32172: स्वपितृषोर्नजिङ्¶
Padacheda: स्वपि-तृषोः | S | 6 | 2 |
नजिङ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix नजिङ् comes, in the sense of ‘agent having such a habit etc.’ after the verbs स्वप् ‘to sleep’ and तृष् ‘to be thirsty’.
Vasu English Translation¶
The affix नजिङ् comes, in the sense of ‘agent having such a habit etc.’ after the verbs स्वप् ‘to sleep’ and तृष् ‘to be thirsty’. The affix नजिङ् comes, in the sense of ‘the agents having such a habit &c’, after the verbs स्वप् ‘to sleep’ and तृष ‘to be thirsty’.
As स्वप् + नजिङ् = स्वप्नज् Ist. sing. स्वप्नक् ‘sleeping, drowsy’; तृष्णज् Ist. sing. तृष्णक् ‘covetous, thirsty’.
Vart:- So also after the verb धृष् ‘to insult, be bold’; as, धृष्णज् Ist. sing. धृष्णक् ‘bold, impudent’.
Kashika¶
छन्दसीति निवृत्तम्। स्वपेस्तृषेश्च तच्छीलादिषु कर्तृषु नजिङ् प्रत्ययो भवति। स्वप् — स्वप्नक् । तृष्णक् ॥ धृषेश्चेति वक्तव्यम्॥ धृष्णक् ॥
Siddhanta Kaumudi¶
स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥
Balamanorama¶
स्वपितृषोर्नजिङ् - स्वपितृषोर्नजिङ् । पञ्चम्यर्थे षष्ठी । स्वपेर्नजिङ् स्यात्तच्छलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । ङकार इत् । स्वप्नगिति । स्वपनशील इत्यर्थ- । स्वप्नजौ स्वप्नजः । एवं तृष्णक् । तर्षणशीलः इत्यर्थः । धृषेश्चेति ।नजि॑ङिति शेषः । काशिकादाविति । भाष्ये तु न दृश्यते इति भावः ।
Nyaas¶
स्वप्नक, तृष्णक् इति। ञिष्वप शये (धातुपाठः-1068), ञितृषा पिपासायाम् (धातुपाठः-1228), चोः कुः (8.2.30) इति कुत्वम् - गकारः। तस्य वाऽवसाने (8.4.56) इति चर्त्वम् - ककारः। नजिङो ङकारस्तृषेश्च गुणप्रतिषेधार्थः, इकार उच्चारणार्थः॥
Prakriyasarvasvam¶
स्वप्नज् । पदत्वे स्वप्नक् स्वापशीलः । ङित्त्वादगुणः णत्वम् । तृष्णक् ।<!धृषेश्च वाच्यम्!> (वा० ३-२-१७२) । धृष्णक् ॥
Vartika¶
धृषेश्चेति वाच्यम् ।
Sutra Prayogas¶
स्वप्नक् (भट्टिकाव्यम्): स्वपि- तृषोर्नजिङ् इति नजिङ् प्रत्ययः।