34010: प्रयै रोहिष्यै अव्यथिष्यै

Padacheda: प्रयै | S | 0 | 0 |

रोहिष्यै | S | 0 | 0 |

अव्यथिष्यै | S | 0 | 0 |

Sutrartha


Vasu English Summary

The words 1. प्रयै 2. रोहिष्यै 3. अव्यथिष्यै are irregularly formed Vedic Infinitives.

Vasu English Translation

The words 1. प्रयै 2. रोहिष्यै 3. अव्यथिष्यै are irregularly formed Vedic Infinitives. Thus (1) प्रयै देवेभ्यो महीः (Rig. I.142.6); प्र + या + कै = प्रयै = प्रयातुम् । (2) अपामोषधीनां रोहिष्यै । रुह् + इष्यै = रोहिष्यै = रोहणाय । (3) अ + व्यथ् + इष्यै = अव्यथिष्यै = अव्यथनाय ।

Kashika

तुमर्थे छन्दसीत्येव। प्रयै रोहिष्यै अव्यथिष्यै इत्येते शब्दा निपात्यन्ते छन्दसि विषये। प्रपूर्वस्य यातेः कैप्रत्ययः — प्॒रयै दे॒वेभ्यः॑ (ऋ० १.१४२.६)। प्रयातुम्। रुहेरिष्यैप्रत्ययः — अ॒पामोष॑धीनां॒ रोहि॑ष्यै (तै०सं० १.३.१०.२)। रोहणाय। व्यथेर्नञ्पूर्वस्येष्यैप्रत्ययः — अव्यथिष्यै (काठ०सं० ३.७)। अव्यथनाय॥

Siddhanta Kaumudi

एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः ॥

Nyaas

प्रयै इति। अतो लोप इटि च (6.4.64) इत्याकारलोपः॥

Prakriyasarvasvam

एते तुमर्थे स्युः । प्रयै देवेभ्यो हविः । ओषधीनां रोहिष्यै । अव्यथिष्यै ।