34008: उपसंवादाशङ्कयोश्च¶
Padacheda: उपसंवाद-आशङ्कयोः | S | 7 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Where a contingent promise (a reciprocal agreement) or apprehension is implied, the affix लेट् (Vedic Subjunctive) is used after a root in the छन्दस् (Vedas) Literature.
Vasu English Translation¶
Where a contingent promise (a reciprocal agreement) or apprehension is implied, the affix लेट् (Vedic Subjunctive) is used after a root in the छन्दस् (Vedas) Literature. The word उपसम्वाद means ‘reciprocal agreement, contracting to do’. Thus यदि मे भवानिदं कुर्य्याद् अहमपि भवत इदं दास्यामि ‘If you do this for me, I will give this to you’. Agreements like these are called उपसम्वाद; while guessing or inferring the result from a cause is called आशङ्का ‘apprehension or fear’.
Thus अहमेव पशूनामीशै ॥ मदग्रा एव वो ग्रहा गृह्यान्तै ॥ मद्देवत्यान्येव वः पात्राण्युच्यान्तै ॥ नेज्जिह्यायन्तो (or नेज्जिह्यायन्त्यो) नरकं पताम ॥ (Nir. I.II.Bohtlingk) = जिह्माचरणेन नरकपात आशङ्कयते ॥ All the above examples have the sense of Potential, but the Subjunctive (Let) must be employed necessarily in these senses and not optionally, which anuvritti was understood in the last sutra.
Bhashya¶
उपसंवादाशङ्कयोश्च (1169) (594 लेड्प्रत्ययविधिसूत्रम्॥ 3 । 4 । 1 आ.5) (5033 आक्षेपवार्तिकम्॥ 1 ॥) - उपसंवादाशङ्कयोर्वचनानर्थक्यं लिङर्थत्वात्- (भाष्यम्) उपसंवादाशङ्कयोर्वचनार्थकम्। किं कारणम्?। लिङर्थत्वात्। लिङर्थे लेट् इत्येव सिद्धम्॥ कः पुनर्लिङर्थः?। केचित्तावदाहुः - हेतुहेतुमतोर्लिङ् इति। अपर आहुः - वक्तव्य एतैतस्मिन्विशेषे लिङ्। प्रयुज्यते हि लोके यदि मे भवानिदं कुर्याद्र, अहमपि त इदं दद्यामिति। उपसंवादा॥ 8 ॥
Kashika¶
उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्याद् अहमपि भवत इदं दास्यामीति। कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का। उपसंवाद आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति। उपसंवादे — अहमेव पशूनामीशै (काठ०सं० २५.१)। म॑द॒ग्रा ए॒व॑ वो॒ ग्र॑हा॒ गृह्यान्तै॒ (मै०सं० ४.५.८) इति। मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्तै॒ (तै०सं० ६.४.७.२)। आशङ्कायां च — नेज्जि॒ह्माय॒न्त्यो न॑र॒कं प॑ताम (ऋ०खिल १०.१०६.१)। जिह्माचरणेन नरकपात आशङ्क्यते। लिङर्थ एवायं नित्यार्थं तु वचनम्। पूर्वसूत्रेऽन्यतरस्यामिति वर्तते॥
Siddhanta Kaumudi¶
पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेज्जिह्मा यन्तौ नरकं पताम (नेज्जि॑ह्मा य॒न्तौ नरकं॒ प॑ताम) । हलः श्नः शानज्झौ - (SK2557) ॥
Padamanjari¶
यदि मे भवानित्यादिनोपसंवादस्य स्वरूपं दर्शयति । कारणत इत्यादिना । शङ्कायाः अनुसरणमनुगमनमित्यर्थः । अहमेवेत्यादि । त्रिपुरविजये देवैः प्रर्थितस्य देवस्यैतद्वचनम् । ठीश ऐश्वर्येऽ, उतमैकवचनमिट्, टेरेत्वम्,’वैतोन्यत्र’ इत्यैकारः । पशवो द्विपादश्चतुष्पादश्च ।’वायुं देवा अब्रुवन्सोमं राजानं हनामेति, सो’ ब्रवीदूरं वृणै, मदग्रा एव वो ग्रहा गृहायान्तै इति । मद्ग्रहोऽग्रं प्रथमं येषां ते तथोक्ताः, ग्रहेः कर्मण्यात्मनेपदं यक्, ग्रहिज्यादिना सम्प्रसारणम्, झस्याडागमः, पूर्ववदैत्यम् ।’देवाः सोममघ्नन्, सो’ पूयदशक्यतामागमत्, ते वायुमब्रुवन् इमं नः स्वदयेति, सोऽब्रवीद्वरं वृणै, मद्देवतान्येव वः पात्राण्युच्यान्तै इति । अहं देवता येषां तानि तथोक्तानि । उच्यान्तै इति वचेः’वचिस्वपि’ इत्यादिना सम्प्रसारणम्, शेषं पूर्ववत् । नेज्जिह्यायन्त इति । इच्छब्द आशङ्कां द्योतयति । जिह्मचरणेन नरकपातः सम्भाव्यते, स मा भूदित्यर्थः । जिह्ममुकुटिलं पापम्,’च्छन्दसि परेच्छायाम्’ इति क्यच्, ठश्वाघस्यात्ऽ इति योगविभागोनात्वम् । वृतौ तु वस्तुमात्रं दर्शितम् । जिह्माचरणेनेति । न पुनराचारे उपमानादन्यत्र क्यजस्ति । हेतौ शतृप्रत्ययः । लिर्ङ्थ एवायमिति । हेतुहेतुमद्भावे, कथम् ? उपसंवादे तावत्करणं हेतुः, दानं हेतुमत्; अन्यथा यदि मे भवानिदं कुर्यादिति लिङ् न स्यात्, विभाषा तु लिङिति । अहमपि ते इदं दास्यामीति लृट् । भाष्ये तु ददातेरपि लिङ् प्रयुक्तः । आशङ्कापि कारणतः कार्यानुसरणम्, तत्र कारणं हेतुः, कार्यं हेतुमत् । अथापि करणमवधिः, दानमवधिमदित्यवध्यवधिमद्भाव उपसंवादे प्रतीयते, न हेतुहेतुमद्भावः, आशङ्कायामपि निश्चितो हेतुहेतुमद्भावो नास्तीत्युच्येत, तथापि लिङ्प्रयोगसिद्धयेऽवश्यं वक्तव्योऽत्र हेतुहेतुमद्भावः, अतो लिर्ङ्थ एवायमित्यर्थः । नित्यार्थं तु वचनमिति । च्छन्दसि नित्योऽत्र लिङ् दृश्यत इति मन्यते, तथापि व्यवस्थितविभाषया सिद्धमिति चेतदेव तर्हि वचनेन ज्ञाप्यते ॥
Nyaas¶
उपसंवादः परिभाषणम्; कर्तव्ये पणबन्धः इति। उपसंवादशब्दस्येमौ पर्यायौ। यदि मे भवान् इत्यादिनोसवादस्य स्वरूपं दर्शयति। कारणत इत्यादिनाप्याशङ्कायाः। अनुसरणम् इति। अनुगमनम्, अनुमानमित्यर्थः। तर्क उत्प्रेक्षा इति। आशङ्काया इमौ प्र्यायौ। अहमेव इत्यादि। देवैः पशुपतिरुक्तस्त्रिपुरं जहीति, तेनोक्तम् - अहमेव पशूनामीशै इति। ब्राहृहत्याभागं गृहाणेत्युक्ते आदित्य इदमुक्तवान् मदग्रा एव वो ग्रहा गृह्रान्तै। मद्देवतान्येव वः पात्राण्युच्यान्तै। `ईशै`इति - `ईश ऐआर्ये (धातुपाठः-1020), उत्तमपुरुषैकवचनम्, इट्, टेरेत्वम्, एत ऐ (3.4.93) । गृह्रान्तै इति - ग्रह उपादाने` (धातुपाठः-1533), झोऽन्तः (7.1.3) , कर्मणि सार्वधातुके यक् (3.1.67) , ग्रह्रादिसूत्रेण (6.1.16) सम्प्रसारणम्। शेषं पूर्ववत् साधनम्। उच्यान्तै इति - वच परिभाषणे (धातुपाठः-1063), वच्यादिसूत्रेण (6.1.15) सम्प्रसारणम्। शेषं पूर्ववत्। पताम इति - पत्लृ गतौ (धातुपाठः-845), मस्, लेटोऽडाटौ (3.4.94) इत्याट्। जिहृआचरणेन इत्यादिना पूर्वोक्तमाशङ्कालक्षणमुदाहरणे दर्शयति। लिङर्थ एवायम् इति। हेतुहेतुमद्भावः। कथम्? उपसंवादे तावत् - यदि मे भवानिदं कुर्यादहमपि त इदं दास्यामीत्येवंविधं परिभाषणलक्षणम्। तत्र च करणं हेतुः, दानं हेतुमदिति युक्त उपसंवादो लिङर्थः। आशङ्कापि कारणतः कार्यानुसरणम्। तत्रापि कारणं हेतुः, कार्यानुसरणं हेतुमदित्याशङ्कापि लिङर्थ एव। यद्येवम्म, पूर्वेणैव सिद्धम्, तत्किमर्थमिदमुच्यते? इत्याह - नित्यार्थ वचनम् इति। स्यादेतत् पूर्वेणैव नित्यं भविष्यतीत्याह - पूर्वसूत्रे इत्यादि॥