32164: गत्वरश्च

Padacheda: गत्वरः | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And the word गत्वर is irregularly formed.

Vasu English Translation

And the word गत्वर is irregularly formed. The word गत्वर is formed by eliding the म् of गम् and adding the affix क्वरप्. As गत्वरः, fem. गत्वरी ‘locomotive, transient’.

Kashika

गत्वर इति निपात्यते। गमेरनुनासिकलोपः क्वरप् प्रत्ययश्च। गत्वरः। गत्वरी॥

Siddhanta Kaumudi

गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥

Balamanorama

गत्वरश्च - गत्वरश्च । गमेरिति.गमेः क्वरप्, अनुनासिकलोपश्च निपात्यते इत्र्थः । झलादिप्रत्ययपरकत्वाऽभावादनुनासिकलोपस्याऽप्राप्तिः । पित्त्वात्तुक् । गत्वरीति ।टिड्ढे॑ति ङीप् ।

Prakriyasarvasvam

गमेः क्वरबयम् ॥

Sutra Prayogas

  • गत्वरैः (किरातार्जुनीयम्): गत्वरश्च इति क्वरप्-प्रत्ययान्तो निपातः।

  • गत्वरतां (भट्टिकाव्यम्): गत्वरश्च इति निपातितः ।