34007: लिङर्थे लेट्¶
Padacheda: लिङर्थे | S | 7 | 1 |
लेट् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix लेट् (Vedic Subjunctive) is optionally used the छन्दस् (Vedas) wherever the लिङ् (Benedictive) can be used.
Vasu English Translation¶
The affix लेट् (Vedic Subjunctive) is optionally used the छन्दस् (Vedas) wherever the लिङ् (Benedictive) can be used. Thus in the sense of ‘command’ &c., he may be employed instead of लिङ्. This is called the Vedic Subjunctive and is peculiar to the Vedas only. Thus जोषिषत् (Rig. II.35.1) ‘may he make us beautiful’. तारिषत् (Rig. I.25.12) ‘may he increase’. पताति विद्युत् (Rig. VII.25.1) ‘may the thunder-bolt fall’. भवाति (Rig. V. 37.5) ‘may he become’. So also मन्दिषत्, नेता, नेषत्, तक्षिषत्, उदधिं च्यावयाति ।
Kashika¶
छन्दस्यन्यतरस्यामिति वर्तते। लिङर्थे, यत्र लिङ् विधीयते विध्यादिः, हेतुहेतुमतोर्लिङ् (३.३.१५६) इत्येवमादिः, तत्र छन्दसि विषयेऽन्यतरस्यां लेट् प्रत्ययो भवति। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। नेता इन्द्रो नेषत् (शा०श्रौ० ७.९.१)। तक्षिषत्। पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। प्र॒जाप॑तिर् उद॒धिं च्या॑वया॒ति (तै०सं०३.५.५.२)॥
Siddhanta Kaumudi¶
विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥
Padamanjari¶
जोषिषदिति ।’जुषी प्रीतिसेवनयोः’ अनुदातेत्, व्यत्ययेन परस्मैपदम्, ठितश्च लोपः परस्मैपदेषुऽ,’लेटो’ डाटौऽ इति तिपोऽडागमः,’सिब्बहुलं लेटि’ इति सिप्, इडागमः । तारिषदिति । सिब्विधौ बहुलं णिद्वद्भाव उक्तः, ततो वृद्धिः । पतातीति ।’पत्लृ गतौ’ , तिप आडागमः ॥
Nyaas¶
नेषत्। तक्षिषत् इति। नयतेस्तक्षते श्च लेट्, तिप्, इतश्च लोपः परस्म #ऐपदेषु )3.4.97) इतीकारलोपः, सिब् बहुलं लेटि (3.1.34) इति सिप्, लेटोऽडाटौ (3.4.94) इत्याट्। तक्षिषदित्यत्र आर्धधातुकस्य (7.2.35) इत्यादिनेट्। जोषिषदित्यादीन्युदाहरणानि `सिब् बहुलं लेटि`( 3.1.34) इत्यत्र व्युत्पादितानि॥