Sutras 1 - 20¶
- 34001: धातुसम्बन्धे प्रत्ययाः
- 34002: क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः
- 34003: समुच्चयेऽन्यतरस्याम्
- 34004: यथाविध्यनुप्रयोगः पूर्वस्मिन्
- 34005: समुच्चये सामान्यवचनस्य
- 34006: छन्दसि लुङ्लङ्लिटः
- 34007: लिङर्थे लेट्
- 34008: उपसंवादाशङ्कयोश्च
- 34009: तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः
- 34010: प्रयै रोहिष्यै अव्यथिष्यै
- 34011: दृशे विख्ये च
- 34012: शकि णमुल्कमुलौ
- 34013: ईश्वरे तोसुन्कसुनौ
- 34014: कृत्यार्थे तवैकेन्केन्यत्वनः
- 34015: अवचक्षे च
- 34016: भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्
- 34017: सृपितृदोः कसुन्
- 34018: अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा
- 34019: उदीचां माङो व्यतीहारे
- 34020: परावरयोगे च