34011: दृशे विख्ये च

Padacheda: दृशे | S | 7 | 1 |

विख्ये | S | 0 | 0 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The words 1. दृशे 2. विख्ये are anomalous Vedic Infinitives.

Vasu English Translation

The words 1. दृशे 2. विख्ये are anomalous Vedic Infinitives. Thus दृशे विश्वाय सूर्यम् (Rig. I.50.1) द्रष्टुम् । विख्ये त्वा हरामि = विख्यातुम् ।

Kashika

तुमर्थे छन्दसीत्येव। दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते। दृशेः केप्रत्ययः। दृ॒शे विश्वा॑य॒ सूर्य॑म् (ऋ०१.५०.१)। द्रष्टुम्। विख्ये त्वा हरामि। विख्यातुम्॥

Siddhanta Kaumudi

द्रष्टुं विख्यातुमित्यर्थः ॥

Balamanorama

दृशे विख्ये च - अथाशीर्लिङि विशेषमाह — लिङाशिषि ।लि॑ङिति लुप्तषष्ठीकं पदम् । तिङ्शित्सार्वधातुमित्यतस्तिङित्यनुवर्तते । तदाह — आशिषि लिङस्तिङिति । सार्वधातुकसंज्ञाऽपवादोऽयम् । ततश्च सार्वधातुकसंज्ञाकार्यं शबादि न भवति ।

Padamanjari

योगविभागश्चिन्त्यप्रयोजनः ॥

Nyaas

दृशे इति। दृशेः केप्रत्ययः। विख्ये इति। विपूर्वाच्चक्षिङ ख्यातेर्वा केप्रत्ययो निपात्यते॥

Prakriyasarvasvam

द्वौ तुमर्थौ । सूर्यं दृशे । विख्ये त्वा हरामि । विख्यातुमित्यर्थः ।