34014: कृत्यार्थे तवैकेन्केन्यत्वनः

Padacheda: कृत्यार्थे | S | 7 | 1 |

तवै-केन्-केन्य-त्वनः | S | 1 | 3 |

Sutrartha


Vasu English Summary

The affixes 1. तवै 2. केन् 3. केन्य 4. त्वन् are added to roots in the छन्दस् (Vedas), in the sense of कृत्य-affixes.

Vasu English Translation

The affixes 1. तवै 2. केन् 3. केन्य 4. त्वन् are added to roots in the छन्दस् (Vedas), in the sense of कृत्य-affixes. The force of kritya affixes is to denote ‘action’ (भाव) and ‘object’ (कर्मन्). Thus अन्वेतवै = अन्वेतव्यम्; परिधातवै = परिधातव्यम्; नावगाहे = नावगाहितव्यम्; दिदृक्षेण्यः (Rig. I.146.5) = दिदृक्षितव्यम्; शुश्रूषेण्यः = शुश्रूषितव्यम्; कर्त्वम्; (Rig. I.I0.2) = कर्तव्यम् ।

The affix तवै was mentioned in sutra (3.4.9) also; there it has the force of the Infinitive, and here that of the Passive Participle. For its accent, see (VI.I.200.2. 51).

Kashika

छन्दसीत्येव। कृत्यानामर्थो भावकर्मणी। तस्मिन् कृत्यार्थे छन्दसि विषये तवै केन् केन्य त्वन् इत्येते प्रत्यया भवन्ति। तवै — अन्वे॑त॒वै (ऋ०७.४४.५)। अन्वेतव्यम्। परि॑धात॒वै (शौ०सं० २.१३.२)। परिधातव्यम्। परिस्तरितवै (काठ०सं० ३२.७)। परिस्तरितव्यम्। केन् — नावगाहे। नावगाहितव्यम्। केन्य — दि॒दृ॒क्षेण्यः॒ (ऋ० १.१४६.५)। शुश्रूषेण्यः (तै०आ० ४.१.१)। दिदृक्षितव्यम्। शुश्रूषितव्यम्। त्वन् — कर्त्वं॑ ह॒विः (शौ०सं० १.४.३)। कर्तव्यम्। तुमर्थे छन्दसीति सयादिसूत्रेऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर्द्रष्टव्यः॥

Siddhanta Kaumudi

नम्लेच्छितवै । अवगाहे । दिदृक्षेण्यः (दि॒दृ॒क्षेण्यः) । भूर्यस्पष्ट कर्त्वम् (भूर्यस्प॑ष्ट॒ कर्त्व॑म्) ॥

Padamanjari

कृत्यानामर्थो भाकर्मंणी इति । यद्यपि भव्यगेयादिषु कर्ताप्यर्थः, वह्यं करणम्, स्नानीयं चूर्णित्यादिषु करणादयः; तथापि न तत्र कृत्यत्वेन कर्त्रादिषु विधानम्, किं तर्हि ? स्वरूपेण, अतः कृत्यतया विधानं भावकर्मणोरेवेति भावः । दिदृक्षेण्य इति । दृशेः सन्नन्तात्केन्यः । शुश्रूषेण्य इति । शृणोतेः । सयादिसूत्रेऽपीति । येन सयादयो विधीयन्ते तत्र’तुमर्थे सेसेनसे’ इत्यत्रेत्यर्तः । तस्य तुमर्थादन्यत्रेति । अन्यथाऽनेनैव तुमर्थे भावेऽपि सिद्धत्वादनर्थकं तत्स्यात् ॥

Nyaas

कृत्यानामर्थो भावकर्मणी इति। तयोरेव कृत्यक्तखलर्थाः (3.4.70) इतिभावकर्मणोः कृत्यानां विधानात्। अन्तेतवै इति। अनुपूर्वादिणस्तवै। परिधातवै इति। परिपूर्वाद्दधातेः। परिस्तरितवै इति। परिपूर्वादेव स्तृञ् आच्छादने (धातुपाठः-1252) इत्यस्मात्। अवगाहे इति। गाहु विलोडने (धातुपाठः-649) अक्पूर्वः। दिदृक्षेण्यः इति। दृशः सन्, द्विर्वचनम्, उरत्त्वम्, रपरत्वम्, `सन्यतः (7.4.79) इतीत्त्वम्, हलन्ताच्च (1.2.10) इति गुणाभावः, व्रश्चादिसूत्रेण (8.2.36) षत्वम्,**षढोः कः सि** (8.2.41) इति कत्वम्, दिदृक्ष इति स्थिते केन्यप्रत्ययः, अतो लोपः (6.4.48) । शुश्रूषेण्यः इति। शृणोतेः सन्, अज्झनगमां सनि (6.4.16) इति दीर्घः, द्विर्वचनमभ्यासकार्यम्, शुश्रूष इति स्थिते केन्यप्रत्ययः। कत्त्र्वम् इति। करोतेस्त्वम्। सयादिसूत्रेऽपि तवै विहितः इति। सयादीनां सूत्रं सयादिसूत्रम्, येन सयादयो विहितास्ततत्रापि तवैप्रत्ययो विहितः। तस्य तुमर्थात् इत्यादि। यदि तु तस्य तुमर्थ एव भावे विधिः स्यात् तस्यानर्थक्यं स्यात्; अनेनैव सिद्धत्वात्। तस्माद्यद्यपि तत्र तुमर्थ इत्युच्यते, तथापि ततोऽन्यत्र कर्मकारके कर्त्रादौ तवैप्रत्ययविधानं वेदितव्यम्॥

Prakriyasarvasvam

परिस्तरितवै । परिस्तरितव्य इत्यर्थः । केन्नावगाहे । नावगाहितव्यमित्यर्थः । केन्य-दिदृक्षेण्यमिन्द्र । त्वन्-कर्त्वं हवि ।