34015: अवचक्षे च

Padacheda: अवचक्षे | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The word of अवचक्षे is an anomalous passive participle in the छन्दस् (Vedas).

Vasu English Translation

The word of अवचक्षे is an anomalous passive participle in the छन्दस् (Vedas). Thus रिपुणा नावचक्षे (Rig. IV. 58.5)=नावख्यातव्यम् । अव + चक्ष् + एश् = अवचक्षे । The sutra (2.4.54) is not applied here.

Kashika

कृत्यार्थे छन्दसीत्येव। अवपूर्वाच् चक्षिङ एश् प्रत्ययो निपात्यते। रि॒पुणा॒ नाव॒चक्षे॑ (मा०सं० १७.९३)। नावख्यातव्यमित्यर्थः॥

Siddhanta Kaumudi

रिपुणा नावचक्षे (रि॒पुणा॒ नाव॒चक्षे॑) । अवख्यातव्यमित्यर्थः ॥

Padamanjari

एश्प्रत्यय इति । शित्करणं सार्वधातुकत्वार्थम्, तेन चक्षिङ्ः ख्याञ् न भवति ॥

Nyaas

एश्प्रत्ययो निपात्यते इति। शित्करणं सार्वधातुकसंज्ञार्थम्। तेनार्धधातुके विधीयमानः सार्वधातुके चक्षिङ ख्याञ् (2.4.54) इति ख्याञादेशो न भवति॥

Prakriyasarvasvam

एतत्कृत्यार्थे स्यात् । रिपुणा नावचक्षे ।

Sutra Prayogas

  • विद्युत्-प्रणाशं (भट्टिकाव्यम्): उपमाने कर्मणि च इति चकारात् कर्तृवाचिनि विद्युच्छब्द उपपदे णमुल्।