34004: यथाविध्यनुप्रयोगः पूर्वस्मिन्¶
Padacheda: यथाविधि | S | 0 | 0 |
अनुप्रयोगः | S | 1 | 1 |
पूर्वस्मिन् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the first case – क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः (3.4.2) the same verb must be used in the subsequent clause, as the verb which was put in the लोट् (Imperative Mood) .
Vasu English Translation¶
In the first case – क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः (3.4.2) the same verb must be used in the subsequent clause, as the verb which was put in the लोट् (Imperative Mood) . The examples have already been given under sutra (3.4.2). We cannot say लूनीहि लुनीहीत्येवायं छिनत्ति; we must use a verb from the root लू ‘to cut’. Such as लुनाति, &c. So also अधीष्वाधीष्व takes अधोते only after it and not a synonymous verb like पठति &c.
Bhashya¶
यथाविध्यनुप्रयोगः पूर्वस्मिन् (1165) (592 अनुप्रयोगविधिसूत्रम्॥ 3 । 4 । 1 आ.3) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। (प्रयोजनभाष्यम्) अनुप्रयोगो यथा स्यात्॥ (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। हिस्वान्तवमव्यक्तपदार्थकम् तेनापरिसमाप्तोर्थ इति कृत्वा अनुप्रयोगो भविष्यति॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् यथाविधीति वक्ष्यामीति॥ (प्रयोजननिरासभाष्यम्) एतदपि नास्ति प्रयोजनम्। समुच्चये सामान्यवचनस्य इति वक्ष्यति। तत्रान्तरेण वचनं यथा विध्यनुप्रयोगो भविष्यति॥ यथाविध्व॥ 4 ॥
Kashika¶
पूर्वस्मिन् लोड्विधाने यथाविध्यनुप्रयोगो भवति। यस्माद् धातोर्लोड् विहितः, स एव धातुरनुप्रयोक्तव्यः। धातुसंबन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव, यथाविध्यर्थं तु वचनम्। तथा चैवोदाहृतम् — लुनीहिलुनीहीत्येवायं लुनातीति। छिनत्तीति नानुप्रयुज्यते। अधीष्वाधीष्वेत्येवायमधीते। पठतीति नानुप्रयुज्यते॥
Siddhanta Kaumudi¶
आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥
Tattvabodhini¶
यथाविध्यनुप्रयोगः पूर्वस्मिन् - पूर्वस्मन् = क्रियासमभिहारविषये । अत्र सङ्ख्याकारकादीनां हिस्वान्तादप्रतीतेस्तद्बोधनायानुप्रयोगो न्यायत एव प्राप्तस्तदनुवादेनयथाविधी॑ति नियम्यते । तथा च पक्षे प्राप्तस्य नियमनाद्याहियाहीति गच्छतीत्यादि न भवति । यद्यप्यन्यत्रहन्हपूषाऽर्यम्णां शौ॑ इत्यादौ नियमशब्देन परिसङ्ख्या व्यवह्यियते,सर्वनामस्थाने चे॑त्यादिना शौ तद्भिन्ने च दीर्घप्राप्तेशेरन्यत्र तु तन्निवृत्तिपरत्वात्, तथापीहकदाचिद्यातीत्यस्य कदाचिद्गच्छतीत्यस्यानुप्रयोगे प्राप्ते यथाविधीत्ययमप्राप्ताशंपरिपूरणायव्रीहीनवहन्ती॑त्यादिवद्विधीयत इति नियमविधिरेवाऽयम् । एतेन मीमांसकप्रिसद्धनियमविधिः शब्दशास्त्रे ऽप्रसिद्ध इति वदन्तः परास्ताः । * क्रियासमभिहारे द्वे वाच्ये । द्वे वाच्ये इति । वार्तिकमिदं द्विरुक्तप्रक्रियायां व्याख्यातम् । इतिशब्दस्त्विति । ननु इतिशब्देन व्यवधानाद्यातीत्यस्याऽनुप्रयोगत्वं कथमिति चेत् । अत्राहुः - अनुशब्दस्येहानुवादित्वमात्रपरत्वाद्व्यहितविपरीतप्रयोगयोरिष्टापत्तिः । एतच्च भाष्यकारीयोदाहरणसूत्रप्रत्याख्यानाभ्यां निर्णीयते । न चसमुच्चये सामान्यवचनस्ये॑ति विशेषस्योक्तत्वात्सूत्रैकदेशस्य पूर्वस्मिन्नितिपदस्य वैयथ्र्यमस्तु नाम,यथाविध्यनुप्रयोग॑ इति तु यथाविधीति नियमार्थं स्वीकर्तव्यमेव । अन्यथायाहि याहीति गच्छती॑त्यादि स्यादिति वाच्यम्, यस्माल्लोड्विधिस्तत्प्रकृतिकतिङन्तस्यैवोपस्थितत्वेनाऽनुप्रयोक्तुमर्हत्वान्न तूपस्थितपरित्यागेन यत्कचिद्धातुप्रकृतितिङन्तस्याऽनुप्रोगार्हतेति । अतएवस्वं रूपं शब्दस्ये॑त्यपि सूत्रं प्रत्याख्यातं भाष्यकारेण ।अग्नेर्ढ॑गित्यादौ विधिवाक्यगतस्याऽङ्गारवाचकाऽग्निशब्दादेरुपस्थितत्वात्तत्परित्यागेनाऽनुपस्थितवह्न्यादिशब्देभ्यो ढगादिर्न भवेदिति । एवं चाऽस्मिन्प्रत्याख्याते यथाविध्यनुप्रयोगसूत्रे मीमांसकप्रसिद्धनियमविधेः स्थितोदाहरणमन्यदन्वेषणीयमिति दिक् । एवमिति । याह#इयाहीति यातः, याहियाहीति यान्तीत्येवमूह्रमित्यर्थः । पक्षे इति ।वा च तध्वमो॑रित्युक्तत्वाद्धिस्वाऽभावपक्ष इत्यर्थः । तध्वमोरित्यत्र तशब्देन मध्यमपुरुषबहुवचनं गृह्रते,ध्वम् साहचर्यात् । यद्यपिध्व॑मित्यस्यात्मनेपदत्वमस्तीति तत्साहचर्येण प्रथमपुरुषैकवचनस्य ग्रहणं प्राप्नोति, तथापि बहुवचनत्वमध्यमत्वरूपधर्माभ्यां मध्यमपुरुषबहुवचनमेव गृह्रत इत्याशयेनोदाहरत — यातयातेति यूयमिति । अस्यापि लोटो लङ्वत्त्वात्तस्थस्थमिपा॑मिति यातेत्यत्र थस्य तादेशः । विध्यादिलोड्विषये त्वनुप्रयोगेऽपि तु थस्य तादेशप्रवृत्तेर्यूयं यातेत्यनुप्रयोक्तम् । अधीध्वमधीद्वमिति ।सवाभ्या॑मित्यम् । अधीध्वे इति । विध्यादिलोड्विषये तु सवाभ्यां वामाविति प्रवृत्तेरधीध्वमित्येवानुप्रयोक्तव्यम् । भावकर्मणोस्तुभूयस्व — भूयस्वेति भूयते॑पच्यस्वपच्यस्वेति पच्यते॑ इत्याद्युन्नेयम् ।समुच्चयेऽन्यतरस्या॑मिति सूत्रे क्रियासमभिहारैत्यननुवर्तनाद्द्वित्वमकृत्वैवोदाहरति -सक्तन् पिब धानाः खादेति । अब्यवहरथेति । विध्यादिलोड्विषये तुअभ्यवहरते॑त्यनुप्रोक्तव्यम् । एवमभ्यवहरध्वे इत्यत्राप्युक्तविषये अभ्यवहरध्वमित्यनुप्रयोक्तव्यम् । पक्षे हिस्वाव#इति ।पिब खादेत्यब्यवहरथ॑भुङ्क्ष्व आस्वादस्वेत्यभ्यवहरध्वे॑ इत्युदाहार्यम् । लवनादीति । आदिशब्देन — मोषणहरणे ग्राह्रे । अनुवृत्त्यभ्युपगमे बाधकमाह — लोडन्तस्योत । भ्रम एवेति । पुरुषांशे, वचनांशे च । लोडंशे तु प्रमैवेति भावः । एवमुक्तोदाहरणेषु हिस्वान्तेषु तिङन्तत्वं यथायथं परस्मैपदात्मनेपदान्तत्वं च सिद्धं । पुरुषवचनसंज्ञे तु विधानसामर्थ्याद्धिस्वयोर्न स्त इत्युक्तमिति सर्वेष्टसिद्धिः ।इति श्रीपरमहंसपरिव्राजकाचार्यश्रीवामनेन्द्रस्वामिचरणारणारविन्दसेवकज्ञानेन्द्र सरस्वती कृतौ सिद्धान्तकौमुदी व्याख्यायां तत्त्वबोधिन्याख्यायां तिङन्तकाण्डं समाप्तम् ।
Padamanjari¶
यथाविधीति । पदार्थनतिवृतौ’यथार्थे यदव्ययम्’ इत्यव्ययीभावः, अनुप्रयोग इत्यनुशब्दो धात्वर्थानुवादी, न पश्चाद्भावेनानन्तर्येऽर्थे । तेन पूर्वव्यवहितप्रयोगोऽपि भवति । पूर्वस्मिन्निति वचनं विस्पष्टार्थम् । समुच्चये हि सामान्यवचनस्यानुप्रयोगं वक्ष्यति, तेन ततोऽन्यत्रायं विधिरन्यश्च विषयः पूर्वमेव लोड्विधानम् । धातुसम्बन्धे प्रत्ययविधानादिति । ननु च हिस्वान्तमेतदनभिव्यक्तपदार्थकम्, सख्याकालपुरुषाणामनभिव्यक्तत्वात्, अतस्तदर्थाभिव्यक्त्यर्थभेवानुप्रयोगः सिद्धः ? अस्त्वेवम्, किमेतावता वृत्तिकारोक्तो हेतुर्न भवति । अथ वा यावन्तमर्थमभिव्यङ्क्तुअं हिस्वान्तं समर्थं तावतो विवक्षायामनुप्रयोगासिद्धि मत्वैवमुक्तम् । यथाविध्यर्थ वचनमिति । ननु च’समुच्चये सामान्यवचनस्य’ इति वक्ष्यति, तत्र नियमो विज्ञास्यते - समुच्चय एव धात्वन्तरस्यानुप्रयोग इति, ततश्च क्रियासमभिहारे यथाविध्यनुयोगो भविष्यति ? एवं मन्यते - समुच्चये सामान्यवचनस्यैवानुप्रयोग इति नियमादन्यत्र धात्वन्तरस्यापि स्यादिति च्छिनतीति नानुप्रयुज्यत इति । पचतीत्यादेभिन्नार्थस्य त्वप्रसङ्गः, लोडन्तेनानन्वयात् । समानार्थस्य तु सम्भवति सम्बन्धः, यथा - तस्यैव । एवं सामान्यवचनस्य करोत्यादेरप्यनुप्रयोगप्रसङ्गः, तस्यापि हि सन्निहेतलोडन्तवाच्ये विशेषे पर्यवसानात्सम्भवत्येवान्वयः । ननु चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवति, एतच्च’कृञ्जानुप्रयुज्यते’ इत्यत्र व्याख्यातम्, तत्र यथा गवां स्वामी अश्वेषु चेति न भवति, तथेहापि येनैव धातुना लोट्प्रयोगः प्रारब्धस्तेनैवासौ समापयिष्यते ? न; अस्यापि न्यायस्य वेदे लोके च व्यभिचारात् । वेदे तावत् - इन्द्राय राज्ञे सूकर इति चतुर्थोप्रयोगप्रकरणे क्षिप्रश्येनस्य वर्तिका ते धातुरिति षष्ठी, मयुः प्राजापत्य इति तद्धितश्च देवतासम्बन्धे दृश्यते । लोकेऽपि - सस्नुः, पयः पपुरिति लिटा सहानेनिजुरिति लङ् प्रयुक्तः । तस्मादारभ्यमेवैतत् ॥
Nyaas¶
पूर्वस्मिन लोड्विधाने इत्यादेर्वाक्यस्य यस्माद्धातोरित्यादिनार्थं स्पष्टीकरोति। धातुसम्बन्धे इत्यादि। धातुसम्बन्ध (3.4.1) इत्यनुवृत्तेर्धातुसम्बन्ध एव लोड्विधानम्, अतोऽनु प्रयोगः सिद्धः एव, न हि तेन विना धातुसम्बन्धो भवति; तस्य द्विष्ठत्वात्। यद्येवम्, किमर्थमिदं वचनम्? इत्याह - यथाविध्यर्थं तु इति। अथ व्यवहितप्रयोगस्य वा पूर्वस्य प्रयोगस्य वा निवृत्त्यर्थं कस्मान्न भवति, यथा - कृञ्चानुप्रयुज्यते लिटि (3.1.40) इति? न; तयोरपीष्टत्वात्। इष्यते हि व्यवहितप्रोगः- लुनीहि लुनीहीत्यवायं देवदत्तो लुनाति। पूर्वप्रयोगोऽपीष्यते - लुनाति देवदत्तो लुनीहि लुनीहीति। तस्माद्यथा विध्यर्थमेवेदं युक्तम्। ननु च**समुच्चये सामान्यवचनस्य** (3.4.5) इति धात्वन्तरस्य समानार्थस्य प्रयोगाभ्यनुज्ञानात् क्रियासमभिहारे यथाविध्यनुप्रयोगो भविष्यतीति, तत्किमनेन वचनेन? नैतदस्ति, समुच्चय एव हि नियमः स्यात्, क्रियासमभिहारे तु यथाविध्यनुप्रयोगः स्यात्, धात्वन्तरस्य च समानार्थस्य। तस्मादारब्धव्यमिदम्॥
Prakriyasarvasvam¶
अस्मिन् लोड्विधाने यस्माल्लोड् विहितः स एव धातुरनुप्रयोज्यः । ‘अत्र द्वित्वं वाच्यम्’ । भाहि भाहीति भाति, भातः भान्तीति वा । अभात्, भास्यतीति वा । पुनः पुनर्भातीति वा, भृशं भातीति वार्थः । आत्मनेपदे तु – आस्वाऽऽ- स्वेत्यास्ते । तध्वंविषयस्तु मध्यमपुरुषबहुवचनप्राप्तावेव । भाहि भाहिति भाथ, भात भातेति भाथ । आस्वास्वेत्याध्वे, आध्वमाध्वमित्याध्वे इति लटि । एवमन्य- लकारेष्वपि । भाहि भाहीति भास्यथ, भात भातेति भास्यथेति वा । कर्मण्यपि स्वादेशः स्यात् । लूयस्व लूयस्वेति लूयत इत्यादि । लोलूयस्व लोलूयस्वेति लोलूयत इत्यादौ पौनःपुन्यभृशत्वयोरेकं यङोच्यते, अन्यल्लोटा ।
Sutra Prayogas¶
चकषू (भट्टिकाव्यम्): कषादिषु यथाविध्यनुप्रयोगः इत्यनुप्रयोगः।
स्व-पोषम् (भट्टिकाव्यम्): यथाविध्यनुप्रयोगश्च इति।
प्रनष्टो (भट्टिकाव्यम्): यथा- विध्यनुप्रयोगश्च इति।
अपुषत् (भट्टिकाव्यम्): यथाविध्यनुप्रयोगश्च इत्यनुप्रयोगः।