32160: सृघस्यदः क्मरच्¶
Padacheda: सृ-घसि-अदः | S | 5 | 1 |
क्मरच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्मरच् comes in the sense of ‘agent having such a habit etc.’ comes after the verbs 1. सृ ‘to flow’ 2. घसि ‘to eat’ 3. अद् ‘to eat’.
Vasu English Translation¶
The affix क्मरच् comes in the sense of ‘agent having such a habit etc.’ comes after the verbs 1. सृ ‘to flow’ 2. घसि ‘to eat’ 3. अद् ‘to eat’. As सृमरः ‘going, a kind of deer’; घस्मरः ‘gluttonous’; अद्मरः ‘voracious’.
Kashika¶
सृ घसि अद् इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्मरच् प्रत्ययो भवति। सृमरः। घस्मरः। अद्मरः॥
Siddhanta Kaumudi¶
सृमरः । घस्मरः । अद्मरः ॥
Balamanorama¶
सृघस्यदः क्मरच् - सृघस्यदः । सृ, घसि, अद् एषां द्वन्द्वात्पञ्चमी । घसिः प्रकृत्यन्तरम् ।
Padamanjari¶
सृघस्यदः क्मरच्॥ घसिः प्रकृत्यन्तरमस्ति॥
Prakriyasarvasvam¶
कित्त्वादगुणः । सृमरः । घस्मरः । अद्मरः । भञ्जेः कर्मकर्तर्येव । घित्त्वाज्जस्य कुः । स्वयं भञ्जनशीलो भङ्गुरः । भासुरः । मेदुरः ॥
Sutra Prayogas¶
घस्मर (भट्टिकाव्यम्): सृघ- स्यदः क्मरच् इति क्मरच्-प्रत्ययः।