Sutras 161 - 180¶
- 32161: भञ्जभासमिदो घुरच्
- 32162: विदिभिदिच्छिदेः कुरच्
- 32163: इण्नश्जिसर्त्तिभ्यः क्वरप्
- 32164: गत्वरश्च
- 32165: जागुरूकः
- 32166: यजजपदशां यङः
- 32167: नमिकम्पिस्म्यजसकमहिंसदीपो रः
- 32168: सनाशंसभिक्ष उः
- 32169: विन्दुरिच्छुः
- 32170: क्याच्छन्दसि
- 32171: आदृगमहनजनः किकिनौ लिट् च
- 32172: स्वपितृषोर्नजिङ्
- 32173: शॄवन्द्योरारुः
- 32174: भियः क्रुक्लुकनौ
- 32175: स्थेशभासपिसकसो वरच्
- 32176: यश्च यङः
- 32177: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्
- 32178: अन्येभ्योऽपि दृश्यते
- 32179: भुवः संज्ञाऽन्तरयोः
- 32180: विप्रसम्भ्यो ड्वसंज्ञायाम्