51127: कपिज्ञात्योर्ढक्

Padacheda: कपि-ज्ञात्योः | S | 6 | 2 |

ढक् | S | 1 | 1 |

Sutrartha

‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः षष्ठीसमर्थात् ‘कपि’शब्दात् ‘ज्ञाति’शब्दात् च ढक्-प्रत्ययः भवति ।

‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः ‘कपि’ (= मर्कटः / monkey) तथा ‘ज्ञाति’ (स्वजातीय / सम्बन्धी / relative) एतौ शब्दौ औत्सर्गिकरूपेण ‘त्व’ तथा ‘तल्’ प्रत्ययौ स्वीकुरुतः ; पक्षे च वर्तमानसूत्रेण ढक्-प्रत्ययमपि प्राप्नुवतः । यथा - कपेः भावः कर्म वा कपि + ढक् → कपि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् (7.1.2) इति ‘ढ’ इत्यस्य एय-आदेशः] → कापि + एय [किति च (7.2.118) इति आदिवृद्धिः] → काप् + एय [यस्येति च (6.4.148) इति इकारलोपः] → कापेय । पक्षे ‘कपित्व’ तथा ‘कपिता’ - एतौ शब्दौ अपि भवतः । कपेः भावः कर्म वा कापेयम्, कपित्वम्, कपिता । तथैव - ज्ञातेः भावः कर्म वा ज्ञातेयम्, ज्ञातित्वम्, ज्ञातिता । स्मर्तव्यम् - यद्यपि अस्मिन् सूत्रे ‘भाव’ तथा ‘कर्म’ द्वयोः अर्थयोः विषये ‘कपि’ तथा ‘ज्ञाति’ द्वे प्रातिपदिके निर्दिष्टे स्तः, तथाप्यत्र ‘यथासङ्ख्यत्वम्’ न इष्यते । गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यस्मात् आरभ्य ब्रह्मणस्त्वः (5.1.136) इति यावत्सु सर्वेषु सूत्रेषु उक्तानाम् सर्वेषाम् प्रातिपदिकानाम् विषये ‘भाव’ तथा ‘कर्म’ द्वयोः अपि अर्थयोः प्रसक्तिः विद्यते ।

Vasu English Summary

The affix ढक् comes in the sense of ‘nature or action thereof’ after the words 1. कपि and 2. ज्ञाति।

Vasu English Translation

The affix ढक् comes in the sense of ‘nature or action thereof’ after the words 1. कपि and 2. ज्ञाति। Thus कपेर्भावः कर्म वा = कपियम्, ज्ञातेयम् ॥ The rule of यथासंख्य (1.3.10) does not apply any where under this head.

Kashika

कपिज्ञातिशब्दाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः। कपेर्भावः कर्म वा कापेयम्। ज्ञातेयम्। यथासंख्यमर्थयोः सर्वत्रैवात्र प्रकरणे नेष्यते॥

Siddhanta Kaumudi

कापेयम् । ज्ञातेयम् ॥

Laghu Siddhanta Kaumudi

कापेयम्। ज्ञातेयम्॥

Balamanorama

कपिज्ञात्योर्ढक् - कपिज्ञात्योर्ढक् । पञ्चम्यर्थे षष्ठी । आभ्यामपि षष्ठन्ताभ्यां भावकर्मणोर्ढगित्यर्थः । अत्र कपि ज्ञात्योर्भावकर्मणोश्च न यथासङ्ख्य, व्याख्यानात् ।

Tattvabodhini

कपिज्ञात्योर्ढक् - कपिज्ञात्योः । इह कपिज्ञाती द्वौ, भावकर्मणी अर्थावपि द्वौ, तयोर्यथासङ्ख्यं नभवति, अस्वरितत्वप्रतिज्ञानात् । एवंपत्यन्तपुरोहितादिभ्यःट,द्वन्द्वमनोज्ञादिभ्यः॑इत्यत्रापि बोध्यम् । ब्राआहृणादित्वादिति । यद्यपि ब्राआहृणादिषु राजन् शब्दः केवलः पठितस्तथाप्ययमेवअसे॑इति प्रतिषेधो ज्ञापयतिअस्त्यत्र प्रकरणे राजन्शब्देन तदन्तविधि॑रिति । एवं त ब्राआहृणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति । अन्ये तु ब्राआहृणादेराकृतिगणत्वादेव तदन्तात्कतंचित्ष्यञि सिद्धे राजन्शब्दस्य तत्रपाठो यका सह समावेशार्थ इति । तथा चावेष्टधिकरणे शाबरभाष्ये उक्तं -॒राज्ञः कर्म राज्यं, ब्राआहृणादित्वात् ष्यञि॑ति । पुरोहित, सङ्ग्रामिक, पथिक, सारथिकेत्यादयः पुरोहितादयः ।

Padamanjari

राजास यिति। राजशब्दोऽसेऽसमासे यकमुत्पादयति - राज्ञो भावः कर्म वा राज्यम्। ठसेऽ इति किम्? आधिराज्यम्, ब्राह्मणादित्वलात्यञ्। यद्यपि तत्र राजशब्दः पठ।ल्ते, तथाप्ययमेवास इति प्रतिषेधो ज्ञापयति - ठस्त्यत्र राजशब्दे तदन्तविधिःऽ इति। एवं च ब्राह्मणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति। अपर आह -‘ब्राह्मणादेराकृतिगणत्वादेव तदन्तात् ष्यञि सिद्धे राजशब्दस्य तत्र पाठो यका सह समावेशार्थः’ इति, तथा चावेष्ट।ल्धिकरणे शाबरबाष्ये उक्तम् -‘तस्य कर्मणि ष्यञ्’ इति ॥ प्राणमृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥ प्राणभृतःउप्राणिनः, प्राणिग्रहणमेव न कृतं वैचित्र्यार्थम्। प्राणभृद्ग्रहणातृणत्वं तृणतेत्यादौ न भवति, जातिग्रहणाद्देवदतत्वमित्यादौ न भवति। यत्विहेगन्तं लघुपूर्वं तस्मात्परत्वादण् भवति - तैतिरम्। उद्गात्रादिषु य ऋत्विग्वचनास्तेभ्यः’होत्राब्यश्च्छः’ इति छे प्राप्देऽञ् चविधीयते। सुष्ठुअदुष्ठुअभ्यां गुणवचनलक्ष्णे ष्यञि, वधूशब्दादिगन्तलक्षणेऽणि, शेषेभ्यस्त्वतलोः प्राप्तयोः। सुभगं मन्त्रे इति। सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगेऽञमुत्पादयति -‘महते सौभगाय’ , सर्वविधीनां च्छन्दसि विकल्पितत्वात्’हृद्भगसिन्ध्वन्त’ इत्युतरपदवृद्धिर्न भवति। अत एव मन्त्रे क्वचिदञ् न भवति - सौभाग्यमस्यै दत्वाय ॥ हायनान्तयुवादिभ्योऽण् ॥ हायनान्तात्वतलोः प्राप्तयोरण्विधानम्। यौवनमिति। ठन्ऽ इति प्रकृतिभावः, मनोज्ञादित्वद्वुञपि भवति। स्थविरशब्दस्य वयोलक्षणेऽञि प्राप्ते पाठः, होतृशब्दस्याप्युद्गात्रादित्वादञ्येव। पुरुषास इति। पुरुषशब्दोऽसमासेऽणमुत्पादयति, पौरुषम्, प्राणभृज्जातिवाचित्वादञ् प्राप्तः, मनुष्यजातिवचनो ह्रसौ न पुंस्शब्दपर्यायः पुंल्लिङ्गवचनः; स्त्रियामपि दशनात् - तस्यामस्यां च पुरुषीश्च धेनुके दद्यरिति। अस इति किम्? राजपुरुषत्वम्। कमण्डलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतल्निवृत्यर्थः पाठः। हृदयास इति। दृदयशब्दोऽसमासेऽणमुत्पादयति-हृदयस्य भावो हार्दम्,’हृदयस्य हृल्लोखयदण्लासेषु’ इति हृद्भावः। असे इति किम् ? अहृदयत्वम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधश्चिन्त्यप्रयोजनः। कुशलादीनां क्षेत्रज्ञान्तानां ब्राह्मणादित्वात्ष्यञपि भवति। श्रोत्रियस्य घलोपश्चेति। यदा’श्रोत्रियÄश्च्छन्दोधीते’ इत्यत्र च्छन्दसः श्रोतृभावो घश्च प्रत्यय इति पक्षः, तदा घलोपः; यदा तु’वाक्यर्थे पदवचनम्’ इति पक्षः, तदा घशब्देन य इति रुपं लक्ष्यते। क्वचितु यलोपश्चेति पाठः; तत्र यलोपे सङ्गातग्रहणम्, वर्णग्रहणे त्वकारस्य यस्येतिलोपे सति इकारस्य यणादेशप्रसङ्गः, सङ्घातलोपे त्विकारस्य यस्येति लोपः - सर्वथा श्रोत्रियस्य भावः श्रौत्रमिति ॥

Nyaas

कपिशब्दात्? इगन्ताच्च लघुपूर्वात् (5.1.131) इत्यणि प्राप्त इदं विधीयते। यथासंख्यम् इत्यादि। तत्र गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यत्र यतासंख्याभावः प्रतिपादितः। इहापि प्रतिपाद्यते। तत्रेदं प्रतिपादनम् - अत्र चकारोऽनुवर्तते, स चैकस्याः प्रकृतेर्भावे कर्मणि च ढग्विंधिं समुच्चिनोति। तेन यथांसंख्यं न भवति; अन्यथा हि समुच्ययो नोपपद्यते। अस्वरितत्वाद्वा यथासंख्यं न भविष्यति, प्रतिपादितं हि पूर्वम् - स्वरितत्वेन यथासंख्यं भवति इति। न चेह यथासंख्यार्थं स्वरितत्वं प्रतिज्ञायते॥

Prakriyasarvasvam

कापेयम् । ज्ञातेयम् ॥

Sutra Prayogas

  • प्रचक्रुर्नगरस्य (भट्टिकाव्यम्): अर्शआदिभ्योऽच् इति आमप्रत्यये प्रचक्रुरित्यनुप्रयोगो न घटते ।

  • ज्ञातेयं (भट्टिकाव्यम्): कपि ज्ञात्योढंकू इति।