51129: प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्¶
Padacheda: प्राणभृज्जाति-वयोवचन-उद्गात्रादिभ्यः | S | 5 | 3 |
अञ् | S | 1 | 1 |
Sutrartha¶
‘भावः’ तथा ‘कर्म’ एतयोः अर्थयोः षष्ठीसमर्थेभ्यः प्राणिवाचकेभ्यः शब्देभ्यः, वयोवाचिभ्यः शब्देभ्यः तथा उद्गात्रादिगणस्य शब्देभ्यः अञ्-प्रत्ययः भवति ।
प्रारम्भे अस्मिन् सूत्रे प्रयुक्तानाम् शब्दानामर्थम् पश्यामः - 1. प्राणभृज्जाति - ‘प्राणभृत् + जाति’ इत्यनेन अयम् शब्दः जायते । द्वयोः शब्दयोः प्रयोजनम् एतादृशम् - [अ] ‘प्राणभृत्’ = ‘प्राण + भृ + शतृ’ इति अयम् शब्दः सिद्ध्यति ।प्राणम् बिभर्ति (धारयति /पोषयति) सः प्राणभृत् । सर्वे जीविताः मनुष्याः, पशवः पक्षिणश्च अनेन शब्देन निर्दिश्यन्ते । वृक्षाणाम् / तृणानाम् / लतानाम् ग्रहणम् तु अनेन न क्रियते । [आ] ‘जाति’ - वर्गः/सामान्यरूपम् (category) इति अस्य शब्दस्य अर्थः । ‘अश्वः / गौः / गरुड. / सर्पः एतादृशाः पशूनाम् / पक्षिणाम् ये जातिवाचकाः शब्दाः, तेषामत्र ग्रहणम् भवति ; परन्तु ‘देवदत्तः / कपिला / वैनतेयः’ एतादृशानाम् विशिष्टव्यक्तिवाचकशब्दानाम् ग्रहणम् न भवति । The word जाति is used to indicate that the individual proper nouns are excluded, only the ‘class’ is included. अतः संक्षेपेण ‘प्राणभृज्जाति’ इत्यनेन पशूनाम् / पक्षिणाम् / मनुष्याणाम् गणस्य निर्देशः भवति, यथा - अश्व, गो, उष्ट्र, गरुड - आदयः । स्मर्तव्यम् - ‘पुरुष’ इति शब्दः अपि प्राणभृज्जातिवाचकः अस्ति, परन्तु सः हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यत्र निर्दिष्टे युवादिगणे समाविश्यते, अतः तस्मात् हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यनेन अण्-प्रत्ययः भवति । 2. वयोवचनम् - यैः शब्दैः आयुषः अवस्थानाम् निर्देशः भवति, ते शब्दाः वयोवाचिनः शब्दाः नाम्ना ज्ञायन्ते । (words indicating age / stages of life). यथा - शिशु, बाल, तरुण, प्रौढ, वृद्ध - आदयः । स्मर्तव्यम् - ‘युवन्’ तथा ‘स्थविर’ (old) एतौ शब्दौ वयोवाचिनौ स्तः । परन्तु एतौ शब्दौ हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यत्र निर्दिष्टे युवादिगणे समाविश्येते, अतः एताभ्याम् वर्तमानसूत्रेण अञ्-प्रत्यये तं बाधित्वा हायनान्तयुवादिभ्योऽण् (5.1.130) इत्यनेन अण्-प्रत्ययः एव विधीयते । 3. ‘उद्गात्रादिगण’ - अयम् गणः एतादृशः अस्ति - उद्गातृ, उन्नेतृ, प्रतिहर्तृ, रथगणक, पक्षिगणक, सुष्ठु, दुष्ठु, अध्वर्यु, वधू, ‘सुभग मन्त्रे’ (गणसूत्रम्) । एतेभ्यः सर्वेभ्यः शब्देभ्यः ‘तस्य भावः’ तथा ‘तस्य कर्म’ अस्मिन् अर्थे औत्सर्गिकरूपेण त्व-तल्-प्रत्यययोः प्राप्तयोः पक्षे वर्तमानसूत्रेण अञ्-प्रत्ययः अपि भवति । यथा - 1. प्राणभृज्जातिवाचकाः शब्दाः - अश्वस्य भावः कर्म वा = अश्व + अञ् → आश्वम् । उष्ट्रस्य भावः कर्म वा औष्ट्रम् । नकुलस्य भावः कर्म वा नाकुलम् । हंसस्य भावः कर्म वा हांसम् ।गरुडस्य भावः कर्म वा गारुडम् । मनुषस्य भावः कर्म वा मानुषम् । 2. वयोवाचिनः शब्दाः - शिशोः भावः कर्म वा = शिशु + अञ् → शैशवम् । तरुणस्य भावः कर्म वा तारुणम् । किशोरस्य भावः कर्म वा कैशोरम् । कुमारस्य भावः कर्म वा कौमारम् । प्रौढस्य भावः कर्म वा प्रौढम् । वृद्धस्य भावः कर्म वा वार्द्धम् । 3. उद्गात्रादिगणस्य शब्दाः - उद्गातुः भावः कर्म वा = उद्गातृ + अञ् → औद्गात्रम् । उन्नेतुः भावः कर्म वा औन्नेत्रम् । सुष्ठोः भावः कर्म वा सौष्ठवम् । अध्वर्योः भावः कर्म वा आध्वर्यवम् । अस्मिन् उद्गात्रादिगणे ‘सुभग मन्त्रे’ इति गणसूत्रम् विद्यते । अस्य अर्थः अयम् - ‘सुभग’ शब्दात् अनेन सूत्रेण ‘अञ्’ प्रत्ययं कृत्वा ‘सौभग’ अयम् शब्दः केवलं वेदेषु दृश्यते । यथा - ‘उच्छ्र॑यस्व मह॒ते सौभ॑गाय’ (ऋग्वेदः 3.8.2) । अत्र प्रक्रिया इयमस्ति - सुभग + अञ् → सौभग + अ [हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (7.3.19) इत्यनेन उभयपदयोः वृद्धौ प्राप्तायाम् ‘सर्वे वेदाः छन्दसि विकल्प्यन्ते’ इति न्यायेन अत्र केवलम् पूर्वपदवृद्धिः एव भवति] → सौभग् + अ [यस्येति च (6.4.148) इति अन्तिमवर्णलोपः] → सौभग अन्यत्र तु ‘सुभग’ शब्दः ब्राह्मणादिगणे स्वीकृत्य गुणवचनब्राह्मणादिभ्यः कर्मणि च (5.1.124) इत्यनेन तस्मात् ष्यञ्-प्रत्ययः क्रियते - सुभग + ष्यञ् → सौभाग + य [हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (7.3.19) इत्यनेन उभयपदवृद्धिः] → सौभाग् + य [यस्येति च (6.4.148) इति अकारलोपः] → सौभाग्य सुभगस्य भावः कर्म वा सौभाग्यम् । ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः सर्वेभ्यः शब्देभ्यः औत्सर्गिकौ त्व-तल्-प्रत्ययौ अपि भवतः । यथा - अश्वस्य भावः कर्म वा अश्वत्वम् / अश्वता । शिशोः भावः कर्म वा शिशुत्वम् / शिशुता । उद्गातुः भावः कर्म वा उद्गातृत्वम् / उद्गातृता ।
Vasu English Summary¶
The affix अञ् comes in the sense of ‘nature or action or thereof’ after class names of animals and words expressing age as well as after उद्गात्रि etc.
Vasu English Translation¶
The affix अञ् comes in the sense of ‘nature or action or thereof’ after class names of animals and words expressing age as well as after उद्गात्रि etc. Thus अश्वस्य भावः कर्म वा = आश्वम्, औष्ट्रम्, कौमारम्, कैशोरम्, औद्गात्रम्, औन्नेत्रम् ॥
1 उद्गातृ, 2 उन्नेतृ, 3 प्रतिहर्तृ, 4 प्रशास्तृ, 5 होतृ, 6 पोतृ, 7 हर्तृ (कर्तृ), 8 रथगणक 9 पत्तिगणक (पक्षिगणक पत्रिगणक), 10 सुष्ठु, ॥ दुष्ठु, 12 अध्वर्यु, 13 वधू, 14 सुभग मन्त्रे ॥ In the Mantra literature subhaga takes अञ्, as महते सैभगाय; sometimes there is no अञ्, as सौभाग्य मस्मै दत्वाय ॥
Kashika¶
प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च अञ् प्रत्ययो भवति भावकर्मणोरर्थयोः। अश्वस्य भावः कर्म वा आश्वम्। औष्ट्रम्। वयोवचनेभ्यः — कौमारम्। कैशोरम्। उद्गात्रादिभ्यः — औद्गात्रम्। औन्नेत्रम्॥ उद्गातृ। उन्नेतृ। प्रतिहर्तृ। रथगणक। पक्षिगणक। सुष्ठु। दुष्ठु। अध्वर्यु। वधू। सुभग मन्त्रे (ग०सू०१२०) उद्गात्रादिः॥
Siddhanta Kaumudi¶
प्राणभृज्जाति, आश्वम् । औष्ट्रम् । वयोवचने, कौमारम् । कैशोरम् । औद्गात्रम् । औन्नेत्रम् । सौष्ठवम् । दौष्ठवम् ॥
Balamanorama¶
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् - प्राणभृज्जाति । प्राणभृतः — प्राणिनः, तज्जातिवाचिभ्यो, वयोविशेषवाचिभ्य, उद्गात्रादिभ्यश्च षष्ठन्तेभ्यो भावकर्मणोरञित्यर्थः । प्राणभृज्जातीति । उदाहरणसूचनम् । एवं वयोवचनेति ।
Tattvabodhini¶
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् - प्राणभृज्जति । मुखनासासंचारी वायुः प्राणः ।प्राणिजाती॑त्येव सुवचम् । प्राणभृदिति किम् । तृणत्वम् । तृणता । जातीति किम् । देवदत्तत्वम् । औद्गात्रमिति । उद्गात्रादिषु ये ऋत्विग्वचनास्तेभ्योहोत्राभ्यश्छः॑इति छे प्राप्ते अञ् विधीयते । सुष्ठु दुष्ठु — -द्वाभ्यां गुणलक्षणे ष्यञि प्राप्ते, वधूशब्दादिगन्तलक्षमेऽणि, शेषेभ्यस्त्बतलोः प्राप्तयोः । इह तुसुभगं मन्तेर॑इतिपटते । सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगे अञमुत्पादयतीत्यर्थः ।महते सौभगाय॑ । सर्वविधीनां छन्दसि वैकल्पिकत्वादिहह्मद्भगसिन्ध्वन्ते॑इत्युत्तरपदवृद्धिर्न भवति । अतएव मन्तेरऽपि क्वचिदञ् न भवति ।सौभाग्यमस्यै दत्त्वाय॑ । इह ष्यञ् ।
Nyaas¶
प्राणबृतः प्राणिन उच्यन्ते, तेषां जातिः प्राणभृज्जातिरित्यर्थः। तद्वाचिनो यतासम्भवं त्वतलादिष्वञ्विधीयते। प्राणभृद्ग्रहणात्? तृणादिशब्देभ्यो न भवति-तृणत्वम्, तुणतेति। जातिग्रहणाद्देवदत्तादिशब्देभ्यो न भवति - देवदत्तत्वम्, देवदत्तता। यदिगन्तं लघुपूर्वं च तस्मात्? परत्वादण्भवति। तैत्तिरम् इति। वयोवचनादपि यथायोगं त्वतलादिष्वेव प्राप्तेष्वञ्विधानम्। वचनग्रहणं स्वरूपविधिनिरासार्थम्; अन्यथा वयःशब्दादेव स्यात्। तत्रोद्गात्रादिषु उद्गात्, उन्नतृ, अध्वयुइत्येतेषामृत्विग्वचनात्? **होत्राभ्यश्छः** (5.1.135) इति च्छे प्राप्ते सत्यञर्थः पाठः। सुष्ठु, दुष्ठु, वधू - इत्येतेषां लघुपूर्वलक्षणेऽपि प्राप्ते। `सुभगमन्त्रे इति। सुभगशब्दो मन्त्रविषयेऽञमुत्पादयति - महते सौभागाय। सर्वे विधयश्छन्दसि विकल्प्यन्ते (पु।प।वृ। 56) इति। ह्मद्भगसिन्ध्वन्त (7.3.19) इत्युत्तरपदवृद्धिर्न भवति। मन्त्र इति किम्? सौभाग्यम्, ब्राआहृणादित्वात्। शेषणामिह पाठस्त्वतलोः प्राप्तयोः॥
Prakriyasarvasvam¶
प्राणिजातेः— आश्वम् । औष्ट्रम् । मनुष्यस्यापत्ययलोपः, मानुषम् । मानुष्यं तु मानुषात् ष्यञ्युक्तम् । वयोवचनात् कौमारम् । कैशोरम् । ‘उद्गातृ- नेतृप्रतिहर्तृकर्तृहोतृप्रशास्त्रध्वर्युवधूसुष्ठुदुष्ठुरथगणकपत्तिगणकेभ्यः’ (स० ५-१- १६६) । औद्गात्रम् । औन्नेत्रम् । प्रातिहर्तम् । कार्त्रम् । हौत्रम् । प्राशास्त्रम् । आध्वर्यवम् । वाध्रवम् । सौष्ठवम् । दौष्ठवम् । राथगणकम् । पात्तिगणकम् । भर्तृत्वं भार्त्रमित्यपि माधवः ॥
Sutra Prayogas¶
शैशवे (रघुवंशम्): प्राणभृज्जातिवयोवचनोद्गात्र- इत्यञ्प्रत्ययः।
ससौष्ठवश्च (किरातार्जुनीयम्): उद्गात्रादिभ्योऽञ् इति अञ्प्रत्ययः।