32173: शॄवन्द्योरारुः

Padacheda: शॄ-वन्द्योः | S | 6 | 2 |

आरुः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix आरु comes, in the sense of ‘agent having such a habit etc.’ after the verbs शॄ ‘to to injure’ and वन्द् ‘to praise, to salute’.

Vasu English Translation

The affix आरु comes, in the sense of ‘agent having such a habit etc.’ after the verbs शॄ ‘to to injure’ and वन्द् ‘to praise, to salute’. As शरारुः ‘noxious, a mischievous animal’; वन्दारुः ‘praising, a bard’.

Kashika

शृ हिंसायाम् वदि अभिवादनस्तुत्योः एताभ्यां धातुभ्यां तच्छीलादिषु कर्तृष्वारुः प्रत्ययो भवति। शरारुः। वन्दारुः॥

Siddhanta Kaumudi

शरारुः । वन्दारुः ॥

Balamanorama

शॄवन्द्योरारुः - शृवन्द्योरारुः । पञ्चमर्थे षष्ठी । ‘शृ हिंसायां’वदि अभिवादनस्तुत्योः॑ । आभ्यामारुप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः ।

Tattvabodhini

शॄवन्द्योरारुः - * क्रुकन्नपीति । अत एवभीलुभीलुकभीरुकाः॑ इत्यमरः ।

Nyaas

शृणोतेः लषपत (3.2.154) इत्यादिनोकञपि भवति। वन्दतेः अनुदात्तेतश्च (3.2.149) इत्यादिना युचि प्राप्ते वचनमिदम्॥

Prakriyasarvasvam

गुणः । शरारुर्हिंस्रः । वन्दारुः ॥

Sutra Prayogas

  • शरारुः (शिशुपालवधम्): शृवन्द्योरारुः इत्यारुप्रत्ययः।

  • वन्दारुभिः (भट्टिकाव्यम्): शृ-वन्द्योरारुः इति आरुः प्रत्ययः।