32174: भियः क्रुक्लुकनौ

Padacheda: भियः | S | 5 | 1 |

क्रु-क्लुकनौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

The affixes क्रु and क्लुकन come in the sense of ‘agent having such a habit etc.’ after the verb भी ‘to fear’.

Vasu English Translation

The affixes क्रु and क्लुकन come in the sense of ‘agent having such a habit etc.’ after the verb भी ‘to fear’. As, भीरुः ‘fearful, timid’; भीलुकः ‘timorous, a bear, a tiger, a jackal’. Vart:- The affix क्रुकन् should also be stated; as भीरुकः ।

Bhashya

भियः क्रुक्लुकनौ (951) (530 क्रुक्लुकन्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 3 आ.11) (3079 वार्तिकम्॥ 1 ॥) - भियः क्रुकन्नपि- (भाष्यम्) भियः क्रुकन्नपि वक्तव्यः। भीरुकः॥ भियः क्रु॥ 174 ॥

Kashika

ञिभी भये अस्माद् धातोः तच्छीलादिषु कर्तृषु क्रुक्लुकनौ प्रत्ययौ भवतः। भीरुः। भीलुकः॥ क्रुक न्नपि वक्तव्यः॥ भीरुकः॥

Siddhanta Kaumudi

भीरुः । भीलुकः ।<!क्रुकन्नपि वाच्यः !> (वार्तिकम्) ॥ भीरुकः ॥

Balamanorama

भियः क्रुक्लुकनौ - भियः । भीधातोः क्रु क्लुकन् एतौ स्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः ।

Nyaas

क्रुकन्नपि वक्तव्यम् इति। क्रुकन्नित्यपरः प्रत्ययो वाच्यः, व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - आदृगमहन (3.2.171) इत्यादेः सूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, स चानुक्तसमुच्चयार्थः। तेन क्रुकन्नपि भविष्यतीति॥

Prakriyasarvasvam

कित्त्वादगुणः । भीरुः । भीलुकः । ‘क्रुकन्नपि वाच्यः’ । (वा० ३-२-१७४) भीरुकः ।

Vartika

क्रुकन्नपि वक्तव्यः ।

Sutra Prayogas

  • अ-भीरुर (भट्टिकाव्यम्): भियः क्रु-क्कुकनौ इति क्रु प्रत्ययः।