32175: स्थेशभासपिसकसो वरच्¶
Padacheda: स्था-ईश-भास-पिस-कसः | S | 5 | 1 |
वरच् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix वरच् comes, in the sense of ‘agent having such a habit etc.’ after the verbs 1. स्था ‘to stand’ 2. ईश ‘to rule’ 3. भास् ‘to shine’ 4. पिस् ‘to go’ 5. कस् ‘to go’.
Vasu English Translation¶
The affix वरच् comes, in the sense of ‘agent having such a habit etc.’ after the verbs 1. स्था ‘to stand’ 2. ईश ‘to rule’ 3. भास् ‘to shine’ 4. पिस् ‘to go’ 5. कस् ‘to go’. As स्थावरः ‘immoveable’; ईश्वरः ‘ruler, God’; पेस्वरः ‘going, destructive’; विकस्वरः ‘opening, expanding’.
Kashika¶
ष्ठा गतिनिवृत्तौ ईश ऐश्वर्ये भासृ दीप्तौ पिसृ पेसृ गतौ कस गतौ एतेभ्यस्तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति। स्थावरः। ईश्वरः। भास्वरः। पेस्वरः। विकस्वरः॥
Siddhanta Kaumudi¶
स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ॥
Balamanorama¶
स्थेशभासपिसकसो वरच् - स्थेश । ष्ठा गतिनिवृत्तौ, ईश ऐआर्ये, भासृ दीप्तौ, पिसू पेसृ गतौ, कस गतौ,एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः । ईआरीति तु पुंयोगे ङीष् ।
Tattvabodhini¶
स्थेशभासपिसकसो वरच् - ईआर इति ।नेड्वशी॑तीडभावः । पेस्वर इति । पिसृ पेसृ गतौ । कस्वर इति । कस गतौ ।
Padamanjari¶
स्थेशभासपिसकसो वचच्॥ ईश्वर इति।’नेड्वशि कृति’ इतीट्प्रतिषेधः। स्त्रियामीश्वरा। विन्यस्तमङ्गलमहौषधिमीश्वरायाः। ठीश्वरआआ सर्वभूतानाम्ऽ इति तु छान्दसः। औणादिको वरडित्यन्ये।’पुंयोगादाख्यायाम्’ इत्यन्ये। ठन्येभ्योऽपि द्दश्यन्तेऽ इति क्वनिपि’वनो र च’ इति ङीब्रावीत्यन्ये॥
Nyaas¶
स्थावरः`इति। `एकाच (7.2.10) इत्यादिनेट्प्रतिषेधः।ईआरः इत्यादावपि नेड्? वशि कृति (7.2.8) इति। तिष्ठतेः पूर्वसूत्रविहितौ क्स्नूकञावपि वचनाद्भवतः। ईशभासोः पूर्ववद्युचि प्राप्त इदं वचनम्।
Prakriyasarvasvam¶
स्थावरः । ईश्वरः । स्त्रियामीश्वरा । ईश्वरीति ईश्वन्शब्दात् ङीबूरौ । औणादिको वरङ् वा । भास्वरः । ‘पिसृ गतौ’ । पेस्वरः । विकस्वरः । प्रवदनशीलः प्रवद्वर इति च कौमुदी ॥
Sutra Prayogas¶
स्थावरजङ्गमानां (कुमारसम्भवम्): स्थेशभासपिसकसो वरच् इति वरच्प्रत्ययः।
विकस्वरैः (शिशुपालवधम्): स्थेशभासपिसकसो वरच् इति वरच् प्रत्ययः।
भासुराभि (भट्टिकाव्यम्): स्थेश -भास इति वरच् प्रत्ययः।
मायानामीश्वरास्तेऽपि (भट्टिकाव्यम्): स्थेश इति वरच्।