32162: विदिभिदिच्छिदेः कुरच्¶
Padacheda: विदि-भिदि-च्छिदेः | S | 5 | 1 |
कुरच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix कुरच् comes in the sense of ‘agent having such a habit etc.’ after the verbs 1. विद् ‘to know’ 2. भिद् ‘to divide’ 3. छिद् ‘to pierce’.
Vasu English Translation¶
The affix कुरच् comes in the sense of ‘agent having such a habit etc.’ after the verbs 1. विद् ‘to know’ 2. भिद् ‘to divide’ 3. छिद् ‘to pierce’. As विदुरः पण्डितः ‘a knowing Pandit’; भिदुरं काष्टम् ‘a splitting or fragile wood’; छिदुरा रज्जुः ‘a cutting or breaking rope’. The affix is employed in a reflexive sense after the verbs भिद and छिद.
Vart:- The affix कुरच् comes after the verb व्यध ‘to kill’; and there is vocalisation of the semivowel; as विधुरः ।
Kashika¶
ज्ञानार्थस्य विदेः ग्रहणं न लाभार्थस्य स्वभावात्। विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच् प्रत्ययो भवति। विदुरः पण्डितः। भिदुरं काष्ठम्। छिदुरा रज्जुः। भिदिच्छिद्योः कर्मकर्तरि प्रयोगः॥ व्यधेः संप्रसारणं कुरच्च वक्तव्यः॥ विधुरः॥
Siddhanta Kaumudi¶
विदुरः । भिदुरम् । छिदुरम् ॥
Balamanorama¶
विदिभिदिच्छिदेः कुरच् - विदिभिदि । तच्छीलादिष्वित्येव । विदेज्र्ञानार्थस्य ग्रहणं, नतु लाभार्थस्य, व्याख्यानादित्याहुः । विदुर इत्यादौ कित्त्वान्न लघूपधगुणः ।
Tattvabodhini¶
विदिभिदिच्छिदेः कुरच् - विदिभिदि । विदेज्र्ञानार्थस्यैव ग्रहणं न तु लाभार्थस्य, व्याख्यानात् । छिदुरमिति । कर्मकर्तरि प्रत्यय इति वृत्तिः । नैतद्भाष्ये दृष्टम् । तथा च माघो मुख्ये कर्तरि प्रायुङ्क्त — ॒प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयाऽदुरयाचितमङ्गना॑ इति । इह अदुरिति च्छेदः ।
Padamanjari¶
विदिबिदिच्चिदेः कुरच्॥ न लाभार्थस्येति। ज्ञानार्थस्येदमुपलक्षणं न लाभार्थस्येत्यर्थः। कुत इत्याह - स्वभावादिति। तेन’लुग्विकरणालुग्विकरणयोरित्येतदपि न प्रवर्तत इत्यर्तः। विदिभिदिच्छिदेर्ङिदिति प्रकृतस्यैव घुरचो ङ्त्वाइतिदेशेनैव सिद्धे’प्रत्ययान्तरकरणमातिदेशिकं ङ्त्विमनित्यम्’ इति ज्ञापनार्थम्। तेन’धू विधूनने’ कुटादिः, ततः ठर्तिलूधू’ इतीत्रप्रत्ययो कृते ङित्कार्य न भवति। केचितु - धुवित्रमित्येवेच्छन्ति, प्राणा वै धुवित्राणीति छान्दसं तदनुसारेण कल्पसूत्रेषु प्रयोगः। कर्मकर्तरीति। माघस्तु शुद्धे कर्तरि प्रयुङ्क्ते -‘गुरुमत्सरच्छिदुरया दुरयाचितमङ्गना’ इति॥
Nyaas¶
ज्ञानार्थस्य विदेग्र्रहणम् इति। विद ज्ञाने (धातुपाठः-1064) इत्येतस्य। न लाभार्थस्य इति। विद्लृ लाभे (धातुपाठः-1432) इत्येतस्य। अज्ञानार्थस्य विदेरुपलक्षणमेतत्, तेन सत्ताविचारणार्थौ यौ विदी तयोरपि ग्रहणं न भवत्येव। क्वचित्त्वनयोरादिशब्देनोपसंग्रहाय लाभार्थस्येति पाठः। कस्मात् पुनज्र्ञानार्थस्य ग्रहणमित्याह - स्वभावात् इति। विदेरुत्पन्नेन प्रत्ययेन स्वभाव एव ज्ञानक्रियाया यः कर्ता स एव प्रतीयते, नान्यः। तस्माज्ज्ञानार्थस्य ग्रहणम्, नान्यस्य। `कर्मकर्तरि प्रत्ययः`इति। स्वयमेव च्छिद्यत इत्यर्थे। तत्र स्वभावादिति पूर्वोक्त एव हेतुः॥
Prakriyasarvasvam¶
कित्त्वादगुणः । ज्ञानशीलो विदुरः । भिदुरः । छिदुरः । द्वौ कर्मकर्तरीति वृत्तिः । कर्तर्यपीति हरमाधवौ । व्यथेः सम्प्रसारणं चेति माधवः । व्यथशीलो विथुरः । विधुरस्तूणादेः स्यात् ॥
Sutra Prayogas¶
जयी (रघुवंशम्): जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसुभ्यः इति इनिप्रत्ययः।
छिदुरो (रघुवंशम्): विदिभिदिच्छिदेः कुरच् इति कुरच्प्रत्ययः।
तच्छिदुरमेखलागुणं (कुमारसम्भवम्): विदिभिदिछिदेः कुरच् इति कुरच्प्रत्ययः।
दुःशासनम् (किरातार्जुनीयम्): भाषायां शासियुधिदृशिवृषिमृषिभ्यो युज्वा इति युच्प्रत्ययः।
छिदुरया (शिशुपालवधम्): विदिभिदिच्छिदेः कुरच् इति कुरच्प्रत्ययः।
अयशोभिदुरा (शिशुपालवधम्): विदिभिदिच्छिदेः कुरच् इति कुरच्-प्रत्ययः।
विदुरो (भट्टिकाव्यम्): विदि भिदिच्छिदेः कुरच् इति कुरच्।