34005: समुच्चये सामान्यवचनस्य

Padacheda: समुच्चये | S | 7 | 1 |

सामान्यवचनस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the second case – समुच्चयेऽन्यतरस्याम् (3.4.3), where many actions are spoken of together, the verb that is made to follow, should be such as has the sense common to all those verbs.

Vasu English Translation

In the second case – समुच्चयेऽन्यतरस्याम् (3.4.3), where many actions are spoken of together, the verb that is made to follow, should be such as has the sense common to all those verbs. Thus ओदनं भुङ्क्ष्व, सक्तून्पिब, धानाः खादेत्येवायमभ्यवहरति ‘he takes his meals, eating rice, drinking saktu, and tasting fried corn’. Here the verb अभ्यवहरति has a sense common to all the verbs in the Imperative mood. The object of taking the second verb, having the senses common to all the antecedent verbs, is to prevent the repetition of all the previous ones. In the secular vernacular, the brevity, however, is often not approved.

Bhashya

समुच्चये सामान्यवचनस्य (1166) (593 अनुप्रयोगविधिसूत्रम्॥ 3 । 4 । 1 । आ.4) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। (प्रयोजनभाष्यम्) अनुप्रयोगो यथा स्यात्। (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। हिस्वान्तमनभिव्यक्तपदार्थकं तेनापरिसमाप्तोर्थ इति कृत्वानुप्रयोगो भविष्यति। (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनं सामान्यवचनस्येति वक्ष्यामीति॥ (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। सामान्यवचनस्यानुप्रयोगोस्तु विशेषवचनस्येति। सामान्यवचनस्यैवानुप्रयोगो भविष्यति। लघुत्वात्॥ समुच्चये सा॥ 5 ॥

Kashika

द्वितीये लोड्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः। ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खादेत्येवायमभ्यवहरति। सर्वविशेषानुप्रयोगनिवृत्त्यर्थं वचनम्। लाघवं च लौकिके शब्दव्यवहारे नाद्रियते। भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमटेत्येवायमटतीत्यत्रापि कारकभेदात् क्रियाभेदे सति सामान्यवचनता सम्भवत्येव॥

Siddhanta Kaumudi

समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्याथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ।<!क्रियासमभिहारे द्वे वाच्ये !> (वार्तिकम्) ॥ याहियाहीति याति । पुनःपुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीति । यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमितियूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ध्वमास्वादयध्वमित्यभ्यवहरध्वे । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकामास्वादयते । एतेन पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामहाङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिव इति व्याख्यातम् । अवस्कन्दन-वनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देस्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥

Balamanorama

समुच्चये सामान्यवचनस्य - समुच्चये सामान्यवचनस्य । उच्यतेऽनेनेति वचनः । सामान्यवाचिन इत्यर्थः । फलितमाह — सामान्यार्थकस्येति । समुच्चीयमानक्रियासामन्यवाचिन इत्यर्थः । अनुप्रयोगादिति । अनुप्रयोगादिति । अनुप्रयुज्यमानादित्यर्थः । तत इति । अनुप्रयुज्यमानधातुप्रकृतिकलडादिभिरित्यर्थः । हिस्वाभ्यां तु न सङ्ख्याकारकाद्यभिव्यक्तिः । तथा च भाष्यं — हिस्वान्तमव्यक्तपदार्थकं तेनाऽपरिसमाप्तोऽर्थः॑ इत्यादि ।क्रियासमभिहारे द्वे वाच्ये॑ इति वार्तिकं द्विरुक्तप्रक्रियायां व्याख्यातम् । इदमाद्यसूत्रविहितलोडन्तविषयमिति भाष्ये स्पष्टम् । क्रियासमभिहारे लोटमुदाहरति — याहियाहीति यातीति । भाष्ये ‘इति’ शब्दस्य दर्सनादिति भावः । ह्रन्तस्येति । याहि याहीत्यस्येत्यर्थः । एककर्तृकतकमिति । यातीति यानिकर्तुस्तदेकत्वस्य च प्रतीतेरित्यर्थः । अभेदान्वये इति । तथा च पुनः पुनरतिशयेन वा यद्यानं तदात्मकमेककर्तृकं वर्तमानं यानमिति बोधः । तिङन्तेषु सर्वत्र क्रियाविशेष्यक एव बोध इति सिद्धान्तादेवमुक्तिः । एवमिति । याहि याहीति यातः । याहि याहीति यान्तीतित्यादिसकलपुरुषवचनेषूदाहार्यमित्यर्थः । याहि याहीति ययौ । याहि याहीति याता । याहि याहीति यास्यति । याहि याहीति यातु । लोण्मध्यमपुरुषबहुवचनतादेशविषये लोटो हिभावविकल्प उक्तः — वा च तध्वमोरिति । तत्र हिभावपक्षे याहि याहीति यूयं यातेति सिद्धवत्कृत्य अभावपक्षे आह — यात यातेति यूयं यातेति । याहि याहीत्ययात् । याहि याहीति यायात् । लुङ्याह — याहि याहीत्ययासीदिति । लृङि उदाहरति — अयास्यद्वेति । याहि याहीत्ययास्यदिति लृङि रूपम् । यास्यति वेति पाठे लृटि उदाहरणम् । क्रमस्तु न विवक्षितः । पक्षे इति । ध्वंविषये स्वादेशाऽभावपक्षे इत्यर्थः । यूयमधीध्वमिति — लोण्मध्यमपुरुषबहुवचनम् । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयते । पच्यस्व पच्यस्वेति पच्यते इत्युदाहार्यम् । अथसमुच्चये सामान्यवचनस्ये॑ त्यस्योदाहरति — समुच्चये त्विति । अभ्यवहरतीति । पानं द्रवद्रव्यस्य । दन्तसंमर्दनं विना भक्षणम् । खादनं तु — कठिनद्रव्यस्य चर्वणम् । तयोः सामान्यरूपमभ्यवहरणम्, यथाकथंचिद्भक्षणात्मकत्वात् । पक्षे हिस्वाविति । तध्वमोर्विषये कदाचिद्धिस्वादेशौ पक्षे इत्यर्थः ।पिब खादेत्यभ्यवहरते॑ त्युदाहार्यम् । अत्रेति ।पिब खादेत्यभ्यवहरती॑त्यादौ समुच्चीयमानपानखादनादिक्रियाविशेषाणामनुप्रयुज्यमानधातुवाच्याभ्यवहरणातमकक्रियासामान्येनाऽभेदान्वय इत्यर्थः । पक्षे सक्तूनिति । समुच्चये लोडभावपक्षे अनुप्रयोगोऽपि सामान्यवचनस्य नास्तीति भावः । एतेनेति ।समुच्चयेऽन्यतरस्या॑मितिसमुच्चये समान्यवचनस्ये॑ति च सूत्रद्वयेन तदुदाहरणप्रदर्शनेन चपुरीमवस्कन्दे॑त्यादि माघकाव्यस्थं श्लोकवाक्यं व्याख्यातमित्यर्थः । बली — रावणो, नमुचिद्विषा = इन्द्रेण सह, विगृह्र - विरोधं प्राप्य, पुर्याः = अमरावत्याः, अवस्कन्दनं = पीडनं, नन्दनवनस्य लवनं, रत्नानां मोषणम्, अमराङ्गनानां हरणमित्येवंप्रकारेण अहर्दिवम् = अहन्यहनि, अस्वास्त्यं चक्रे = कृतवानित्यन्वयः । इत्थंशब्द इतिपर्यायोऽवस्कन्दनादिक्रियाविशेषणामस्वस्थ्यक्रियासामान्येऽभेदं ग्राहयति । फलितमाह — अवस्कन्दलवनादिति । आदिना मोषणं हरणं च गृह्रते । भ्रममूलकत्वमुपपादयति — द्वितयीसूत्रे इति । अननुवृत्तेरिति । भाष्ये तदनुवृत्तेरनुक्तत्वादिति भावः । तदनुवृत्त्यभ्युपगमे बाधकमाह - लोडन्तस्येति ।समुच्चयेऽन्यतरस्या॑मिति सूत्रे ‘क्रियासमभिहारे’ इत्नुवृत्तौ ‘अवस्कन्दे’ त्यादिलोडन्तानांक्रियासमभिहारे द्वे वाच्ये॑ इति द्वित्वापत्तेरित्यथः । भ्रम एवेति । मध्यमपुरुषांऽशे, एकवचनांशे च भ्र एवेत्यर्थः । कुत इत्यत आह — पुरुषवचनसंज्ञे इह नेत्युक्तत्वादिति । अत्र भाष्ये हिस्वान्तयोरनभिव्यक्तसङ्ख्याकालकत्वात्तदभिव्यक्तयेऽनुप्रयोगस्य न्यायत एव प्राप्तत्वादनुप्रयोगविधिर्माऽस्तु इत्युक्तम् । एवं चतानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थान॑मिति श्रुतौसमुच्चयेऽन्यतरस्या॑मिति लोटो हिस्वावेव भवतो,न त्वनुप्रयोगः । तत्र जननमरणक्रिययोरेव विवक्षिततया सङ्ख्याकालभिव्यक्तेरविवक्षितत्वेन तत्राऽनुप्रयोगस्य प्रयोजनाऽभावात् । एतेनआ च सत्यलोकादाचाऽवीचेर्जायस्वम्रियस्वेति विपरिवर्तमानमात्मानं जीवलोकं चालोक्याऽस्मिन् संसारे नित्याऽशुचिदुःखात्मकं प्रसङ्ख्यानमुपवर्तते॑ इति वाचस्पत्यग्रन्थेऽपि जायस्व म्रियस्वेति व्याख्यातम् । नचात्रसमुच्चयेऽन्यतरस्या॑मित्यत्र ‘क्रियासमभिहारे’ इत्यस्याननुवृत्तेरुक्तत्वात्कथमिह पौनःपुन्यमसकृत्पदगम्यमित्यदोषः । कल्पतरुग्रन्थे तु जायस्व म्रियस्वेत्यत्र ‘क्रियासमभिहारे’ इति सूत्रेण लो॑डित्युक्तम्, तत्तु द्वित्वापत्तेरुपेक्ष्यमिति शब्देन्दुशेखरे प्रपञ्चितम् । इति श्रीवासुदेवदीक्षितविरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां लकारार्थप्रक्रियानिरूपणम् । अथ मत्वर्थीयप्रकरणम् । — — — — — — — —

Padamanjari

ननु च हिस्वान्तस्यानभिव्यक्तपदार्थकत्वाद्धातुसम्बन्धे प्रत्ययविधानाच्चानुप्रयोगः सिद्धः, नार्थ एतेन ? तत्राह - सर्वविशेषेति । असत्यस्मिन्यतो धातोर्लोड्विहितः स तस्यानुप्रयुज्येत । एवमपि हिस्वान्तार्थस्याभिव्यक्तिर्भवत्येव धातुसम्बन्धश्चोपपद्यते । ननु च सर्वेषु विशेषेषु यदनुगतं सामप्त्न्यं तद्वाचिनोऽनुप्रयोगेऽपि तस्य सामान्यस्य सन्निहितेषु विशेषेषु पर्यवसानादर्थाभिव्यक्तिश्च सर्वेषां भवति, धातुसम्बन्धश्च । तत्र सामान्यवचनस्यैकस्यानुप्रयोगोऽस्तु, बहूनां विशेषवाचिनां वेति सम्प्रधारणायामेकस्यैव भविष्यति, लघुत्वातत्राह - लाघवं चेति । अन्यथा तरुद्रुमादीनामेव प्रयोगः स्यात्, न वनस्पत्यादिशब्दानामिति भावः । ननु भ्राष्ट्रमटेत्यादौ तस्यैवानुप्रयोगात्कथं सामान्यवचनता ? तत्राह - भ्राष्ट्रमटेत्यादि । कारकभेदात् क्रियाभेदे सतीति । भेदनिबन्धनः समुच्चयोऽप्येवमेवात्रोपपाद्यः ॥

Nyaas

सर्वविशेषानुप्रयोगानिवृत्त्यर्थम् इति। यदीदं नारभ्यते तदा यावद्भ्यो धातुभ्यो लोड्विहितस्तावतामेवानुप्रयोगः प्रसज्येत; ततस्तन्निवृत्यर्थमेतत्। ननु चान्तरेणापीदं वचनं लाघवात् सामान्यवचनस्यैवानुप्रयोगो भविष्यति। सर्वविशेषानुप्रयोगे ह्रोदनं भुङ्क्ष्व सक्तून् पिब धानाः खाद इत्येवायं भुङ्क्ते पिबति खादतीति सर्वेषु तदा तरुशब्दस्यैव प्रयोगः स्यात्, वनस्पतिशब्दप्रभृतयस्तूच्छिद्येरन्, न चैवम्, तस्मान्नास्ति लौकिकशब्दप्रयोगे गुरुलाघवं प्रत्यादरः। ननु च भ्राष्ट्रमटेत्यादावुदाहरणे कारकस्यैव समुच्चयो भ्राष्ट्रादेः, न क्रियायाः, तस्या एकत्वात्; अनेकाधारत्वञ्च सामान्यम्, एकत्वे क्रियायास्तन्न सम्भवति, तत्कथं सामान्यवचनस्यानुप्रयोग उपपद्यते? इत्याह - `भ्राष्टमट`इत्यादि। गतार्थम्॥

Prakriyasarvasvam

समुच्चये लोटि सामान्यवाचिनो धातोरनुप्रयोगः कार्यः । हरिं स्मर कीर्तयार्चयेति सेवते । अत्र स्मरणकीर्तनार्चनानां सेवात्वात् सामान्यवचनत्वम् । एकधातुत्वेऽपि स्यात् । हरिं भज रमां भज गुहं भजेति भजति । क्रियाबहुत्वनियमो न । हरिं कीर्तयार्चयेति सेवते । आत्मनेपदे तु – धनं ददस्व सुरान् यजस्व हरिं भजस्वेति पुण्यं कुरुते, अकृत, करिष्यत इति वा । अनुप्रयुक्तधात्वनुसारेण पूर्वलोटामर्थः कल्प्यः१ । तध्वमोस्तु हरिं स्मर कीर्तयार्चयेति सेवध्वे । स्मरत कीर्तयतार्चयतेति सेवध्वे । एवं ध्वंविषयेऽप्यूह्यम् । ‘समुच्चयेऽन्यतरस्या’मित्युक्ते- र्लडादयोऽपि यथाप्राप्तं स्युः । हरिं स्मरति कीर्तयत्यर्चयतीति सेवत इत्यादि२ ॥ <karika>यथास्थितं वार्तिकभाष्यवाक्यं न वृत्तिकारादिभिरप्युपात्तम् । सा कौमुदी चार्थत एव वक्ति तथा वदन्तो वयमप्यदोषाः ॥</karika> अथ सनुच्यते-

Sutra Prayogas

  • बलाद्वा (किरातार्जुनीयम्): समुच्चये इति विश्वकोशवचनेन ‘वा’ शब्दस्य अर्थविकल्पाः दर्शिताः।

  • वा (किरातार्जुनीयम्): समुच्चये इति विश्वः।

  • चक्रे (शिशुपालवधम्): समुच्चये सामान्यवचनस्य इत्यनुप्रयोगः।

  • इतीहमानस्तिग्मांऽशो (भट्टिकाव्यम्): समुच्चये सामान्य- वचनस्य इत्यनुप्रयोगः।

  • वसन् (भट्टिकाव्यम्): समुच्चये सामान्यवचनस्य इत्यनुप्रयोगः।