34002: क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः

Padacheda: क्रियासमभिहारे | S | 7 | 1 |

लोट् | S | 1 | 1 |

लोटः | S | 6 | 1 |

हिस्वौ | S | 1 | 2 |

वा | S | 0 | 0 |

च | S | 0 | 0 |

तध्वमोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

When the (frequency of) repetition of an action is indicated, the affix लोट् (Imperative) is added to the root and the verb is repeated. And the affixes हि and स्व or the affixes त and ध्वम् are the substitutes of लोट् (Imperative).

Vasu English Translation

When the (frequency of) repetition of an action is indicated, the affix लोट् (Imperative) is added to the root and the verb is repeated. And the affixes हि and स्व or the affixes त and ध्वम् are the substitutes of लोट् (Imperative). Professor Bohtlingk translates this as follows: “When the repetition of an action is expressed, the Imperative is used, and though the second person singular is used, it may also stand for the second person plural.”

The phrase धातुसम्बन्ध of the last sutra is understood here also. The frequency or repetition of an action is called समभिहारः । This word qualifies the sense of the original. In other words, “when the sense of frequency &c, is understood in connection with the action, this sense not being included in that of the verb, as it may be in the case of a verb from frequentative roots.”

This Imperative mood is employed in all Tenses and Persons in connection with all moods. But this peculiar use of the Imperative is confined to the 2nd. person singular and plural Parasmaipada (हि and त); and 2nd. person singular and plural Atmanepada (स्व and ध्वम्). In other words, “the Imperative second person (Parasmaipada and Atmanepada) is repeated, though the subject of the main verb be different and the verb be in any tense.” Thus लुनीहि लुनीहीत्येवायं लुनाति ‘he cuts repeatedly’, as if some one was always calling out to him ‘cut thou, cut thou’. लुनीहि लुनीहीत्येव इमौ लुनीतः or इमे लुनन्ति ‘they cut often and often’. So also लुनीहि लुनीहीत्येव त्वं लुनासि, युवाम् लुनीथः or यूयं लुनीथ ‘thou or you two or you all cut repeatedly’ as if some one was calling out to you ‘cut you, cut you’.

So also लुनीत लुनीतेत्येव यूयं लुनीथ, अहं लुनामि, अयमलावीत् &c. ‘you cut, I cut, he has cut repeatedly’, as if some one was calling out to us ‘cut ye, cut ye’. Similarly with Atmanepada roots; as अधीष्वाधीष्वेत्येवायमधीते, इमौ अधीयाते, इमे अधीयते &c. ‘he or they study hard’ as if some one was calling out to them ‘study thou, study thou’.

So also अधीष्वमधीष्वमित्येव यूयमधीध्वे &c. Similarly in every tense, mood and person; as, अधीष्वाधीष्वेत्येवाहमधीये, आवामधीवहे, वयमधीमहे ।

The Intensive verbs in यङ् also have this meaning of frequency, but there the verb is not repeated, as the sense of frequency there is inherent in the verb; in this case we must repeat the verb to express frequency. See (8.1.4).

This use of the Imperative is not found in Literature (Bohtlingk), but in Marathi.

Bhashya

क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः (1163) (591 कालान्तरे लोड्विधिसूत्रम्॥ 3 । 4 । 1 आ.2) (5026 वार्तिकम्॥ 1 ॥) - हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थम्- (भाष्यम्) हिस्वयोः परस्मैपदात्मनेपदग्रहण कर्तव्यम्। हिः परस्मैपदानां यथा स्यात्स्व आत्मनेपदानामिति॥ किं प्रयोजनम्?। लादेशप्रतिषेधार्थम्। लादेशौ हिस्वौ मा भूतामिति॥ (प्रश्नभाष्यम्) किं च स्यात् - यदि लादेशौ हिस्वौ स्याताम्। (समाधानभाष्यम्) तिङन्तं पदमिति पदसंज्ञा न स्यात्॥ (समाधानबाधकभाष्यम्) मा भूदेवम्। सुबन्तं पदमिति पदसंज्ञा भविष्यति। (आक्षेपभाष्यम्) कथं स्वाद्युत्पत्तिः। (5027 समाधानवार्तिकम्॥ 2 ॥) - लकारस्य कृत्त्वात्प्रातिपदिकत्वं तदाश्रयं प्रत्ययविधानम्- (भाष्यम्) लकारः कृत् तस्य कृत्त्वात् कृत्प्रादिपदिकमिति प्रातिपदिकसंज्ञा तदाश्रया प्रतिपदिकाश्रया स्वाद्युत्पत्तिरपि भविष्यति॥ (आक्षेपभाष्यम्) यदि स्वाद्युत्पत्तिः, सुपां श्रवणं प्राप्नोति। (आक्षेपबाधकभाष्यम्) अव्ययादिति सुबूलुक् भविष्यति॥ कथमव्ययत्वम्?। विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा। निपातोऽव्ययमिति अव्ययसंज्ञा॥ (दूषणभाष्यम्) इह तर्हि स भवान् लुनीहि लुनीहीत्येवायं लुनाति तिङतिङः इति निघातो न प्राप्नोति। (5028 प्रयोजनवार्तिकम्॥ 3 ॥) - समसंख्यार्थे च- (भाष्यम्) समसंख्यार्थे च हिस्वयोः परस्मैपदात्मनेपदग्रहणं कर्तव्यम्। हिः परस्मैपदानां यथा स्यात्। स्व आत्मनेपदानाम्। व्यतिकरो माभूदिति। (5029 प्रथमवार्तिकोक्तदूषणवारकवार्तिकम्॥ 4 ॥) - न वा तध्वमोरादेशवचनं ज्ञापकं पदादेशस्य- (भाष्यम्) न वा हिस्वयोः परस्मैपदात्मनेपदग्रहणं कर्तव्यम्॥ किं कारणम्?। तध्वमोरादेशवचनं ज्ञापकं पदादेशस्य। यदयं वा च तध्वमोः इत्याह तज्ज्ञापयत्याचार्यः - पदादेशौ हिस्वौ इति॥ (5030 आक्षेपवार्तिकम्॥ 5 ॥) - तत्र पदादेशे पित्त्वाटोः प्रतिषेधः- (भाष्यम्) तत्र पदादेशे पित्त्वस्याटश्च प्रतिषेधो वक्तव्यः। पित्त्वस्य तावत् - स भवान्लुनीहि लुनीहित्येवायं लुनाति। आटः खल्वपि - सोहं तुनीहि लुनीहीत्येवं लुनामि। (पित्त्वप्रतिषेधानावश्यकत्वभाष्यम्) पित्त्वस्य तावन्न वक्तव्यः। पित्त्वप्रतिषेधे योगविभागः करिष्यते। इह सोर्हि सेर्हिर्भवति। ततः अपिच्च अपिच्च भवति यावान् हिर्नामेति। (आट्प्रतिषेधानावश्यकत्वभाष्यम्) आटश्चापि प्रतिषेधो न वक्तव्यः। आटि कृते साट्कस्यादेशो भविष्यति। इदमिह संप्रधार्यम्। आट् क्रियताम्, आदेश इति। किमत्र कर्तव्यम्?। परत्वादाडागमः॥ नित्य आदेशः। कृतेप्याटि प्राप्नोत्यकृतेपि प्राप्नोति॥ आडपि नित्यः। कृतेप्यादेशे प्राप्नोत्यकृतेपि॥ अनित्य आट्। अन्यस्य कृतेप्यादेशे प्राप्नोत्यन्यस्याकृतेपि प्राप्नोति शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति॥ आदेशोप्यनित्यः। अन्यस्य कृते आटि प्राप्नोति अन्यस्याकृते प्राप्नोति। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति। उभयोरनित्ययोः परत्वादाडागमः॥ आटि कृते साट्कस्यादेशो भविष्यति॥ (आक्षेपभाष्यम्) इदं तर्हि भुङ्क्ष्व भुङ्क्ष्व इत्येवं भुनजै इति श्नसोरल्लोपः इत्यकारलोपो न प्राप्नोति। (आक्षेपपरिहारस्मारणभाष्यम्) समसंख्यार्थत्वं चाप्यपरिहृतमेव। (5061 समाधानवार्तिकम्॥ 6 ॥) - सिद्धं तु लोण्मध्यमपुरुषस्यैकवचनस्य क्रियासमभिहारे द्विर्वचनात्- (भाष्यम्) सिद्धमेतत्॥ कथम्?। लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः। इति वक्तव्यम्॥ (आक्षेपभाष्यम्) केन विहितस्य क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्विर्वचनमुच्यते?। (समाधानभाष्यम्) एतदेव ज्ञापयत्याचार्यो भवति क्रियासमभिहारे लोट् इति। यदयं क्रियासमभिहारे लोण्मध्यमपुरुषैकवचनस्य द्विर्वचनं शास्ति॥ (ज्ञापकत्वनिरासभाष्यम्) कुतो न खल्वेतत् - ज्ञापकादत्र लोड् भविष्यति। न पुनर्य एवासावविशेषविहितः स यदा क्रियासमभिहारे भवति तदा तस्य द्विर्वचनं भवतीति॥ (दूषणान्तरभाष्यम्) लोण्मध्यमपुरुषैकवचन एव खल्वपि सिद्धं स्यात्। इमौ चान्यौ हिस्वौ सर्वेषां पुरुषाणां सर्वेषां वचनानामिष्येते। (दूषणभाष्यम्) सूत्रं च भिद्यते। (समाधानभाष्यम्) यथान्यासमेवास्तु। (आक्षेपस्मारणभाष्यम्) ननु चोक्तं हिस्वयोः परस्मैपदात्मनेपदग्रहणं लादेशप्रतिषेधार्थे समसंख्यार्थे चेति। (समाधानभाष्यम्) नैष दोषः। (5032 वार्तिकम्॥ 6 ॥) - योगविभागात्सिद्धम्- (भाष्यम्) योगविभागः करिष्यते - -क्रियासमभिहारे लोट् क्रियासमभिहारे लोड् भवति। ततो लोटो हिस्वौ लोटो हिस्वौ भवतः। लोडित्येबानुवर्तते लोटौ यौ हिस्वाविति॥ कथम् वा च तध्वमोः इति?। वा च तध्वंभाविनो लोट इत्येवमेतद् विज्ञायते॥ क्रियासमभिहारे॥ 2 ॥

Kashika

धातुसंबन्ध इति वर्तते। पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः। प्रकृत्यर्थविशेषणं चैतत्। समभिहारविशिष्टक्रियावचनाद् धातोर्लोट् प्रत्ययो भवति सर्वेषु कालेषु। सर्वलकाराणामपवादः। तस्य च लोटो हि स्व इत्येतावादेशौ भवतः, तध्वंभाविनस्तु वा भवतः। योगविभागोऽत्र कर्तव्यः। क्रियासमभिहारे लोड् भवति। ततो लोटो हिस्वौ। लोडित्येव। लोड्धर्माणौ हिस्वौ भवत इत्यर्थः। तेनात्मनेपदपरस्मैपदत्वं भेदेनावतिष्ठते, तिङ्त्वं च द्वयोरपि भवति। लुनीहिलुनीहीत्येवायं लुनाति, इमौ लुनीतः,इमे लुनन्ति। लुनीहिलुनीहीत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ। अथवा लुनीतलुनीतेत्येव यूयं लुनीथ। लुनीहिलुनीहीत्येवाहं लुनामि, आवां लुनीवः, वयं लुनीमः। भूते — लुनीहिलुनीहीत्येवायमलावीत्, अलाविष्टाम्, अलाविषुः। एवं मध्यमोत्तमयोरुदाहार्यम्। भविष्यति — लुनीहिलुनीहीत्येवायं लविष्यति, लविष्यतः, लविष्यन्ति। एवं मध्यमोत्तमयोरुदाहार्यम्। अधीष्वाधीष्वेत्येवायमधीते, इमावधीयाते, इमेऽधीयते। अधीष्वाधीष्वेत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे। अथवा अधीध्वमधीध्वमित्येव यूयमधीध्वे। अधीष्वाधीष्वेत्येवाहमधीये, आवामधीवहे, वयमधीमहे। एवं सर्वेषु लकारेषूदाहार्यम्। क्रियासमभिहाराभिव्यक्तौ द्विर्वचनमयं लोडपेक्षते — क्रियासमभिहारे द्वे भवतः (वा० ८.१.१२) इति। यङ्प्रत्ययः पुनरस्मिन्नेवार्थे विधीयमानः स्वयमेव शक्तत्वाद् नापेक्षते द्विर्वचनम्॥

Siddhanta Kaumudi

पौनः पुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥

Balamanorama

क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः - क्रियासमभि । अत्र चत्वारि वाक्यानि । तत्रक्रियासमभिहारे लो॑डिति प्रथमं वाक्यम् । पौनः पुन्यं भृशार्थश्च क्रियासमभिहार इत्युक्तम् । क्रियासमभिहारे इति धात्वर्थविशेषणम् । क्रियासमभिहारविसिष्टक्रियावृत्तेर्धातोरिति लभ्यते । लोट् तु द्योतकः । तदाह — पौनः पुन्ये भृशार्थे च द्योत्ये इति । क्रियासमभिहारविशिष्टक्रियावृत्तेर्धातोर्लोडिति यावत् । सर्वलकारापवादः ।लोटो हिस्वा॑विति द्वितीयं वाक्यं व्याचष्टे — तस्येति । पूर्ववाक्यविहितस्य लोटो हिस्वावादेशौ स्त इत्यर्थः । तिङामपवाद इति । अपवादावित्यर्थः । प्रत्येकाभिप्रायमेकवचनम् । ननु हिस्वयोरुभयोरपि लादेशत्वात्परस्मैपदत्वं स्यात् । तथा सति हेः परस्मपैदत्वं, स्वादेशस्य त्वात्मनेपदत्वमितीष्टा व्यवस्था न सिध्येत् । अस्य स्वादेशस्य तङ्प्रत्याहारप्रविष्टत्वाऽभावेनतङानावात्मनेपदटमित्स्याऽप्रवृत्तेः ।तिप्रतस्झी॑त्यादिसूत्रोपात्तेषु ताऽऽतामादिष्वेव तङ्संज्ञाप्रवृत्तेः । किंच अनयोर्हिस्वयोःतिप्तस्झी॑ति सूत्रानन्तर्भूतत्वात्तिङ्त्वं च दुर्लभमित्यत आह — तौ चेति ।लोटो हिस्वा॑विति द्वितीयवक्ये तावत्क्रियासमभिहारे लोडिति प्रतमवाक्याल्लोडित्यनुवृत्तं स्थानषष्ठआ विपरिणतं तृतीयं वाक्यं संपद्यते । तत्र हि ‘लोटो हिस्वौ’ इति द्वितीयवाक्याद्धिस्वावित्यनुवृत्तं धर्मपरमाश्रीयते । तथा च लोडादेशौ हिस्ववद्भवत इत लभ्यते । कौ भवत इत्याकाङ्क्षायां पूर्ववाक्योपस्थितौ हिस्वाविति गम्यते । ततश्च याविमौ तिङनन्तर्भूतौ हिस्वावुक्तौ तौ प्रसिद्धलोडादेशतिङन्तर्बूतहिस्ववद्भवत इति तृतीयं वाक्यं पर्यवस्यति । तिङन्तर्भूतहिस्वयोस्तावत्क्रमात्परस्मैपदत्वमात्मनेपदत्वं तिङ्त्वं च प्रसिद्धम् । अतः प्रकृतौ हिस्वौ कर्मात्परस्मैपदात्मनेपदसंज्ञौ तिङ्संज्ञौ चेत्यर्थः । तिङ्त्वात्पदत्वसिद्धिः । ननुवा च तध्वमो रिति तध्वमोर्हिस्वादेशविकल्पविदिरनुपपन्नः, लोडादेशभूतहिस्वयोस्तिङपवादतया लोटस्तध्वमोरप्रसक्तेरित्यत आह — तध्वमोर्विषयेत्विति । स्थानषष्ठीमाश्रित्यलोडादेशतध्वमोः स्थाने हिस्वा॑वित्यर्थ इति न भ्रमितव्यम्, येनोक्तदोषः स्यात्, किंतुं विषयविषयिभावः षष्ठर्थः । तथा च तध्वमोर्विषये लोटो हिस्वौ, पक्षे तध्वमाविति फलतीत्यर्थः ।अत्र मध्यमपुरुषबहुवचनमेव तशब्दो गृह्रते, व्याख्यानात्, ध्वंसाहचर्याच्च । ननु हिस्वयोरनयोर्मध्यमपुरुषैकवचनत्वस्याप्यतिदेशाद्युष्मत्सामानाधिकरण्ये एकत्वे च सत्येव हिस्व#औ स्याताम् । तथा चइणौ हिस्वौ सर्वेषां पुरुषाणां, सर्वेषां च वचनानामिष्येते॑ इति भाष्यमनुपपन्नमित्यत आह — हिस्वविधानेति । यदि हिस्वयोर्मध्यमपुरुषैकवचनसंज्ञे स्यातां तर्हि युष्मत्सामानाधिकरण्ये एकत्वे च सत्येवलोटो हिस्वौ स्याताम्, अन्यत्र तु यथायथं तिबाद्यादेशाः स्युः । तथा सति लोटो हिस्वविधानमनर्थकं स्यादतो न पुरुषवचनातिदेश इत्यर्थः । तेनेति । हिस्वयोः पुरुषवचनातिदेशाऽभावेन क्रमात् परस्मैपदात्मनेपदसंज्ञालाभेन चेत्यर्थः । सकलेति । सकलपुरुषवचनविषये हिर्भवति, स च भवन् परस्मैपदिभ्य एव कर्तर्येव भवति, न त्वात्मनेपदिभ्यो भावकर्मकर्तृष्वित्यर्थः,शेषात्कर्तरि परस्मैपदमित्युक्तेरिति भावः । आत्मनेपदिभ्यः स्व इति ।अनुदात्तङित आत्मनेपदम्,॒भावकर्मणोरित्यादिसूत्रविषयेभ्यो धातुभ्यो भावकर्मकर्तुषु लोटः स्व एव भवतीत्यर्थः । अनयोरत्र क्रमात् परस्मैपदात्मनेपदसंज्ञाविध्यभावे तु लादेशत्वेन उभयोः परस्मैपदत्वात् कर्तर्येव परस्मैपदमात्मनेपदिभ्योऽपि स्यादिति भावः ।

Tattvabodhini

क्रियासमभिहारे लोट्, लोटो हिस्वौ, वा च तध्वमोः - क्रियासमभिहारे । द्योत्य इति । क्रियासमभिहारो धातोरेवार्थः । लोट् तु द्योतक इति भावः । तस्यच हिस्वौ स्त इति । ननुलो॑डित्यनेन तिङो लक्षयित्वा तिङामेव हिस्वौ विधीयेताम् ।था सति तिङन्तत्वात्पदत्वं लभ्यत इति गुणोऽप्यस्ति,वा च तध्वमो॑रिति वाक्यशेषोऽपि स्वरसतः सङ्गच्छते । अनय्था येन नाप्राप्तिन्यायेन हिस्वयोस्तिङतिङलक्षणा न न्याय्या, असंजातविरोधित्वेनोपक्रमस्य प्राबल्यात्, वि,यसप्तम्याश्रणेन वाक्यसेषस्योपपन्नत्वाच्च । किंच तिङामादेशत्वे तिप्सिप्मिपां स्थाने विहितस्यहेः स्थानिवद्भावेन पित्त्वान्ङित्त्वाऽभावेनलुनीही॑त्यत्रई हल्यघो॑रितीत्वं न स्ात् ।ब्राऊही॑त्यत्रब्राऊव ई॑डितीडागमेब्रावीही॑ति स्यात् ।तृण्ढी॑त्यत्र तुतृणह इ॑मितीमागमे तृणेढीति स्यात् । किंच लादेशानामेव परस्मैपदात्मनेपदसंज्ञे न तु लादेशतिङादेशानामिति सर्वेषां तिङां द्वावपि हिस्वौ पर्यायेण स्यातां न तु तिबादीनां हिः, तिङां स्व इति पदव्यवस्थया । ततश्च लकारस्यैवादेशौ हिस्वौ स्यातामत आह -तौ चेति । अयं भावः-लोटो हिस्वौ॑ इति वाक्येक्रियासमभिहारे लो॑डिति वाक्याल्लोडित्यनुवर्तते, तच्च हिस्वावित्यस्य विशेषणम् । न च हिस्वौ लोटौ भवत इतिसामर्थ्याल्लोटधर्मकावित्र्थः संपद्यते । तत्रापि मुख्यलोट्संबन्धिनो धर्मस्य प्रत्ययत्वस्यातिदेशोव्यर्थः, स्थानिवत्त्वेनैव तत्सिद्धेः । किंतु स्थानवद्भावलब्धलोड्व्यपदेशकौ तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यते । केचित्तु — क्रियासमभिहारे लो॑ डित्यनन्तरं लाघवात्तस्य हिस्वाविति वक्तव्ये लोड्ग्रहणसामर्थ्याल्लोड्धर्मकावेव हिस्वौ लोटः स्थाने भवत इत्यर्थः संपद्यते । तथा च पूर्वोक्तरीत्या तिङ्भूतौ यौ हिस्वौ तयोरेव धर्म इहातिदिश्यत इति सिद्धमिष्टम् । एवं चलोटो हिस्वा॑विति वाक्ये पूर्ववाक्याल्लोड्ग्रहणं नानुवर्तनीयमित्याहुः । तिङ्संज्ञौ चेति । तेन पदत्वं,तिङ्ङतिङः॑ इति च भवति । हिस्वविधान इति । यदि हि पुरुषवचनसंज्ञे अपि स्यातां तर्हि युष्मत्सामानाधिकरणये एकत्वे च सत्येव हिस्वाभ्यां भाव्यं, तत्रच व्यर्थो हिस्वविधिरिति भावः । हिः कर्तरि । स्वो भावकर्मकर्तृष्विति । उक्तं च कैयटेनापि — हिशब्दस्य कर्ता वाचयः, स्वशब्दस्य तु भावकर्मकर्तार इति । अत्र नव्याः — अल्पे॑ह्रस्वे॑ इत्यादौ कप्रत्ययवत्क्रियासमभिहारे लोडयं स्वर्थिक एव । न त्वस्मल्लोटिलः कर्मणि चे॑ त्याद्यर्थोऽभ्युपेयः, प्रयोजनाऽभावात् । यदि तु हिशब्दस्य कर्ता अर्थः स्यात्, पुनः पुनरतिशयेन वा यानं ह्रन्तस्यार्थ इति वक्षमाणग्रन्थः स्वरसतो न सङ्गच्छेत । याहियाहीत्यादौ तु कत्र्रादिप्र्तीतिर्यातीत्यादिसमभिव्याहारेण सुलभैव । यथा एधांचक्रे इत्यत्र तङादेशात्प्रागेव आमः परस्य लेर्लुक्यामन्ते सह्ख्याप्तीत्भावेऽपि चक्रे इत्यनुप्रयोगवशेन एकर्तृका वृद्धिरूपा क्रियेत्यविद्यमानाऽपि सङ्ख्या प्रतीयते, तथैव हिस्वान्तेष्पि कालकारकसङ्ख्याप्रतीतिर्यातीत्याद्यनुप्रयोगबलेन भवतीत्याहुः । स्यादेतत् — ॒क्रियासमभिहारे हिस्वौ लोड्वा च तध्वमो॑रिति सूत्रमस्तु । तथा च हिस्वौ लोटौ न भवत इत लोड्धर्मकावित्यर्थः पूर्वोक्तरीत्या स्यादिति सर्वेष्टसिद्धौ किमनेन लोट इति षष्ठन्तकरणेनेतिचेत् । अत्राहुः - हिस्वयोर्यदि लोट्स्थानिकत्वं न स्वीक्रियते तर्हि तयोर्लोडादेशवद्भावेनईहल्यघो॑रित्यादिप्रवृत्त्या लुनीहीत्यादिसिद्धावपि हिस्वान्तस्य लोडन्तत्वं न सिध्येत् । तथा चहन्त चे॑त्यनुदात्तविकल्पो न स्यात्,हन्त! प्रलुनीहिप्रलुनीहीत्ययं लुनाति॑ । एवंच लोडन्तत्वलाभार्थंलोटो हिस्वा॑विति विधीयते । यदि तुहिस्वौ लो॑डित्युक्तेऽपि लोड्वद्भावाश्रयेण लोडन्तकार्यंहन्त चे॑ति स्वरविकल्पः सिध्यतीति ब्राऊषे तर्हि स्थानिवद्भावलब्धलोड्धर्मकौ हिस्वावित्यर्थस्याऽनाश्रयणाल्लोडादेशकार्याणि परस्मैपदात्मनेपदतिङ्संज्ञास्तु न सिध्यन्ति । तथा च पूर्वोक्तदोषस्तदवस्थः स्यात् ।लोट् लोटो हिस्वौ॑इत्युक्ते तु स्थानिवद्भावेन हिस्वयोर्लोट्त्वाल्लोडन्तकार्यं स्वरविकल्प सिध्यति,क्रियासमभिहारे लोडि॑ति वाक्याल्लोडित्यरनुवर्त्त्य हिस्वौ लोडिति प्रागेव व्याख्यातत्वाल्लोपडादेशवद्भावेन परस्मैपदात्मनेपदसंज्ञादीन्यपि सिध्यन्तीति ।

Padamanjari

धातुसम्बन्ध इति वर्तत इति । अनुप्रयोगधातुना च सम्बन्धः । क्वचित्वयं ग्रन्थो न पठ।ल्ते । प्रकृत्यर्थविशेषणं चैतदिति । उपपदत्वाशङ्कां निरस्यति । व्याख्यानाच्चोपपदत्वाभावः । समभिहारविशष्टक्रियावचनादिति । क्रियाधर्मे समभिहारमात्रे धातोर्वृत्यसम्भवादेतदुक्तम् । अत्र यदि’लोटो हिस्वौ’ इति वचनातस्यैव हिस्वौ स्याताम्, तदा सामान्यविहितानां तिङं शतृशानौभ्यामिव हिस्वाभ्यां बाधा स्यात्, ततस्तध्वमोर्लोट्स्थानिकयोरभावात्’वा च तध्वमोः’ इति तयोः स्थानित्वेनोपादानमनुपपन्नमिति लोट्शब्देन तदादेशानां ग्रहणमित्युपलक्ष्यते । अस्तु तथा, को दोषः ? इह हि तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्वान्ङ्त्वाभावाल्लुनीइहितीत्वं न स्यात्, ब्रूहीति’ब्रुव ईट्’ स्यात्, तृण्ढैइति’तृणह इम्’ स्यात्, अनुदातत्वं च हेः प्रसज्येत ? नैष दोषः;’सेर्ह्यपिच्च’ इत्यत्र योगविभागः करिष्यते, तत्सामर्थ्याद् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नाश्रीयते, सेर्हिर्भवति अपिच्च भवति यावान्कश्चिद्धिर्नामेति । यौ तर्ह्युतमादेशौ हिस्वौ, तरोयराडागमः प्राप्नोति - लुनीहिलुनीहीत्येवाहं लुनामि, अधीष्वाधीध्वेत्येवाहमधीय इति ? नैष दोषः; आटि कृते साट्कस्यादेशौ भविष्यतः, सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात् । हिस्वयोः पुनराट् न भविष्यति, इह ह्याट् क्रियातां हिस्वाविति सम्प्रधारणायामुभयोरनित्ययोः’शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति’ इति परत्वादाटि कृते साट्कस्य हिस्वाविति सिद्धमिष्टम् । एवमपि हेर्योगविभागेन पित्वाभावेऽपि स्वशब्दस्योतमादेशस्य पित्वाद्भुङ्क्ष्वभुङ्क्ष्वेत्येवाहं भुञ्जे इत्यत्र’श्नसोरल्लोपः’ इत्यकारलोपो न प्राप्नोति, ब्रूष्वब्रूप्वेत्येवाहं ब्रुवे’ब्रुव ईट्’ प्राप्नोति, सर्वेषां च तिङं द्वावपि हिस्वौ पर्यायेण स्यातां न तु’परस्मैपदानां हिः, इतरेषाअं स्वः’ इति नियामकमस्ति । तस्माद्दुष्ट एवायं पक्ष इति मत्वा लकारस्यैवादेशौ हिस्वावाश्रयणीयाविति दर्शयति । तस्य च लोट इति । नन्वस्मिन्पक्षे’वा च तध्वमोः’ इत्यनुपपन्नमित्युक्तं तत्राह - तध्वम्भाविनस्तु वा भवतीति । मुख्यार्थासम्भवे तध्वम्भावी लोडेव तथोच्यते इत्यर्थः । यदि तर्हि लोट एव हिस्वावादेशौ न तदादेशानाम्,’लः परस्मैपदम्’ इति द्वयोरपि परस्मैपदसंज्ञा स्यात्, ततश्च द्वावपि परस्मैपदिभ्य एव स्याताम् । तिङ्क्ष्वसन्निवेशाच्च तदन्तस्य तिङ्न्तता न स्यात्, ततश्च’तिङ्ङतिङः’ इति निघातो न प्राप्नोति । हिस्वयोश्च कृत्वातदन्तस्य शतृशानजन्तस्यैव प्रातिपदिकत्वात्स्वाद्यौत्पतिः प्राप्नोति, तत्र च विभक्तिसंज्ञकहिस्वसदृशत्वादनयोर्हिस्वयोः’विभक्तिस्वरप्रतिरूपकाश्च निपाताः’ ‘निपातो’ व्ययम्ऽ इत्यव्ययसंज्ञायां यद्यपि विभक्तीनां श्रवणं न भवति, तथापि ततः परस्य’तिङ्ङ्तिङ्’ इति निघातः प्राप्नोति, द्वावपि च कर्तर्येव स्याताम्, न तु स्वादेशो भावकर्मकर्तृषु स्यात् । तस्मादयमपि पक्षो दुष्ट एव, तत्राह - लोडित्येवेति । एतेन द्वितीययोगे प्रथमान्तस्य लोड्ग्रहणस्यानुवृत्ति दर्शयति । तत्र च सामानाधिकरण्येन लोडित्यनेन हिस्वौ विशेष्येते, न षष्ठ।ल विपरिणामेन, च न हिस्वौ लोटौ भवतः; उच्यते चेदं लोटो हिस्वाविति, ततश्च धर्मातिदेशो विज्ञायते, तदाह - लोड्धर्माणौ तौ भवत इत्यर्थ इति । अत्र च लोट्शब्देन लोट्संबन्धिनौ हिस्वावुच्येते मुख्यलोट्संबन्धिनो धर्मस्यातिदेश्यस्यासम्भवात्प्रसिद्धौ लोट्संबन्धिनौ यौ हिस्वौ,’सेर्ह्यपिच्च’ ‘सवाभ्यां वामौ’ इति विहितौ, तद्धर्माणावित्यर्थः । किं सिद्धं भवति ? तद्दर्शयति - तेनेति । तयोहि परस्मैपदात्मनेपदत्वं भेदेन व्यवस्थितम् - हेः परस्मैपदत्वम्, स्वस्यात्मनेपदत्वमिति । अतस्तद्धर्मातिदेशादिहापि तदुभयं भेदेन, व्यवतिष्ठते, भेदेन भविष्यतीत्यर्थः । तिङ्त्वं च भवतीति । तथा च - हीत्यस्य कर्ता वाच्यः, स्वशब्दस्य तु भावकर्मकर्तारः । पुरुषैकवचनसंज्ञे तु विधानसामर्थ्यान्न भवतः, यदि हि ते अपि स्याताम्, हिस्वयोरनेन विधानमनुपपन्नं स्याद्; वचनान्तरेणैव तयोस्तादृशयोः सिद्धत्वात् । लुनीहि लुनीहीत्यादि । पुनः पुनर्लवनमयं करोतीत्यादिरर्थः । तत्र च लोडन्तं पुनः पुनर्लवनमाह, अनुप्रयोगधातुस्तु कृतिं तद्विषयां वदन् अभिव्यनक्ति, संमुग्ध तद्गतं साधनादिकम् । एवं च सामान्यविशेषयोर्विशेषणविशेष्यभावाद् धातुसम्बन्ध उपपद्यते, इत्येवशब्दौ, लोडन्तानुप्रयोगयोः सम्बन्धार्थौ, अयन्त्वमहंशब्दाः पुरुषविशेषाभिव्यक्तिहेतवः । अथ वेति ।’वा च तध्वमोः’ इत्यस्य फलं दर्शयति । अलावीदिति । लुङ्, सिचि वृद्धिः, सिच इट्, तिपः ठस्तिसिचोऽपृक्तेऽ इतीट्, ठिट ईटिऽ इति सिचो लोपः,’सिज्लोप एकादेशे सिद्धो वक्तव्यः’ इति सवर्णदीर्घत्वम् । एवं मध्यमोतमयोरुदाहार्यमिति । लुनीहि तुनीहीत्येव त्वमलावीः अलाविष्टमलाविष्ट । अथा वा लुनीत लुनीतेत्येव यूयमलाविष्ट । लुनीहि लुनीहीत्येवाहमलविषमलाविष्व अलाविष्म । एवं मध्यमोतमयोरपीति । लुनीहि लुनीहीत्येव त्वं लविष्यसि लविष्यथः लविष्यथ । अथ वा लुनीत लुनीतेत्येव यूयं लविष्यथ । लुनीहि लुनीहीत्येवाहं लविष्यामि लविष्यावः लविष्यामः । एवं सर्वेषु लकारेषूदाहार्यमिति । लुनीहिलुनीहीत्येवायमलुनात् लुनातु लुनीयात् लूयात् लुलाव लविता लविष्यति अलविष्यत्; अधीष्वाधीष्वेत्येवायमध्यैत अधीतामधीयीत अध्येषीष्ट अधिजगे अध्यगीष्ट अध्यैष्ट अध्येता अध्यैष्यत अध्येष्यते । कर्मणि - लूयस्व लूयस्वेत्येवायं केदारो लूयत इत्यादि । भावे तु प्रसिद्धः स्वशब्दो दृष्टो न वेति चिन्त्यम् । अथोदाहरणेषु कथं द्विर्वचनम्, यावता क्रियासमभिहारं द्योतयितुं द्विर्वचनं विधीयते, स चात्र तस्मिन्नेव विधीयमानेन लोटैव द्योतितः, अथ द्योतितेऽपि तस्मिन्’क्रियासमभिहारे द्वे भवतः’ इति वचनसामर्थ्यादत्र द्विर्वचनं यङ्न्तेऽपि प्राप्नोति, वक्तव्यो वा विशेषः ? तत्राह - क्रियासमभिहाराभिव्यक्ताविति ।’लः कर्मणि च’ इति वचनाद्भावकर्मकर्तारोऽस्य वाच्याः, समभिहारस्तु द्विर्वचनेनैव द्योत्यः, यङ्स्तु न किञ्चिदन्यद्वाच्यं द्योत्यं वा विद्यते इति तेनैव क्रियासमभिहारस्य द्योतितत्वाद् द्विर्वचनाभावः । ननु च सन्तु भावकर्मकर्तारोऽस्य वाच्याः, समभिहारोऽप्युपाधित्वेन श्रुतः, सोऽपि लोटो द्योत्यो भवतु, यथा - लडादिषु वर्तमानादयः ? एवं तर्ह्यसति द्विर्वचने शुद्धस्य लोटोऽस्य च साधारणं रूपमिति समभिहाराभिव्यक्तयेऽवश्यं द्विर्वचनमपेक्ष्यते । शब्दशक्तिवैचित्र्यं चात्र हेतुः, यथा स्त्रीत्वं क्वचिदेकेनैव प्रत्ययेन द्योत्यते, क्वचिद् द्वाभ्याम्, क्वचित् दृषदित्यादो प्रातिपदिकेनैवेत्यलं प्रबन्धेन ॥

Nyaas

प्रकृत्यर्थविशेषं चैतत्िति। एतेनोपपपदत्वं निरस्यति। उपपदत्वे हि केवलाद्धातोर्न स्यादित्यादित्यभिप्रायः। अत्र तिङादेशौ वा हिस्वौ स्याताम्, लोडादेशौ वेति द्वौ पक्षौ। ननु च प्रथमपक्षाशङ्कायाः प्रसङ्ग एव नास्ति; लोट इति वचनात्,तत् कथमसावाशङिकतः? लोट्स्थानिकत्वादादेशोऽपि लोड्व्यपदेशमासादयीति युक्तमाशङ्कितुम्। तत्र हि यदि पूर्वकः पक्ष आश्रीयते तदा `भुङ्क्ष्व भुङ्क्ष्वेत्येवाहं भुञ्जै`इति **आडुत्तमस्य पिच्च** (3.4.92) इति, पित्त्वान्ङित्त्वं नास्ति, ततश्च `श्नषोरल्लोपः (6.4.111) इत्याकारलोपो न स्यात्। उभावपि च परस्मैपदानामात्मनेपदानामनियमेन स्याताम्;नियमहेतोरभावात्। सामान्येन तिङां स्थाने विधीयमानयोः कृत एतल्लभ्यते ! यतः परस्मैपदानां ह्रादेशेन भविव्यम्, इतरेषां स्वादेशेनेति। तस्माद्दुष्टोऽयं पक्ष इति मत्वा द्वितीयपक्षमाश्रित्याह - तस्य च लोटः इत्यादि। यस्मिन् पक्षे दोषः प्रसजति तं प्रतिविधास्यति। तध्वंभाविनस्तु वा भवतः इति। लोट इत्यपेक्ष्यते। तश्च ध्वञ्च तध्वमौ, तौ भाविनौ यस्य लोटः स तष्वम्भावी। एतेन तादशार्थो लोडेव स्थानी; तादथ्र्यात्, सूत्रे तशब्देन व्यपदिष्टो ध्वमादेशार्थश्च ध्व#ंशब्देनेति दर्शयति। अथ तध्वमावेवस्थानिनौ कस्मान्न विज्ञायेते? अशक्यं हि तौ स्थानित्वेन विज्ञातुम्। तयोरपि स्थानित्वेऽलोडादेशयोरपि हिस्वौ स्याताम्। अथ तध्वमौ विशेषयिष्यामः - लोटो यौ तध्वमाविति, ततोऽयमदोष इति चेत्; एवमपि प्रतिपत्तिगौरवं स्यात्। तध्वम्भाविनौ लोट एव स्थानित्वं युक्तम्, न तध्वमोः।यदितर्हि लोटो हिस्वावादेशौ, न तदादेशानां तिङामेव, एवञ्च लः परस्मैपदम् (1.4.99) इति तयोः परस्मैपदसंज्ञा स्यात्, ततश्च शेषात्कर्तरि परस्मैपदम् (1.3.78) इत्युभावपि परस्मैपदिभ्य एव स्याताम्; तिङक्ष्वसन्निवेशाच्च तदन्तस्य तिङन्तता न स्यात्, ततश्च तिङ्ङतिङः (8.1.28) इति निघातो न स्यादित्यत आह - योगविभागश्च इत्यादि। लोडित्येव इति। एतेन द्वितीये योगे लोडित्यस्यानुवृतिंत दर्शयति। लोड्धर्माणौ`इत्यादि। लोट इव धर्मस्तिङत्वादित्वार्ययोस्तौ लोड्धर्माणौ। ननु च लोडादेशानां तिङत्वादि धर्मः, न लोटः? आदेशद्वारेण स्थानिनोऽपि लोटस्तिङत्वादिधर्मो भवतीत्यदोषः। कथं पुनर्योगविभागे सति लोड्धर्माणौ तौ भवतः? योगविभागे सति द्वितीये योगे लोटशब्दो योऽनुवर्तते तेनार्थाद्विभक्तेर्विपरिणामो भवतीति षष्ठन्ततामापन्नेन हिस्वौ विशेष्येते - लोटो यौ हिस्वाविति। ततश्च लोडादेशयोः सिप्थासोः स्थाने यौ हिस्वौ `सेह्र्रपिच्च (3.2.87) इत्यादिना शास्त्रेण विधास्येते, तावेव यथास्वमुपात्तविशेषाविह लोटः स्थाने विधीयेते, नापूर्वाविति। तेन लोड्धर्माणौ तौ इत्येषोऽर्थो लभ्यत एव। तेन`इत्यादि। अत एव= यथोक्तेन प्रक#आरेण, लोड्धर्माणौ हिस्वौ लोटः स्थाने भवतः। तेन परस्मैपदत्वनमात्मनेपदत्वञ्च भेदेन विषयविभागेन व्यवतिष्ठते। तत्र हिशब्दे परस्मैपदत्वं व्यतिष्ठते; लोट्सम्बन्धिनो हेः परस्मैपदसंज्ञकत्वात्। स्वशब्दे चात्मनेपदत्वं व्यवतिष्ठते;स्वशब्दस्य लोट्सम्बन्धिन आत्मनेपदसंज्ञकत्वात्। `तिङत्वञ्च द्वयोरपि भवति इति। लोट्सम्बन्धिनोस्तयोद्र्वयोरपि तिङन्तत्वात्। ननु च सिप्थासोर्लोडादेशयोस्तौ सम्बन्धिनौ, तदादेशत्वात्, न लोटः, तत्कथं लोट्सम्बन्धित्वेन व्यदिश्येते? आदेशद्वारेण लोट्सम्बन्धित्वं तयोरप्यस्तीत्यदोषः। यदि तर्हि लोड्धर्माणौ भवतः, एवमेकवचनसंज्ञा स्यात्, मध्यमपुरुषसंज्ञा च, तयोरपि लोड्धर्मत्वात्, ततश्च वचनान्तरभाविनः पुरुषान्तरभाविनश्च लोटो न स्याताम्? नैष दोषः;यदि ह्रेकवचनमध्यमपुरुषसंज्ञे अपि स्यातां वचनमिदमनर्थकं स्यात्, विनाप्यनेन वचनेन मध्यमपुरुषैकवचनयोर्हिस्वयोः सिद्धत्वात्।लुनीहि लुनीहि`इति। `क्रियासमभिहारे द्वौ भवतः (वा।886) इति द्विर्वचनम्।ई हल्यघोः (6.4.113) इतीत्त्वम्। लुनन्ति`इति। `श्नाभ्यस्तयोरातः (6.4.112) इत्याकारलोपः। अथ वा इत्यादिना वा च तध्वमोः इति वाग्रहमस्य फलं दर्शयति। अलावीत् इति। सिचि वृद्धिः परस्मैपदेषु (7.2.1) इति वृद्धि, आर्धधातुकस्येड्वलादेः (7.2.35) इतीट्,स्तिसिचोऽपृक्ते` (7.3.96) इतीट्, इट ईटि (8.2.28) इति सिचो लोपः। अलाविष्टाम् इति। तस्थस्थ (3.4.101) इत्यादिना तसस्ताम्। अलाविषुः इति। सिजभ्यस्तविदिभ्यश्च` (3.4.109) इति झेर्जुसादेशः। एवं मध्यमोत्ततयो{अपि नास्ति-काशिका,पदमञ्जरी च}रप्युदाहार्यम् इति। लुनीहि लुनीहीत्येव त्वमलावीर्युवामलाविष्टं यूयमलाविष्ट। अथ वा - लुनीत लुनीतेत्येव यूयमलाविष्ट। लुनीहि नीहीत्येवाहमलाविषम्, आवामलाविष्वि, वयमलाविष्म।एवं मध्यमोत्तमयो{अपि नास्ति-काशिका}रप्युदाहार्यम् इति। लुनीहि लुनीहीत्येवं त्वं लविष्यसि, युवां लविष्यथः, यूयं लविप्यथ। अथ वा - लुनीत लुनीतेत्येव यूयं लविष्यथ। लुनीहि लुनीहीत्येवाहं लविष्यामि, आवां लविष्यावः, वयं लविष्यामः।अधीयात् इति। इयङ। अधीयते इति। आत्मनेपदेष्वनतः (7.1.5) इत्यदादेशः। एवं {सर्वेषु लकारेषूदाहार्यम्-काशिका, पदमञ्जरी च}सर्वलकारेषूदाहार्यम् इति। लङ-लुनीहि लुनीहीत्येवायमलुनात्, इमावलुनीताम्, इमेऽलुनन्। लुनीहि लुनीहीत्येव त्वमलुनः, युवामलुनीतम्, यूयमलुनीत। अथ वा - लुलीत लुनीतेत्येव यूयमलुनीत। लुनीहि लनीहीत्येवाहमलुनाम्, आवामलुनीव, वममलुनीम। अधीष्वाधीष्वेत्येवायमध्यैत, इमावध्यैयाताम्िमेऽध्यैयत। अधीष्वाधीष्वेसत्येव त्वमध्यैथाः, युवामध्यैयाथाम्, यूयमध्यैध्वम्। अथ वा - अधीध्वमधीध्वमित्येव यूयमध्यैध्वम्। अधीष्वाधीष्वत्यवाहमध्यैषि, आवामध्यैवहि, वयमध्यैमहि। अन्येषु लकारेष्वतिग्रन्थविस्तरभयान्नोदाह्यियते।अनया दिशा स्वयमेवाभ्युपगम्योदाहार्यम्।अथ लुनीहि लुनोहीति कथमत्र द्विर्वचनम्, यावता धातुनैव क्रियासमभिहारोऽवगमितः; तद्विशिष्टक्रियावचनाद्धातोर्लोड्विधानात्? अथ वा - अवगमिते सति तस्मिन् द्विर्वचनं भवतीति चेदेवं यङन्तस्यापि द्विर्वचनं स्यात्? इत्यत आह - क्रियासमभिहाराभिव्यक्तौ इत्यादि। यद्यपि क्रियासमभिहारविशिष्टक्रियाभिधायिनो धातोर्लोड् भवति, तथापि या तस्य क्रियासमभिहारभिव्यक्तिः सा धातुना न क्रियते, किं तर्हि? लोडैव। स चतां कर्त्तुं द्विर्वचनसहित एव समर्थो भवति, न केवलः; तत्र तस्याविधानात्। स हि लोट लः कर्मणि च भावे चाकर्मकेभ्यः (3.4.69) इति कर्मादिषु विधीयते, न क्रियासमभिहारे। तस्मात् तदभिव्यक्तौ कर्तव्यायां लोट् स्वयमसमर्थ इति द्विर्वचनमपेक्षते, तेन तदन्तस्य द्विर्वचनं भवतीति भावः। केन पुनर्विधीयमानं द्विर्वचनमपेक्षत इत्याह - क्रियासमभिहारे इत्यादि। यङप्रत्ययः पुनः इत्यादि। यङप्रत्ययो हि क्रियासमभिहार एव विधीयते। तेनासौ तत्र विधीयमानस्तदभिव्यक्तौ स्वयमेव समर्थ इति नापेक्षते द्विर्वचनम्। तेन तदन्तस्य द्विर्वचनं न भवतीति भावः॥

Prakriyasarvasvam

पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । तस्मिन्नर्थे सर्वलकारविषयेऽपि लोट् स्यात्, तस्य च लोटः परस्मैपदरूपो हि, आत्मनेपदरूपः स्व इत्यादेशश्च स्यात्; तध्वमोर्विषये तु हिस्वौ वा स्तः ।