भावः, न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमितम्, नापि गोत्रचरणशब्दानां श्लाघादिकर्मत्वेन प्रसिद्धिः। तस्मात् श्लाघादिषु भावकर्मणोः साध्यतया विषयभूतेष्वित्येवार्थः। तदवेतस्तत्प्राप्त इति। इणः प्राप्त्यर्थत्वात्। तज्ज्ञो वेति। अवपूर्वस्येणो ज्ञाने प्रसिद्धत्वात्। तच्छब्देन चेह गोत्रचरणयोर्भाकवर्मणी प्रतिनिर्द्दिश्यते। गार्गिकयेति। ठापत्यस्य चऽ इति यलोपः ॥ होत्राब्यश्च्छः ॥ होत्राशब्द ऋत्विजां वाचक इति। जुहोतेश्त्रन्, स्वभावतश्चायमृत्विक्ष्वपि स्त्रीलिङ्गः। अच्छावाकीयम् ब्राह्मणाच्छ्ंअसीयमिति। वेदे स्त्रीलिङ्गतापि दृश्यते’सो’ स्याच्छावाकीयां कुर्यात्ऽ इति ॥
Nyaas¶
द्वन्द्वात्? त्वतलादिषु प्राप्तेषु वुञ्विधीयते। मनोज्ञादिषु यो गुणवचनस्तस्मात्? ष्यञि, चौरधूर्तशब्दाभ्यामपि ब्राआहृणादित्वात्? ष्यञ्येव; युवशब्दाद्यवादित्वादणि, शेषेभ्यस्त्वतलोः। अमुष्यपुत्रः इति। निपातनाद्विभक्तेरलुक्। इह द्वन्द्वमनोज्ञादी द्वौ राशी, प्रत्ययार्थावपि भावकर्मणी द्वावेव - इति यथासंख्यं प्र्प्नोति, तत्पूर्ववदस्वरितत्वान्न भवति। अथ वा - चकारोऽत्र समुच्चयार्थः क्रियते। तस्य चान्यत्समुच्चेतव्यं नास्तीति वुञ्विधिमेव प्रत्येकं भावकर्मणोः समुच्चिनोति। तेनैकस्माद्राशेर्भावे कर्मणि च वुञ्? भवति, न तु यथासंख्यम्; अन्यथा हि समुच्चयो नोपपद्यते॥
Sutra Prayogas¶
वार्धके (रघुवंशम्): द्वन्द्वमनोज्ञादिभ्यश्च इति वुञ्प्रत्ययः।