32165: जागुरूकः

Padacheda: जागुः | S | 1 | 1 |

ऊकः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ऊक comes after the verb जागृ ‘to be awake’ in the sense of ‘agent having such a habit’.

Vasu English Translation

The affix ऊक comes after the verb जागृ ‘to be awake’ in the sense of ‘agent having such a habit’. As जागरूकः ‘wakeful’.

Kashika

जागर्तेरूकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जागरूकः॥

Siddhanta Kaumudi

जागर्तेरूकः स्यात् । जागरूकः ॥

Balamanorama

जागुरूकः - जागुरूकः । ‘जागृ’ इत्यस्य जागुरित पञ्चम्यन्तं पदम् । तदाह — जागर्तेरिति । तच्छीलादिष्वित्येव । जागरूक इति । ऋकारस्य गुणः, रपरत्वम् । सिद्धरूपं तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् ।

Tattvabodhini

जागुरूकः - जागरूकः ।जागु॑रिति पञ्चम्यन्तं । तद्व्याचष्टे — जागर्तेरिति । जागरूक इति सिद्धरूपमेव न तु निपातितम, उत्तरसूत्रे ऊकस्याऽननुवृत्तिप्रसङ्गात् ।

Nyaas

जागरूकः इति। जागृ निद्राक्षये (धातुपाठः-1072)। वाऽसरूपविधिना तृन्नपि - जागरितेति भवति॥

Prakriyasarvasvam

जागृधातोः ऊकः स्यात् । गुणः । जागरूकः ॥

Sutra Prayogas

  • जागरूकः (रघुवंशम्): जागृनिद्रिभ्यां यङ्कौ (पा.3।2।165) इति ऊकप्रत्ययः।

  • जागरूकः (शिशुपालवधम्): जागृनिद्राक्षयेभ्यः ऊकः इत्यूकप्रत्ययः।

  • जागरूकः (भट्टिकाव्यम्): जागरूकः इति जागर्तेरूकः।