32176: यश्च यङः

Padacheda: यः | S | 5 | 1 |

च | S | 0 | 0 |

यङः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix वरच् in the sense of ‘agent having such a habit etc.’ comes after the verb या when it ends with the affix यङ्।

Vasu English Translation

The affix वरच् in the sense of ‘agent having such a habit etc.’ comes after the verb या when it ends with the affix यङ्। With the affix यङ्, the intensives of verbs are formed; as यायावरः ‘a vagrant, an ascetic’. See sutra (1.1.58).

Kashika

या प्रापणे अस्माद् यङन्तात् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति। यायावरः॥

Siddhanta Kaumudi

यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः (SK2380) । तस्य अचः परस्मिन् (SK50) इति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशे न स्थानिवत् तस्य यलोपं प्रति स्थानिवद्भावनिषेधात् लोपो व्योः - (SK873) इति यलोपः । अल्लोपस्य स्थानिवत्त्वामाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥

Balamanorama

यश्च यङः - यश्च यङः । ‘या प्रापणे’ इत्यस्य धातोरनुकरणस्य या इत्यस्य ‘यः’ इति षष्ठन्तम् । तदाह - यातेरिति । याधतोर्यङ् । द्वित्वादि । ‘दीर्घोऽकितः’ इत्यभ्यासस्य दीर्घः ।यायाये॑ति यङन्ताद्वरचिविशेषमाह — अतो लोप इति । हलः परत्वाऽभावात् ‘यस्य हलः’ इति यकारोलोप न । ‘यायाय् - वर’ इति स्थिते आह — लोपो व्योरिति यकारलोप इति । ननु अतो लोपस्यअचः परस्मिन् इतस्थानिवत्त्वदाकरेण व्यवधानाद्वल्परत्वाऽभावात्कथमह यलोप इत्यत आह — तस्येति । तस्य= अल्लोपस्य यलोपे कर्तव्येन पदान्ते॑ति स्थानिवत्त्वनिषेधादित्यर्थः । एवं च यङोऽकारस्य यकारस्य च लोपे यायावर इत्यत्रआतो लोप इटि चे॑त्याल्लोपमाशङ्क्य निराकरोति — अल्लोपस्येति । यङकारलोपस्यअचः परस्मि॑न्नति स्थानिवत्त्वमाश्रित्य तदाकारात्मकार्धधातुकपरत्वादाकारस्यआतो लोप इटि चे॑त्याल्लोपे प्राप्ते सति परिहार उच्यते इत्यर्थः । परिहारमेवाह — वरे लुप्तं न स्थानिवदिति ।लुप्त॑मिति भावे क्तः । ‘न पदान्ते’ ति सूत्रे ‘वरे’ इत्यनेन वरे परे विहितं न स्थानिवदिति लभ्यते । अल्लोपोऽयमार्धधातुके वरे परे विहितः । अतस्तस्य स्थानिवत्त्वाऽभावान्न यङोऽकारमाश्रित्यआतो लोप इटि चे॑त्यस्य प्रवृत्तिरित्यर्थः । एवंचन पदान्ते॑ति सूत्रे ‘वरे’ इत्यंशस्य , ‘यलोपे’ इत्यंशस्य च यायावर इत्युदाहरणमिति बोध्यम् ।

Padamanjari

यायावर इति पूर्ववदिटि प्रतिषिद्धे ठतो लोपःऽ’लोपो व्योर्वलि’ ,ठल्लोपस्य स्थानिवत्वादाल्लोपः प्राप्तो वरे कृतस्य स्थानिवत्वनिषेधान्न भवति॥

Nyaas

यायावरः इति। पूर्ववदकारयलोपौ॥

Prakriyasarvasvam

यङन्ताद् याधातोर्वरच् स्यात् । चकाराद् यङोऽकौटिल्यार्थत्वं चेति माधवः । यायाय वर । अतो लोपः । यायाय् वर ‘लोपो व्योः— (६-१-६६) इति यलोपः । भृशगतिशीलो यायावरः ॥

Sutra Prayogas

  • यायावराः (भट्टिकाव्यम्): यश्च यङः इति वरच्।