34013: ईश्वरे तोसुन्कसुनौ

Padacheda: ईश्वरे | S | 7 | 1 |

तोसुन्-कसुनौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

The affixes तोसुन् and कसुन् are added to roots in the छन्दस् (Vedas) to form Infinitives, when the word ईश्वर is in composition.

Vasu English Translation

The affixes तोसुन् and कसुन् are added to roots in the छन्दस् (Vedas) to form Infinitives, when the word ईश्वर is in composition. Thus ईश्वरोऽभिचरितो = अभिचरितुम् । ईश्वरो विलिखः = विलिखितुम् । ईश्वरो वितृदः = वितर्दितुम् ।

Kashika

तुमर्थे छन्दसीत्येव। ईश्वरशब्द उपपदे छन्दसि विषये तुमर्थे धातोस्तोसुन्कसुन्प्रत्ययौ भवतः। ईश्वरोऽभिचरितोः। अभिचरितुमित्यर्थः। ईश्वरो विलिखः। विलेखितुम् इत्यर्थः। ईश्वरो वितृदः। वितर्दितुमित्यर्थः॥

Siddhanta Kaumudi

ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः ॥

Padamanjari

वितृद इति । ठोतृदिर्हिंसानादरयोःऽ ॥

Nyaas

अभिचरितोः` इति। चरतेरभिपूर्वात् तोसुन्प्रत्ययः। विलिखः, वितृदः इति। लिखतेः, {उ तृदिर् धातुपाठः-}तृदिर्हिंसादानयोः` (धातुपाठः-1446) इत्येतस्माच्च कसुन्॥

Prakriyasarvasvam

ईश्वरयोगे तुमर्थेएतौ स्तः । ‘कृन्मेजन्तः’ wait ‘कृत्वा तोसुन् कसुनः’ (१-१-४०) इत्यव्यय- त्वम् । ईश्वरो तिथिरेव चरितोः । ईश्वरो विलिखः ।