32161: भञ्जभासमिदो घुरच्

Padacheda: भञ्ज-भास-मिदः | S | 5 | 1 |

घुरच् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix घुरच् comes in the sense of ‘agent having such a habit etc.’ after the verbs 1. भञ्ज् ‘to break’ 2. भास् ‘to shine’ 3. भिद् ‘to be fat’.

Vasu English Translation

The affix घुरच् comes in the sense of ‘agent having such a habit etc.’ after the verbs 1. भञ्ज् ‘to break’ 2. भास् ‘to shine’ 3. भिद् ‘to be fat’. As भञ्ज् + घुरच् = भङ्ग् + उर (7.3.52) = भङ्गुरः ‘brittle’; the palatal being changed into guttural, because of the indicatory घ. So also मेदुरः पशुः ‘a fat beast’; भासुरं ज्योतिः ‘splendid light’.

After the verb भञ्ज् this affix gives a reflexive signification– that which naturally breaks of itself.

Kashika

भञ्ज भास मिद इत्येतेभ्यो घुरच् प्रत्ययो भवति तच्छीलादिषु कर्तृषु। भङ्गुरं काष्ठम्। घित्त्वात् कुत्वम्। भासुरं ज्योतिः। मेदुरः पशुः। भञ्जेः कर्मकर्तरि प्रत्ययः, स्वभावात्॥

Siddhanta Kaumudi

भङ्गुरः । भासुरः । मेदुरः ॥

Balamanorama

भञ्जभासमिदो घुरच् - भञ्जभास । भञ्ज, भास, मिद्, एषां द्वन्द्वात्पञ्चमी । एभ्यो घुरच् स्ात्तच्छीलादिष्वित्यर्थः । घचावितौ । भङ्गुर इति ।चजो॑रिति कुत्वम् ।

Tattvabodhini

भञ्जभासमिदो घुरच् - भङ्गुर इति ।चजो॑रिति कुत्वम् । अभिधानस्वभावाद्भञ्जेः कर्मकर्तर्येवेत्याहुः ।

Padamanjari

भञ्चभासमिदो घुरच् ‘भञ्चो आमर्द्दने’ ‘भासृ दीप्तौ,’ ठ्ञिमिदा स्नेहनेऽ॥

Nyaas

{भञ्ज आमर्दने`(धातुपाठः-1453), `भासृ दीप्तौ`(धातुपाठः-624), `ञिमिदा {स्नेहने-धातुपाठः-} स्नेहनमोचनयोः`(धातुपाठः-1243)। `भङगुरम्िति। **चजोः कु घिण्ण्यतोः** (7.3.52) इति कुत्वम्। `कर्मकर्तरि प्रत्ययः इति। भज्यते स्वयमेवेत्यर्थः। कुतः पुनः कर्मकर्तरि प्रत्यो लभ्यत इत्यत आह - स्वभावात् इति। प्रकृत्यैव प्रत्ययः कर्मकर्तरिमभिधत्ते, न कर्त्तृमात्रम्। अतः कर्मकर्तर्येव॥

Sutra Prayogas

  • भासुरहेमराशिं (रघुवंशम्): भञ्जभासमिदो घुरच् इति घुरच्।

  • प्रतप्तचामीकरभासुरेण (किरातार्जुनीयम्): भञ्जभासमिदो घुरच् इति घुरच्प्रत्ययः।