34009: तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः

Padacheda: तुमर्थे | S | 7 | 1 |

से-सेन्-असे-असेन्-क्से-कसेन्-अध्यै-अध्यैन्-कध्यै-कध्यैन्-शध्यै-शध्यैन्-तवै-तवेङ्-तवेनः | S | 1 | 3 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the following affixes come after the roots with the force of the affix तुमुन् , viz. 1. से 2. सेन् 3. असे 4. असेन् 5. क्से 6. क्सेन् 7. अध्यै 8. अध्यैन् 9. कध्यै 10. कध्यैन् 11. शाध्यै 12. शाध्यैन् 13. तवै 14. तवै 15. तवैन् ।

Vasu English Translation

In the छन्दस् (Vedas) the following affixes come after the roots with the force of the affix तुमुन् , viz. 1. से 2. सेन् 3. असे 4. असेन् 5. क्से 6. क्सेन् 7. अध्यै 8. अध्यैन् 9. कध्यै 10. कध्यैन् 11. शाध्यै 12. शाध्यैन् 13. तवै 14. तवेङ् 15. तवेन् । In the Vedic literature the Infinitive is formed by the above 15 affixes. These, when stripped of their indicatory letters, will be found to consist of the following five affixes :– (1) से = से, सेन् and क्से ॥ (2) असे = असे, असेन् and कसेन् ॥ (3) अध्यै = अध्यै, अध्यैन्, कध्यै, कध्यैन्, शध्यै and शध्यैन् ॥ (4) तवै ॥ (5) तवे = तवेङ् and तवेन् ।

The difference in the affixes is made by four indicatory letters, viz. न्, क्, श् and ङ् । The forces of क्, श् and ङ् have already been explained; the indicatory न् makes the word take the udatta accent on the first syllable (6.1.197). Thus से is acute (3.1.3); सेन् has acute on the first syllable of the word (6.1.197); असे has accent of the affix (3.1.3); असेन् throws the accent on the first syllable of the word; the indicatory श makes the numbers 11 and 12 Sarvadhatuka, and the root takes the proper Vikarana of its class before these affixes; while before तवै, the acute falls both on the first syllable and the last syllable simultaneously (6.1.200), (6.2.51).

Before going to give examples of these affixes, let us explain what is meant by तुमर्थ ‘the sense of the affix तुम्’ । The word तुमर्थ is here equivalent to भाव or ‘action’; for the pratyayas or affixes, to which no meaning has been assigned in grammar, convey the meaning of the bases to which they are added. Thus no special meaning having been attached to तुमुन्, it will convey the meaning of the root to which it is added, i. e. it will denote the ‘action’ of the verb, or Infinitive mood. (1) से—वक्षे रायः । (2) सेन्—तवामेषे स्थानाम् (Rig. V. 66.3). (3 and 4) असे and असेन्—अस्मे शतं शरदों जीवसे धा (Rig. III.36.10). So also कृत्वे दक्षाय जीवसे (Rig. X. 57.4). With असेन् the word will be जीवसे । (5) क्से—प्रेषे भगाय । (6) कसेन्—गवामिव श्रियसे (Rig. V. 59.3). It has not the नित् accent (6.1.197) which would have given us श्रियसे । (7 and 8) अध्यै, अध्यैन्—कर्मण्युपचारध्यै । (9) कध्यै—इन्द्राग्नी आहुवध्यै (Rig. VI.60.13). (10) कध्यैन्—श्रियध्यै । (11 and 12) शध्यै, शध्यैन्—पिबध्यै (Rig. IV. 27.5); the accent however is on पि । सह मादयध्यै (Rig. VI.60.13). (13) तवै—सोममिन्द्राय पातवै । (14) तवेङ्—तं ते गर्भं हवामहे दशमे मासि सूतवे (Rig. X. 184.3). (15) तवेन् = गन्तवे (Rig. I.46.7); कर्तवे (Rig. 1.85. 9); हर्तवे ॥

Bhashya

तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः (1170) (अथाव्ययसंज्ञककृत्प्रकरणम्) (595 सेप्रभृतिप्रत्ययविधिसूत्रम् ॥ 3 । 4 । 1 आदृ6) (आक्षेपभाष्यम्) तुमर्थे इत्युच्यते कस्तुमर्थो नाम। (समाधानभाष्यम्) कर्ता तुमर्थः। (समाधाननिरासभाष्यम्) यद्येवं नार्थस्तुमर्थग्रहणेन येनैव खल्वपि हेतुना कर्तरि तुमुन्भवति तेनैव हेतुना सयादयोपि भविष्यन्ति ॥ (समाधानसाधकभाष्यम्) एवं तर्हि सिद्धे सति यत्तुमर्थग्रहणं करोति तज्ज्ञापयत्याचार्यः अस्त्यन्यः कर्तुस्तुमुनोर्थः इति ॥ कः पुनरसौ?। भावः ॥ (आक्षेपभाष्यम्) कुतो नु खल्वेतद्। भावे तुमुन् भविष्यति, न पुनः कर्मादिषु कारकेषु स्यादिति ॥ (समाधानभाष्यम्) ज्ञापकात्तावदयं कर्तुरपकृष्यते। न चान्यस्मिन्नर्थे आदिश्यते। अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ती ति स्वार्थे भविष्यति। तद्यथा। गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति। सोऽसौ स्वार्थोभवन् भावे भविष्यति। किमेतस्य ज्ञापने प्रयोजनम् - अव्ययकृतो भावे भवन्ति इत्येतन्न वक्तव्यं भवति ॥ तुमर्थे से ॥ 9 ॥

Kashika

छन्दसीत्येव। तुमुनोऽर्थस्तुमर्थः। तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति। तुमर्थो भावः। कथं ज्ञायते? वचनसामर्थ्यात् तावदयं कर्तुरपकृष्यते। न चान्यस्मिन्नर्थे तुमुन्नादिश्यते। **अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति**(परि० ११३)। स्वार्थश्च धातूनां भाव एव। से — वक्षे रायः। सेन् — ता वा॒मेषे॒ रथा॑नाम् (ऋ० ५.६६.३)। असे, असेन् — क्रत्वे॒ दक्षा॑य जी॒वसे॑ (शौ०सं० ६.१९.२)। स्वरे विशेषः। क्से, कसेन् — प्रेषे॒ भगा॑य॒ (तै०सं० १.२.११.१)। श्रि॒यसे॑ (ऋ० ५.५९.३)। अध्यै, अध्यैन् — काममुपाचरध्यै। स्वरे विशेषः। कध्यै — इ॒न्द्रा॒ग्नी॒ आ॒हु॒वध्यै॑ (मा०सं० ३.१३)। कध्यैन् — श्रियध्यै। शध्यै, शध्यैन् — वा॒यवे॒ पिब॑ध्यै (ऋ० ७.९२.२)। स॒ह मा॑द॒यध्यै॑ (मा०सं०३.१३)। तवै — सोम॒मिन्द्रा॑य॒ पात॒वै। तवेङ् — दश॒मे मा॒सि सूत॑वे (ऋ० १०.१८४.३)। तवेन् — स्वर्दे॒वेषु॒ गन्त॑वे (शौ०सं० ९.५.१७)। क॑र्तवे (ऋ० ९.८३.२०)। हर्तवे॥

Siddhanta Kaumudi

से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥

Padamanjari

कथं ज्ञायत इति ।’कर्तरि कृत्’ इति वचनात् भावस्तुमर्थो नोपपद्यत इति प्रश्नः । अपकर्षःउअपनयः, स्वार्थश्च धातूनां भाव इति साध्यमानरूपः । स एव हि धातुवाच्यो भावः । घञादिवाच्यस्तु भावो धात्वर्थव्यतिरिक्तः सिद्धतारूपः । पिबध्यै इति ।’यको बहुलं च्छन्दसि’ इति लुकि पिबादेशः । मादयर्ध्यै इति । यकः प्रसङ्गे व्यत्ययेन शप् ॥

Nyaas

कथं ज्ञायते इति। कर्तरि कृत् (3.4.67) इति वचनात् कर्त्तैव तुमर्थो युक्त इति मन्यते। वचनसामर्थ्यात् इत्यादि। यदि कर्त्तैव तुमर्थः स्यात् तुमर्थवचनमर्थकं स्यात्, कृत्त्वादेव हि सयादयः कर्तरि भविष्यन्ति। तस्मात् तुमर्थग्रहणाल्लिङ्गात् कर्तरि तुमुन्न भवति। अपकृष्यते। अपनीयते। कर्तरि न भवतीति यावत्। स्यादेतत्, कर्मादिरस्यार्थो भविष्यतीत्याह - न च इत्यादि। अन्यस्मिन् इति। कर्मादौ। यथा तर्हि कर्मादावनिर्देशान्न भवति तथा भावेऽपि न स्यात्। भावेऽपि नैव तुमुन्निर्दिश्यत इत्याह - अनिर्दिष्टार्थाः इत्यादि। अर्थान्तरस्य निर्देशाद्या प्रकृतिः प्रत्ययानां निमित्तत्वेनोपादीयते तदर्थस्य प्रत्यासत्तेस्तत्रैवानिनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति, स पुनरिह स्वार्थो भावः। कुत एतत्? धात्वधिकारात्, धातोश्च भाववचनत्वात्। यद्येवम्, भावग्रहणमेव कुर्यात्, लघुत्वात्? नैवं शक्यम्; भावग्रहणे सति कर्तरि कृत् (3.4.67) इति वचनात्तुमुन् कर्तर्येव स्यात्। तुमर्थग्रहणे हि तुमुनोऽपि हि भाव एवार्थ इत्येतद्ज्ञापितं भवतीति न कश्चिद्दोष इति। वक्षे इति। वच परिभाषणे (धातुपाठः-1063), सेप्रत्ययः, चोः कुः (8.2.30) इति कुत्वम्। एषे इति। इणः सेन्प्रत्ययः। जीवसे इति। जीव प्राणधारणे (धातुपाठः-562)। प्रत्ययद्वयस्याप्येतदेवोदाहरणम्, स्वरस्तु भिद्यते। प्रेषे इति। इणः प्रपूर्वात् क्से, आद्गुणः (6.1.87) । श्रियसे इति। श्रिञ् सेवायाम् (धातुपाठः-897), अस्मात् क्सेन, इयङ्। उपाचरध्यै इति। चर गत्यर्थः (धातुपाठः-559), उपाङपूर्वः। प्रत्ययद्वयस्यापीदुहारणम्, स्वरभेदात्तु भेदः। आहुवध्यै इति। पा पाने (धातुपाठः-925), शध्यै, प्राघ्रादिसूत्रेण (7.3.78) पिबादेशः। मादयध्यै इति। मदी {हर्षग्लेपनयोः-धातुपाठः-} हर्षे (धातुपाठः-815), हेतुमण्णिच्, शध्यैन्, गुणायादेशौ। पातवै इति। पिबतेस्तवै। सूतवे इति। षूङ प्राणिगर्भविमोचे (धातुपाठः-1031), तवेङ, ङित्वाद्गुणाभावः। गन्तवे इत्यादीन्युदाहरणानि गमिकरोतिहरतीनां यथाक्रमेण॥

Prakriyasarvasvam

तुमर्थे एते स्युः । एषामेमजन्तत्वादव्ययत्वम् । से (अ3) वक्षे रायः । सेन्- वा वामेषे । से सनोः स्वरे भेदः । असे असेन् । स्वरे भेदः । ऋत्वे दक्षाय जीवसे । क्से, कसेन्—कित्वादगुणः । एष्टा ⁴राया प्रेषे भगाय । इयङ् ॥ यवामिव श्रियते । अध्यै-प्रति वां नृपती5 जरध्यै । अध्यैन्पि मृत्यः । कध्यै कध्यैन्-इन्द्राग्नी आहुवध्यै । शध्यै शध्यैनोः शित्त्वाच्छ्बादि । सह मादयध्यै । पियध्यै । तवै — एतवा उ । ‘तवै चान्तश्च युगपत्’ (६–१–५२) इति आद्यन्तयोः उदात्तः । तवेङ् — ङित्वादगुणः । दशमे मासि सूतवे (तवेन्⁶) पाराय गन्त⁷वे ।